All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
नानार्थस्कन्धः · थान्ताः
इति तान्ताः ।
एकथाः ।
द्विथाः ।
द्वयो रथः स्यन्दनकायपत्सु ।स्याद्वैतसे चाथ कुथः कुशे नात्रिषु प्रवेण्यामपि कम्बले च ॥ ९२ ॥
6.18.92 · p. 230
उपजातिः
तिथोऽनले स्यान्मदनेऽथ नीथंस्तोत्रे गुदे नेतरि वाच्यलिङ्गम् ।पाथो रवौ नाम्बु हविर्गतोऽन्त्येकोथोऽक्षिरोगे शटिते च मन्थे ॥ ९३ ॥
6.18.93 · p. 230
उपजातिः
प्रोथः कटौ पुंसि तुरंगघोणा-न नाङ्गना गर्भगतस्तु न स्त्री ।पान्थेऽन्यवत्पुंसि तु भक्तजातेसिक्थो मधूच्छिष्टगतस्तु षण्ढे ॥ ९४ ॥
6.18.94 · p. 230
उपजातिः
नील्यां स्त्र्यथ स्याद्द्रवनिष्पवायांक्वाथो विपाके व्यसने च दुःखे ।पृथुस्तु वैश्वानरराजभेद-त्वक्पत्रिका मेचकजीरके ना ।त्रय्यां महत्येष हुताशने तुतुत्थः पुमानञ्जनगस्तु षण्ढे ॥ ९५ ॥
6.18.95 · p. 230
इन्द्रवज्राtwo metres in one verse
नील्यां च सूक्ष्मत्रुटिगश्च स स्त्रीदुःस्थोऽन्यवद्दुर्गत मूर्खवाची ।मन्थस्तु मन्थानकदृ[2b]ग्गदार्थेग्रन्थस्तु संदर्भधनप्रबन्धे ॥ ९६ ॥
6.18.96 · p. 230
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 1, syllable 8 दृ (wrong syllable)
अर्थोऽभिधेयद्रविणप्रकार-प्रयोजने वस्तुनि कारणे च ।निवर्तने स्याद्विषयेऽथ सार्थोवणिग्गणे संहतिमात्रके च ॥ ९७ ॥
6.18.97 · p. 230
उपजातिः
पार्थोऽर्जुने स्यात्ककुभद्रुमे चगाथा स्त्रियां छन्दसि शेषमात्रे ।स्यात्संस्कृतान्योक्तिषु चाथ कन्थावस्त्रान्तरे मृन्मयभित्तिकायाम् ॥ ९८ ॥
6.18.98 · p. 231
इन्द्रवज्रा
आस्थावलम्बस्थितियत्नवाञ्छा-सूक्ता च संस्था स्थितिनाशतौल्ये ।व्यक्तौ च यूथं तु गणे तिरश्चांबृंहेऽस्त्रियां स्त्री कुसुमप्रभेदे ॥ ९९ ॥
6.18.99 · p. 231
इन्द्रवज्रा
भवेत्कणायां च कुरण्टके चतीर्थं मखोपायवधूरजः सु ।क्षेत्रे गुरौ मन्त्रिणि चावतारेमार्गे जले चर्षिगणेन जुष्टे ॥ १०० ॥
6.18.100 · p. 231
उपजातिः
ग्रन्थिः पुमान्पर्वणि पर्वरोग-प्रभेदकौटिल्यगतः प्रदिष्टः ।नाथः प्रभौ चर्मपुटे पशूनांप्रस्थोऽस्त्रियां सानुनि मानभेदे ॥ १ ॥
6.18.1 · p. 231
उपजातिः
वीथी पदव्यामपि नाट्यभेदेपङ्क्तौ गृहस्यावयवेऽपि योषित् ।
6.18.12 · p. 231
इन्द्रवज्राmetre not read in every line
त्रिथाः ।
स्यान्मन्मथः पुष्पशरे कपित्थेस्यात्कामचिन्तास्वथ[3a]रात्रिमात्रे ॥ २ ॥
6.18.2 · p. 231
इन्द्रवज्राmetre not read in every line
तथार्धरात्रेऽपि च ना निशीथोनि थः( ? )सामनि हिंसने च ।शान्तावमात्ये शमथोऽथ दण्डेदमेऽपि ना स्याद्दमथोऽथ डिम्भे ॥ ३ ॥
6.18.3 · p. 231
उपजातिःmetre not read in every linenearly उपजातिः
स्यात्सारमेये रुदथो बुधे तुयोगिन्यपि स्याद्विदथो नृलिङ्गः ।स्याल्लोकपाले भरथो धवेऽपिविश्वासहेतौ शपथः शयौ च ॥ ४ ॥
6.18.4 · p. 231
इन्द्रवज्रा
उन्माथ उक्तो नरि कूटयन्त्रेस्यान्मारणे घातकवाचकश्च ।ना पार्षदे स्यात्प्रमथो हरस्यहरीतकीवाचक एष च स्त्री ॥ ५ ॥
6.18.5 · p. 232
उपजातिः
अस्त्रीवरूथो रथगोपने स्या-त्तद्वत्तनुत्रे सदने प्रदिष्टः ।गोपीथ उक्तो नरि सोमपानेतीर्थार्थकं चापि वदन्ति षण्ढे ॥ ६ ॥
6.18.6 · p. 232
इन्द्रवज्रा
स्यात्संगतौ ना समिथो रणे चतथा कृशानावतिथिस्तु पुंसि ।कुशात्मजे रुष्यपरोपमः स्या-त्प्राघूर्णिकेऽथो वमथुर्वमौ ना ॥ ७ ॥
6.18.7 · p. 232
उपजातिः
गजस्य तद्वत्करसीकरे स्या-द्विच्छा सु(?)शाकेष्वपि दृश्यते च ।संबद्धशक्तेऽपि हिते समर्थः ।सिद्धार्थ उक्तो मुनिसिंहकेऽपि ॥ ८ ॥
6.18.8 · p. 232
उपजातिः
स्यात्सर्षपेऽच्छेऽ परात्मनि[3b]स्या-त्कायस्थ उक्तो नरजातिभेदे ।स्त्री त्वामलक्यां च तथाभयायांवयःस्थ उक्तस्तरुणोऽन्यलिङ्गः ॥ ९ ॥
6.18.9 · p. 232
उपजातिःmetre not read in every linenearly उपजातिः: pāda 1, syllable 9 नि (wrong syllable)
स्त्रीत्वामलक्यां च गुडूचिकायांकाकोलिकायामपि शाल्मलिद्रौ ।ब्राह्म्यांच सूक्ष्मत्रिपुटासु चाथ ।ना गर्दभाण्डे नरि पिप्पले च ॥ १० ॥
6.18.10 · p. 232
इन्द्रवज्रा
अश्वत्थ उक्तोऽपि च पौर्णमास्यांनपुंसके त्वम्भसि संप्रदिष्टः ।उपस्थ उत्सङ्ग वराङ्गपायु-मेढ्रेषु निःस्वे त्वपि नग्नकेन्द्रे ॥ ११ ॥
6.18.11 · p. 233
उपजातिः
निर्मन्थ उक्तोऽथ करीरगोष्ठ-दार्वीषु गोग्रन्थिरिति प्रदिष्टिः ।अथाव्यथोऽहौ नरि निर्व्यथेऽन्य-लिङ्गोऽभयायां गदितः स्त्रियां सः ॥ १२ ॥
6.18.12 · p. 233
उपजातिः
चतुस्थाः ।
मार्गचतुष्टयसङ्गे चतुष्पथः स्यात्तथा विप्रे ।किंशुक आश्रमभेदे वानप्रस्थो मधूकेऽपि ॥ १४ ॥
6.18.14 · p. 233
metre not recognised
दशमीस्थः स्थविरे स्याद्विनष्टरेतस्यपि प्रोक्तः ।समरस्थेऽनीकस्थः सिन्धुरशिक्षाविचक्षणे तद्वत् ॥ १५ ॥
6.18.15 · p. 233
उद्गीतिः
नृपते रक्षिणि चि[4a]ह्ने भवति तथा वीरमर्दले तद्वत् ।स्यादितिकथा विनष्टे धर्मे वचने तथार्योने ॥ १६ ॥
6.18.16 · p. 233
आर्या