All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
नानार्थस्कन्धः · रान्ताः (1/3)
॥ इति यान्ताः ॥
एकराः ।
रः पावके रागसमीरयोः स्या-च्छब्देऽथ तीक्ष्णे परवत्प्रदिष्टः ।रास्तु द्वयोः स्याद्धनहेममेघे-रुः स्याद्भये रक्षणवाचकश्च ॥ ९४ ॥
6.27.94 · p. 301
इन्द्रवज्रा
स्रुस्तु स्रुवे निर्झरवाचकोऽपिद्रूः कामरूपिण्यपि काञ्चने च ।श्रीरिन्दिरावेषसरस्वतीषुसंपत्तिशोभारचनात्रिवर्गे ॥ ९५ ॥
6.27.95 · p. 301
इन्द्रवज्रा
बिल्वद्रुमे स्या[44a]त्सरलद्रुमेऽपिपरिच्छदे धूस्तु सुरापगायाम् ।भारेऽपि यानस्य मुखेऽपि सा स्या-त्स्त्रियां तु पूः पत्तनदेहयोश्च ॥
6.27.3 · p. 301
उपजातिःmetre not read in every line
द्विराः ।
अरिस्तु शत्रौ चरमे तु चक्रेकरस्तु वर्षोपलपाणिवाची ।मयूखशुण्डानृपदेयभागेचरः स्पशे जङ्गमके चले च ॥ ९७ ॥
6.27.97 · p. 302
उपेन्द्रवज्रा
द्यूतान्तरे चाथ नरस्तु मर्त्येऽर्जुने तथाजेऽवरसारकेऽन्त्ये ।खरो भवेद्रासभदेवताडेतिग्मेऽन्यवच्चाथ गरो गदे स्यात् ॥ ९८ ॥
6.27.98 · p. 302
उपजातिः
विषे तथा चोपविषे द्वयोनंपुनर्मतोऽसौ गरणे सुधीभिः ।चारश्चरे स्याच्च पियालवृक्षे**ऽथ षण्ढं कृतके विषे स्यात् ॥ ९९ ॥
6.27.99 · p. 302
उपेन्द्रवज्राmetre not read in every line
परस्त्वनात्मोत्तमवैरिदूरेस्यात्केवले चापि विशेष्यलिङ्गः ।भरस्तु भारेऽतिशये वरस्त्व-भीष्टे सुरादेर्दुहितुश्च पत्यौ ॥ १०० ॥
6.27.100 · p. 302
उपजातिः
[44b] षिङ्गेऽन्यवत्तूत्तमवाचकोऽथस्यात्केसरेन्त्ये परिवर्त्तने वा ।फलत्रये स्याच्च वरा वरी तुशतावरीनाम्नि तथाव्ययं तु ॥ १ ॥
6.27.1 · p. 302
उपजातिः
मनागभीष्टेऽथ सरोऽपि बाणेमुक्तादियष्टौ च तथाग्रभागे ।दध्नोऽन्यवद्विह्वरणे [द्व]येऽथस्वरोऽक्षु चोदात्तमुखेषु शब्दे ॥ २ ॥
6.27.2 · p. 302
उपजातिः
नासानिले मध्यमपञ्चमादौशरोऽस्त्रियां तेजनके च काण्डे ।दध्यग्रके वारिणि तु द्वयोनेधरस्तु शैले कमठाधिपे च ॥ ३ ॥
6.27.3 · p. 302
उपजातिः
कार्पासके स्यादपि कूलके चस्त्रियां तु गर्भाशयभूमिवाची ।मेदस्यथाम्भोमुचि च क्षरः स्या-न्नीरेऽन्तिमेऽथ त्रिषु रन्ध्रभीत्योः ॥ ४ ॥
6.27.4 · p. 303
उपजातिः
दरी पुनः कन्दरवाचिका स्या-दथेषदर्थे दरमव्ययं च ।क्षुरश्छिदावस्तुनि कोकिलाक्षेत्रिकण्टकेऽथ त्रितये पुरं स्यात् ॥ ५ ॥
6.27.5 · p. 303
उपेन्द्रवज्रा
स्यात्पत्तने पाटलिपुत्रके चगृहोर्ध्वगेहे नरि गुग्गुलौ स्यात् ।क्लीबे तु देहे च पुराव्ययं स्यात्खुरः पुनः कोलदले शफे च ॥ ६ ॥
6.27.6 · p. 303
उपजातिः
देवे सुरः स्त्रीचषके च [45a]मद्येसुरी तु देवप्रमदार्थिका स्यात् ।कारस्तु यत्ने च यतौ वधे चबलौ हिमाद्रावपि निश्चयार्थे ॥ ७ ॥
6.27.7 · p. 303
उपजातिःmetre not read in every line
प्रसेवके बन्धगृहे च दूत्यांस्त्रीकारिकायां चरमे तु हेम्नि ।पारं परस्मिंश्च तटे समाप्तौप्रान्ते च न स्त्री गदितं स्त्रियां तु ॥ ८ ॥
6.27.8 · p. 303
उपजातिः
पात्र्यां परागे गजपादरज्ज्वांस्यात्कर्करीपूरगतं तथैव ।वारस्तु सूर्यादिदिने समूहेद्वारे तथैवावसरे च न स्त्री ॥ ९ ॥
6.27.9 · p. 303
इन्द्रवज्रा
ना कुब्जवृक्षे गिरिशेऽथ षण्ढेमद्यस्य पात्रे परिकीर्तितश्च ।मुक्तादिशुद्धौ तरणे च तारःसन्मौक्तिके भे तु कनीनिकायाम् ॥ १० ॥
6.27.10 · p. 304
इन्द्रवज्रा
त्रये द्वयोनो रजते स्त्रियां तुस्याद्बुद्धदेव्यां धिषणाङ्गनायाम् ।सुग्रीवनार्यां परवत्पुनः स्या-दुच्चस्वरे भप्रभवेऽपि तद्वत् ॥ ११ ॥
6.27.11 · p. 304
उपजातिः
अयानयीने च वराटके चस्यात्प्रासकेऽपि द्वितये च शारः ।समीरणे ना शबले [बले] चद्रव्ये तु चित्रे परवत्प्रदिष्टः ॥ १२ ॥
6.27.12 · p. 304
उपजातिः
हेम्नः पलानामयुतद्वये स्या-द्भारस्तुलानामपि विंशतौ [45b] च ।स्याद्वीवधेऽथो मरके स्मरे चवृषेऽपि मारो गदितोऽथ चण्ड्याम् ॥ १३ ॥
6.27.13 · p. 304
उपजातिःmetre not read in every line
जनक्षये स्त्री, विकटे तु भेद्येना बुद्बुदे स्यात्करकादिकस्य ।स्फारोऽथ काचे लवणे च धूर्त्तेरसान्तरे क्षारमुशन्ति पुंसि ॥ १४ ॥
6.27.14 · p. 304
उपजातिः
मुक्तावलौ स्यात्समरे च हारोद्वयोरथारः क्षितिजेऽर्कजे वा ।स्त्रियां पुनश्चर्मविभेदिकायांधारासु षण्ढे द्विषतां गणे स्यात् ॥ १५ ॥
6.27.15 · p. 304
उपजातिः
नारं तु नीरे कनकेऽथ सारोबले स्थिरांशेऽपि च मज्ज्नि पुंसि ।न्याय्ये च नीरे द्रविणे च षण्ढेवरे पुनर्वाच्यसमं वदन्ति ॥ १६ ॥
6.27.16 · p. 304
उपजातिः
द्वारं पुनर्निर्गमनेऽभ्युपायेपूरोऽम्बुवृद्धौ व्रणशोधने च ।खाद्यान्तरे स्त्री, कठिने तु घोरेक्रूरो नृशंसेऽपि च वाच्यलिङ्गः ॥ १७ ॥
6.27.17 · p. 305
इन्द्रवज्रा
स्तः शूरसूरौ तरणौ सुयोधेचोरः पुमांस्तस्करचोरकेषु ।स्थूरो नृलिङ्गो नरमात्रवाचीहयस्थपश्चान्नलिकागतः स्त्रीतीरः पुमान्रङ्ग इषु प्रभेदेतीरं तटे च प्रवदन्ति सन्तः ॥ १८ ॥
6.27.18 · p. 305
इन्द्रवज्राtwo metres in one verse
सीरो रवौ पुंस्यथ लाङ्गलेऽस्त्रीचीरं तु चूडांशु[46a]कगोस्तनेषु ।स्यात्सीसके स्त्री त्वपि झिल्लिकायांकच्छाटिकायामपि लेखभेदे ॥ १९ ॥
6.27.19 · p. 305
इन्द्रवज्राmetre not read in every line
स्वैरः स्वतन्त्रे परवच्च मन्देजीरोऽस्त्रियां स्याज्जरणे कृपाणौ ।क्षीरः समुद्रे च महीधरे चषण्ढे तु दुग्धे सलिले प्रदिष्टम् ॥ २० ॥
6.27.20 · p. 305
इन्द्रवज्रा
कीरः शुके स्यादपि देशवाचीगौरस्तु पीतारुणपाण्डुरेषु ।शुद्धे च वाच्ये सितसर्षपाष्ट-वर्षातनूजेन्दुषु संप्रदिष्टः ॥ २१ ॥
6.27.21 · p. 305
इन्द्रवज्रा
स्यात्केसरेऽन्त्ये गिरिजारजन्योःपिङ्गाप्रियङ्गुक्षितिरोचनासु ।स्त्रियामसञ्जातरजःकुमार्यांसरिद्विशेषे वरुणस्त्रियां च ॥ २२ ॥
6.27.22 · p. 305
उपजातिः
पौरः पुरोत्थे त्रिषु कत्तृणेऽन्त्येवेरं तु वातिंगणदेहयोः स्यात् ।काश्मीरके ना तु हरेऽस्ति घोरोभीमेऽन्यवद्ध्रस्वहये तु टारः ॥ २३ ॥
6.27.23 · p. 306
इन्द्रवज्रा
तुरङ्गमात्रेऽप्यथ लग्नराश्य-र्द्धयोश्च रेखाभिदि चात्र होरा ।हीरस्तु वज्रे समरे स्त्रियां तुहरिप्रियायां च पिपीलिकायाम् ॥ २४ ॥
6.27.24 · p. 306
उपजातिः
गोत्रो धरे स्याद्भुवि गोसमूहेस्त्रियामथान्त्ये कुलनामहृत्सु ।क्षे[46b]त्रे वने वर्त्मनि तद्वदेवसंभावनीयस्य च बोधनेऽपि ॥ २५ ॥
6.27.25 · p. 306
उपजातिःmetre not read in every line
गात्रं तु देहेऽवयवे गजस्यजङ्घादिभागे नरलिङ्गहीनम् ।पत्रं तु न स्त्री शरपक्षिपक्षेपर्णे तथा वाहन[ना]म्नि शस्तम् ॥ २६ ॥
6.27.26 · p. 306
इन्द्रवज्रा
पात्रं त्रये तीरयुगान्तरालेऽमत्रे च योग्ये चरमे तु वर्णे ।नाट्याधिकारिण्यपि राजमन्त्रि-ण्यपि स्रुवादौ निगदन्ति तादृक् ॥ २७ ॥
6.27.27 · p. 306
उपजातिः
पोत्रं तु वस्त्रे किटिलाङ्गलस्या-ग्रकेऽथ चित्रं तिलकेऽन्तरिक्षे ।आलेख्यकिर्मीरकविस्मयेषुत्रये तु किर्मीरिणि विस्मिते च ॥ २८ ॥
6.27.28 · p. 306
उपजातिः
भे तु द्वयोः स्त्री तु नदीविभेदेदन्तीसुभद्रासुरवारुणीषु ।मायाखुपर्ण्योरपि चाप्सरःसुचैत्रं तु चैत्ये मृतकस्य दिष्टम् ॥ २९ ॥
6.27.29 · p. 306
इन्द्रवज्रा
मासेऽद्रिभेदे च पुमानथ स्याद्वृत्रो रिपौ दानवशक्रयोश्च ।ध्वान्ते घने पर्वतवाचकोऽथसत्रं वने वाससि कैतवे च ॥ ३० ॥
6.27.30 · p. 307
इन्द्रवज्रा
सदाप्रदाने च मखेऽथ सूत्रंस्यात्सूचनाग्रंथकतन्तुवाचि ।न स्त्री च मित्रं तु युगे न सख्यौभासां निधौ[47a]पुंसि वदन्ति सन्तः ॥ ३१ ॥
6.27.31 · p. 307
उपजातिःmetre not read in every line
ग्रन्थे निदेशे च वदन्ति शास्त्रंमात्रं तु कार्त्स्न्ये च धृतौ द्वयोनम् ।स्त्री त्वक्षरस्यावयवे तथाल्पेपरिच्छदश्रोत्रविभूषयोश्च ॥ ३२ ॥
6.27.32 · p. 307
उपजातिः
स्याद्वृत्तमानेऽथ युगे न शस्त्रंलोहास्त्रयोः स्याच्छुरिकासु योषित् ।अस्त्रं तु चापे प्रहृतौ च खड्गेवक्त्रं मुखे वृत्तविशेषकं स्त्री ॥ ३३ ॥
6.27.33 · p. 307
इन्द्रवज्रा
नेत्रं तु न स्त्री नयने च वस्त्र-भेदे द्रुमूले रथवस्तिनाड्योः ।मथो गुणेऽन्यत्र तु नेतृवाचीक्षेत्रं तु केदारशरीरयोः स्यात् ॥ ३४ ॥
6.27.34 · p. 307
उपजातिः
कलत्रसिद्धस्थलयोरथ स्या-द्रेत्रं च रेतःपटवासयोश्च ।पीयूषके सूतकवाचकं चमन्त्रस्तु वेदान्तरवाचकः स्यात् ॥ ३५ ॥
6.27.35 · p. 307
उपजातिः
प्रसादनायामपि देवतादेःस्याद्गुप्तवादेऽप्यथ तोत्रमाहुः ।स्याद्वेणुकप्राजनयोरथ स्या-त्तन्त्रं कुटुम्बस्य कृतौ च हेतौ ॥ ३६ ॥
6.27.36 · p. 307
उपजातिः
इतिक्रियायां परिवारशास्त्रेप्रधानसिद्धान्त * भेषजेषु ।स्याद्वेदशाखाभिदि तन्तुवायेस्यात्साध[47b]कोपायवशित्वसैन्ये ॥ ३७ ॥
6.27.37 · p. 308
metre not recognised
स्त्रियां तु वीणागुणदेहयोः स्या-त्तथा शिरायां च गुडूचिकायाम् ।छत्रं त्रयेऽप्यातपवारणे स्या-न्मिस्यां शिलीन्ध्रेऽपि च धान्यके स्त्री ॥ ३८ ॥
6.27.38 · p. 308
उपजातिः
चक्रस्तु कोके निकरे तु न स्त्रीरथाङ्गसैन्येष्वपि राष्ट्रके च ।स्याद्ग्रामजालेऽपि कुलालभाण्डेदम्भान्तरेऽस्त्रे सलिलभ्रमे च ॥ ३९ ॥
6.27.39 · p. 308
उपजातिः
चुक्रं तु न स्त्री किल वेतसाम्लेऽम्लव्यञ्जने योषिति लोणिकायाम् ।वृक्षाम्लकेऽन्त्येऽप्यथ शुक्र आद्येकाव्ये सिते योगभिदि प्रदिष्टः ॥ ४० ॥
6.27.40 · p. 308
इन्द्रवज्रा
न स्त्री तु मासान्तरपावकार्थोरूप्येऽक्षिरोगे चरमे च धातौ ।द्वन्द्वे न शक्रस्तु शचीपतौ स्या-त्तथार्जुनद्रौ कुटजे च दिष्टः ॥ ४१ ॥
6.27.41 · p. 308
उपजातिः
नक्रस्तु कुम्भीरकवाचको नाक्लीबेऽग्रदारुण्यपि नासिकायाम्शनैश्चरे वक्रमुशन्ति पुंसिक्लीबं न ते स्यात्पुटभेदके च ॥ ४२ ॥
6.27.42 · p. 308
उपजातिः
क्रूरेऽन्यवत्स्यात्कुटिलेऽप्यथाग्र-मालम्बने स्यान्निकरेऽधिके च ।प्रान्ते पुरस्तादुपरि प्रधाने-ऽप्याद्ये तथा[48a]र्द्धे च पलप्रमाणे ॥ ४३ ॥
6.27.43 · p. 308
इन्द्रवज्राmetre not read in every line
क्षत्रात्तु शूद्रातनये तथोग्रःशम्भौ च नाथोत्कटकेऽन्यलिङ्गः ।स्त्री छिक्किकायां च तथा वचायांव्यग्रोऽन्यवद्व्यापृत आकुले च ॥ ४४ ॥
6.27.44 · p. 309
इन्द्रवज्रा
भद्रो हरे स्याद्वृषभे च मेरु-कदम्बके वारणजातिभेदे ।स्याद्रामदूतेऽपि च खञ्जरीटेश्रेष्ठे तु साधुन्यपि वाच्यलिङ्गः ॥ ४५ ॥
6.27.45 · p. 309
उपजातिः
स्त्रियां तु रास्नासुरनिम्नगार्थो-ऽनन्ताकणाकट्फलवाचकः स्यात् ।तिथौ च विष्टौ चरमे तु हेम्निकल्याणमुस्तार्थ[क]ईरितश्च ॥ ४६ ॥
6.27.46 · p. 309
उपजातिः
क्षुद्रोऽधमः क्रूरदरिद्रवाचीत्रयेऽल्पके स्त्री तु नटीबृहत्योः ।पुराङ्गनायां मधुमक्षिकायांव्यङ्गासु हिंस्रास्वपि लोणिकासु ॥ ४७ ॥
6.27.47 · p. 309
उपजातिः
स्यात्कण्टकार्यामपि मक्षिकायांक्षौद्रं जले स्यान्मधुनि द्वयोनम् ।अज्रोऽन्यवद्गन्तरि नायकेऽथवध्रो द्वयोश्चार्मणरज्जुवाची ॥ ४८ ॥
6.27.48 · p. 309
इन्द्रवज्रा
सीसेऽस्त्रियां पक्षिभिदीह गृध्रोविशेष्यवत्स्याद्धनलुब्धके च ।रोध्रो भवेच्छाबरके च षण्ढेपापे च मन्तौ[48b] विहगेऽपि जिव्रिः ॥ ४९ ॥
6.27.49 · p. 309
उपजातिःmetre not read in every line
नीध्रं तु चन्द्रेऽथ वलीकनेमि-रेवत्यरण्येषु नपुंसके स्यात् ।राष्ट्रोऽस्त्रियां स्यादुपवर्तनोप-द्रवार्थकेऽप्यंहसि कष्टके च ॥ ५० ॥
6.27.50 · p. 309
उपजातिः
कृच्छ्रं तथा सान्तपनादिकेऽस्त्रीचन्द्रस्तु कम्पिल्लहिमत्विषोर्ना ।जले तु षण्ढे घनसारहेम्नो-र्न स्त्रीन्द्र आदित्यशचीशयोः स्यात् ॥ ५१ ॥
6.27.51 · p. 310
उपजातिः
तथान्तरात्मन्य[पि] योगभेदेफणिज्जके योषिति सम्मतोऽयम् ।क्लिन्ने तथार्द्रस्त्रिषु भे पुनः स्त्रीसान्द्रं त्वरण्ये च घने मृदौ च ॥ ५२ ॥
6.27.52 · p. 310
उपजातिः
गुन्द्रः पुमांस्तेजनके स्त्रियां तुस्याद्भद्रमुस्तासु तथा प्रियङ्गौ ।स्यान्मुस्तके चाथ रसान्तरे नारौद्रोऽन्यवद्भीषणतीव्रवाची ॥ ५३ ॥
6.27.53 · p. 310
इन्द्रवज्रा
स्त्रियां पुनः षण्मुखमातरि स्या-त्तीव्रं नितान्ते त्रिषु तीक्ष्णकट्वोः ।स्त्री गण्डदूर्वाकटुकासुरीषुतृप्रः पुरोडाशगतः पुमान्स्यात् ॥ ५४ ॥
6.27.54 · p. 310
उपजातिः
क्लीबे तु काष्ठे च घृते च दुःखे-ऽथौड्रो जने स्यादपि देशभेदे ।जपातरौ पुण्ड्रमुशन्ति दैत्य-[49a]भेदेऽतिमुक्तेक्षुविशेषयोश्च ॥ ५५ ॥
6.27.55 · p. 310
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 1, syllable 1 ज (wrong syllable)
चित्रे कृमौ देशविशेषके चस्यात्पुण्डरीकेऽप्यथ वज्रमस्त्री ।स्याद्धीरके चाप्यशनावथाद्येयोगान्तरे बालक आमलक्याम् ॥ ५६ ॥
6.27.56 · p. 310
इन्द्रवज्रा
स्नुह्यां तु वज्रापि गुडूचिकायांस्नुह्यन्तरेऽपि प्रथिता * वज्री ।शुल्बे तु ताम्रं परगाम्यरुणे स्या-दस्रस्तु कोणेऽपि कचेऽथ रक्ते ॥ ५७ ॥
6.27.57 · p. 310
metre not recognisednearly इन्द्रवज्रा
षण्ढे तथा चाश्रुणि दस्र आद्येखरेऽश्विनोर्वासरहिंस्रयोस्तु ।घस्रोऽथ वाश्रोऽह्नि खरे पिके चचतुष्पथेऽन्त्ये सदने तथैव ।स्त्री प्रस्नुतायां गवि शब्दवत्या-मुस्रो वृषे स्यात्किरणे च पुंसि ॥ ५९ ॥
6.27.59 · p. 311
उपजातिःtwo metres in one verse
दभ्रः समुद्रे त्रिषु चाल्पवाचीशुभ्रं तु रूप्ये त्रिषु दीप्त-शुक्ले ।खिद्रो गदे ना परवद्दरिद्रे-ऽथाभ्रं नभःस्वर्गघनाभ्रकेषु ॥ ५९ ॥
6.27.59 · p. 311
इन्द्रवज्रा
वप्रस्तु तातेऽथ चये च रेणौक्षेत्रे तटे च प्रथितः स्त्रियां न ।शीघ्रं द्रुते स्यान्नलदेऽपि * *चक्राङ्गके द्वीपिकरञ्जयोस्तु ॥ ६० ॥
6.27.60 · p. 311
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा
व्याघ्रोऽपि र[49b]क्ते उरुबौ स्त्रियां तुनिदिग्धिकायां मृगराजजातौ ।हरौ हरेऽग्नौ नकुले च वज्रेमुनौ विलासे नरि बभ्रुरुक्तः ॥ ६१ ॥
6.27.61 · p. 311
उपेन्द्रवज्राmetre not read in every linenearly उपेन्द्रवज्रा: pāda 1, syllable 1 व्या (wrong syllable); pāda 1, syllable 4 र (wrong syllable)
स्यात्पिङ्गले वाच्यसमोऽथ शिग्रुःशोभाञ्जने स्त्रीरहितश्च शाके ।शरुस्तु कोपे कुलिशे च पुंसिस्वरुर्मखे यूपकृपाणयोश्च ॥ ६२ ॥
6.27.62 · p. 311
उपजातिः
वज्रे शरे चाथ खरुर्हरे स्या-द्दर्पे च दन्ते तुरगे स्त्रियां तु ।पतिंवरायां त्रितये तु पाण्डौभरुर्हरौ पुंसि हरे च हेम्नि ॥ ६३ ॥
6.27.63 · p. 311
उपजातिः
भर्त्तर्यपि स्यात्तु चरुर्नृलिङ्गोहव्यान्नतद्भाण्डगतः कुरुस्तु ।हरे च कूरे नरि राजभेदेपुंभूम्न्यसौ जङ्गलवाचकश्च ॥ ६४ ॥
6.27.64 · p. 312
उपजातिः
गुरुर्निषेकादिकरे * ताता-दिके सुराणामपि मन्त्रिणि स्यात् ।विशेष्यवद्दुर्जरकेऽलघिष्ठेपृथौ रुरुर्दैत्यविशेषरङ्क्वोः ॥ ६५ ॥
6.27.65 · p. 312
उपेन्द्रवज्राmetre not read in every linenearly उपेन्द्रवज्रा
कारुस्तथा शिल्पिनि कारके चस्याद्विश्वकर्मण्ययमादिलिङ्गः ।पुरुः पुमान्स्वर्नृपभित्परागेप्राज्ये पुरोगे च विशेष्यवत्स्यात् ॥ ६६ ॥
6.27.66 · p. 312
उपजातिः
मरुर्गिरौ स्यादपि धन्वदेशे[50a]खात्रं खनित्रे सलिलाशये च ।आरुर्द्रुभेदे नरि पिङ्गले चस्यात्कर्कटे दंष्ट्रिणि च स्त्रियां तु ॥ ६७ ॥
6.27.67 · p. 312
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 1, syllable 1 म (wrong syllable)
स्यात्कर्करीशाकविशेषयोश्चतथैव चारूरथ पिङ्गले स्यात् ।कद्रूस्त्रये स्त्री त्वहिमातृवाचीपादे च बुध्ने * पुमानिहाङ्घ्रिः ॥ ६८ ॥
6.27.68 · p. 312
उपजातिःmetre not read in every linenearly उपजातिः
इन्द्रार्कचन्द्रानिलविष्णुसिंह-यमांशुवाजिप्लवगप्लवेषु ।हरे च कीरे नरि लोकभेदेहरिः प्रदिष्टः कपिलेऽन्यलिङ्गः ॥ ६९ ॥
6.27.69 · p. 312
उपजातिः
भूरिः पुमान्विष्णुहराब्जभूषुहेम्न्यन्तिमे प्राज्यगतोऽन्यलिङ्गः ।गिरिस्तु ना पक्षधराक्षिरुक्षुगुडेरके स्त्री तु स गीर्णिवाची ॥ ७० ॥
6.27.70 · p. 312
उपजातिः
पूज्येऽन्यवत्स्यादथ राज्ञि पुंसिनदीपुरोः स्त्री च पुरिः प्रदिष्टः ।शिरिः पुमान्स्याच्छलभे शरारौविशेष्यवद्वारि तु बालकेऽन्त्ये ॥ ७१ ॥
6.27.71 · p. 313
उपजातिः
तोये स्त्रियां वाग्गजबन्धभूमी-घटीषु शारिस्तु पुमान्प्रदिष्टः ।द्यूतार्थमूर्त्तिष्वथ योषिति स्या-च्चित्रेक्षणायां(?) व्यवहारभेदे ॥ ७२ ॥
6.27.72 · p. 313
उपजातिः
साङ्ग्रामिके[50b]पल्ल्ययने गजानांकारिः क्रियायां गदिता स्त्रियां च ।विशेष्यवच्छिल्पिनि सा प्रदिष्टाहारिः स्त्रियां पान्थवनौ( ? )च भङ्गे ॥ ७३ ॥
6.27.73 · p. 313
उपजातिःmetre not read in every line
द्यूतेऽद्रयस्तु द्रुमशैलसूर्याऐन्द्रिर्जयन्तेऽपि च वायसे च ।शद्रिर्गजाम्भोधरजिष्णुवाचीनिद्राप्रमीलासु तु तन्द्रि-तन्द्रे ॥ ७४ ॥
6.27.74 · p. 313
इन्द्रवज्रा
वङ्क्र्यन्तिमे वाद्यविशेषपार्श्वा-स्थिगं तथा दारुणि मन्दिरस्य ।क्षेत्रे तु वप्रिः प्रमदाह्वये स्त्रीधात्री जनन्यामलकीमहीषु ॥ ७५ ॥
6.27.75 · p. 313
उपजातिः
उष्ट्री करभ्यामपि गोलिकायांक्रोष्ट्री भवेत्क्षीरविदारिकायाम् ।स्याल्लाङ्गलीफेरवयोषितोश्चतरीस्तरण्यां पिटके दशासु ॥ ७६ ॥
6.27.76 · p. 313
उपजातिः
जारो भवेच्चोपपतौ स्त्रियां तुस्याद्यावनाले मुदि मद्रमन्त्ये ।देशे पुमान्स्याद्विबुधैस्त्विरोक्ताकादम्बरीवाग्वसुधासुधासु ॥ ७७ ॥
6.27.77 · p. 314
इन्द्रवज्रा
स्थिरा तु मह्यामपि शालपर्ण्यांस्थिर[51a]स्तु मोक्षे त्रिषु निश्चले स्यात् ।धारा तु सैन्याग्रिमभागवाजि-गतिप्रभेदद्रववस्तुपाते ॥ ७८ ॥
6.27.78 · p. 314
उपजातिःmetre not read in every linenearly उपजातिः: pāda 2, syllable 2 र (wrong syllable)
खड्गादिकानां निशिते मुखे चपुमान्घनासारकवर्षणर्णे ।वीरस्तु शूरे चरमे तु शृङ्ग्यांनते स्त्रियां क्षीरविदारिकायाम् ॥ ७९ ॥
6.27.79 · p. 314
उपजातिः
स्यादेलवालुन्यपि दुग्धिकायांगम्भारिकाक्षीरवयःस्थयोश्च ।मद्ये च रम्भापतिपुत्रवत्योःस्यात्तामलक्यां परवत्तु मान्ये ॥ ८० ॥
6.27.80 · p. 314
इन्द्रवज्रा
यात्रा गतौ यापनदेवपूजो-त्सवेऽथ हिंस्रस्त्रिषु घातुके स्यात् ।काकादनीमांसिकयोः स्त्रियां स्यात्धीरोऽसुरे ना त्रिषु धैर्यभाजि ॥ ८१ ॥
6.27.81 · p. 314
उपजातिः
त्रिराः ।
सुपर्वसु स्यादमरोऽपि वज्र-द्रुमेऽस्थिसंहारक औषधौ च ।दूर्वामृताधारणदेवपूःषुस्त्रियामथ स्यादपरं न पुंसि ॥ ८२ ॥
6.27.82 · p. 314
उपजातिः
पश्चाच्छरीरे करिणां स्त्रियां तुभवेज्जरायौ चरमेऽधुनार्थे ।आर्वाग्भवे भेद्यसमं वदन्तिदन्तच्छदे पुंसि तथाधरः स्यात् ॥ ८३ ॥
6.27.83 · p. 315
उपजातिः
अनूर्ध्व[51b]हीने परगोऽध्वरस्तुस्यात्सावधाने वसुभिन्मखार्थः ।अस्त्र्यन्तरं रन्ध्रविनावकाशा-न्तरात्मभेदावधिमध्यवाचि ॥ ८४ ॥
6.27.84 · p. 315
उपजातिःmetre not read in every line
बहिःपरीधानतदर्थतासुस्वीये तथा चावसरेऽपवृत्त्याम् ।त्रयेऽवरं स्याच्चरमार्थकेऽन्त्येजङ्घादिदेशे करिणां स्त्रियां तु ॥ ८५ ॥
6.27.85 · p. 315
उपजातिः
भवेद्भवान्यां नरि तूत्तरः स्या-द्विराटपुत्रे दिशि योषिति स्यात् ।भवेद्द्वयोनः प्रतिवाक्यवाची-तरोऽन्यनामा त्रिषु पामरे च ॥ ८६ ॥
6.27.86 · p. 315
उपेन्द्रवज्रा
अस्त्यक्षरं ब्रह्मणि वर्णमुक्त्यो-रन्त्ये ध्रुवेऽन्योपममृक्षरो ना ।स्यात्कण्टकेऽप्यृत्विजि वारिधारा-वाची तु षण्ढे प्रवरस्तु न स्त्री ॥ ८७ ॥
6.27.87 · p. 315
इन्द्रवज्रा
अर्चेय( ? )संतत्यभिधानवाची-श्रेष्टेऽन्यवत्स्याच्छबरस्तु पुंसि ।शंभौ च चाण्डालकजातिभेदेक्लीबे तु तोयेऽथ निशाचरे स्यात् ॥ ८८ ॥
6.27.88 · p. 315
इन्द्रवज्रा
पुंस्यूर्दरो वीरगतोऽपि दिष्टोमुनौ तु शौण्डे मठरस्तथैव ।स्यादम्बरं वाससि चान्तरिक्षेकर्पासके स्याच्च सुगन्धभेदे ॥ ८९ ॥
6.27.89 · p. 315
उपजातिः
स्याच्छम्ब[52a]रो दैत्यमृगाद्रिमत्स्य-लोकान्तरेष्वम्भसि तु द्वयोनः ।वित्ते च बौद्धव्रतभेदके स्त्रीतथौषधौ स्यात्प्रखरस्तु पुंसि ॥ ९० ॥
6.27.90 · p. 316
उपजातिःmetre not read in every line
स्यात्सारमेयेऽश्वतरे तुरङ्ग-सेनाहकेऽन्यत्र भृशं खरे च ।शैलाग्रकेऽस्त्री शिखरो द्रुमाग्रेस्यात्कोटिकक्ष्यापुलकेषु तद्वत् ॥ ९१ ॥
6.27.91 · p. 316
इन्द्रवज्रा
माणिक्यखण्डेऽपि सुदाडिमाभेऽथो विष्टरः पुंसि महीरुहे स्यात् ।अस्त्र्यासने स्यादपि दर्भमुष्टौमूर्खे शठे स्याद्वठरश्च वस्त्रे ॥ ९२ ॥
6.27.92 · p. 316
इन्द्रवज्रा
त्रय्यां कठोरे पिठरस्तु दण्डेमन्थोखयोः स्यात्त्रिषु मुस्तके च ।कुक्षौ तु न स्त्री जठरोऽन्यवत्तुबद्धे कठोरे च बुधैः प्रदिष्टः ॥ ९३ ॥
6.27.93 · p. 316
इन्द्रवज्रा
करीरकोशेऽपि च तालपत्रेस्याद्वण्ठरच्छिन्नकरेभ्यवच्च ।छदे कपाटेऽप्यररं रणे चकरीरवृक्षे कुररः खगे च ॥ ९४ ॥
6.27.94 · p. 316
उपजातिः
दीने तथा स्यात्क्रकचेऽथ बाल-पत्रे सिते स्यात्कदरो गदेऽपि ।कार्पासिकायां बदरं च कोल्यांफले तयोर्बादरमीरितं ज्ञैः ॥ ९५ ॥
6.27.95 · p. 316
उपजातिः
[52b]विष्णुक्रान्तौषधावेलापर्ण्यां च बदरं मता ।प्रदरो ना भूविदारे स्त्रीरोगे भङ्गबाणयोः ॥ ९६ ॥
6.27.96 · p. 316
अनुष्टुप्
यादोविशेषे मकरो निधौ चराशिप्रभेदे निकरस्तु सारे ।सङ्घे तथा न्यायगते च वित्तेऽथो शीकरः स्त्री न कणे जलस्य ॥ ९७ ॥
6.27.97 · p. 316
इन्द्रवज्रा
विशेष्यवत्स्याच्छबलेऽथ कीर्ण-पुष्पादिषु स्यात्प्रकरो गणेऽपि ।स्याच्चत्वरेऽस्त्री किल जोङ्गकेऽन्त्येऽथो विस्तरो विस्तरणे पदानाम् ॥ ९८ ॥
6.27.98 · p. 317
उपजातिः
तथा प्रपञ्चे प्रणयेऽप्यथ स्या-न्ना संस्तरोऽपि प्रसरे मणौ च ।मखे शिलायामपि दर्भमुष्टौस्यात्प्रस्तरोऽथो टगरः प्रदिष्टः ॥ ९९ ॥
6.27.99 · p. 317
उपजातिः
हेलाविलासस्य च गोचरे स्यात्क्षारे तथा शृङ्गत( ? )संज्ञके च ।स्यात्केकराक्षे परलिङ्गगामीलोष्टादिभेदिन्यपि मुद्गरः स्यात् ॥ २०० ॥
6.27.200 · p. 317
इन्द्रवज्रा
मल्लीविभेदे द्वितयेऽथ युद्धेकुक्षौ तथान्त्येऽप्युदरं वदन्ति ।जवे प्रणीतौ प्रसरश्च युद्धेऽथो मत्सरत्वे रुषि मत्सरः स्यात् ॥ १ ॥
6.27.1 · p. 317
उपजातिः
स्त्री मक्षिकाया[53a]मपि भम्भराल्यांद्वेषेऽन्यभूतेः कृपणेऽन्यवत्स्यात् ।सङ्घे प्रसृत्यां विसरोऽथ रन्ध्रेस्यात्कोटरोऽन्त्ये कुहरोऽथ पुंसि ॥ २ ॥
6.27.2 · p. 317
इन्द्रवज्राmetre not read in every line
नागे च रागे दहरस्तु नाखौस्वल्पे तथा भ्रातरि बालके च ।स्याच्चामराभश्चमरो द्विलिङ्गोमृगप्रभेदेऽपि च मञ्जरीषु ॥ ३ ॥
6.27.3 · p. 317
उपजातिः
प्रकीर्णकेऽन्त्ये भ्रमरस्तु भृङ्गेद्वयोरभीके त्रिषु जर्जरोऽन्त्ये ।शक्रध्वजे शैवलके तथैवजरत्तरे तु त्रिषु संप्रदिष्टम् ॥ ४ ॥
6.27.4 · p. 317
उपजातिः
स्याज्झर्झरोऽस्त्री कलिकालवाचीवाद्यप्रभेदे च नदान्तरे ना ।अङ्गारके ना रुधिरोऽथ रक्ते-ऽन्त्येकुङ्कुमेऽग्नौ तु तथेषिरः स्यात् ॥ ५ ॥
6.27.5 · p. 318
इन्द्रवज्रा
आहारके चाथ गजेन्दुवाचीस्याच्चन्दिरोऽथो मुदिरः पयोदे ।क्रमेऽथ सूर्ये मिहिरश्च बुद्धे-ऽभीकाज्ञयोः स्यान्मुहिरस्तथैव ॥ ६ ॥
6.27.6 · p. 318
उपजातिः
न मन्दिरं ना सदने पुरेऽन्त्येपुमान्समुद्रे विवरं तु गर्त्ते ।स्याच्छिद्ररन्ध्रप्रतिमं च दोषेपूगे पुमान्स्यात्खपुरोऽलसेऽपि ॥ ७ ॥
6.27.7 · p. 318
उपजातिः
स्याद्भद्रमुस्तासु घ[53b]टे तु षण्ढेद्वारे पुरद्वारि च गोपुरं च ।स्यान्मुस्तकेऽथो चिकुरः शिरोजेभुजङ्गमे ना गृहबभ्रुकेऽपि ॥ ८ ॥
6.27.8 · p. 318
उपजातिःmetre not read in every line
खगद्रुभेदे च गिरौ चले तुविशेष्यगः स्यादथ चाङ्कुरोऽपि ।रथे तरौ योषिति नाङ्कुरः स्या-दङ्कूरवद्रोम्णि जले च रक्ते ॥ ९ ॥
6.27.9 · p. 318
उपजातिः
नवप्ररोहेऽप्यथ कुक्कुरः स्या-दरालपुच्छे शुकबर्हकेऽन्त्ये ।कुलालदण्डे बकुलद्रुमे चस्याद्दर्पणे ना मुकुरोऽपि तद्वत् ॥ १० ॥
6.27.10 · p. 318
उपजातिः