कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गोष्पद

goṣpada

In 6 kośas: 0 synonym verses, 7 as a nānārtha head word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.182
गोष्पदं सेविते माने प्रतिष्ठा कृत्यमास्पदम् ।
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास दार्धश्लोकः Dharaṇikośa 17.2.16 · p. 96
गोष्पदं गोपदश्वभ्रे गवां च गतिगोचरे ।एकपदं च तत्काले एकपदी पदव्यपि ॥
अनुष्टुप्metre not read in every line
कोषकल्पतरु Koṣakalpataru · विश्वनाथ दान्ताः Koṣakalpataru 6.19.39 · p. 237
स्याच्छ्वभ्रेगतिगोचरेऽपि च गवां माने तथा गोष्पदंवर्षर्त्वोः शरदीरिता गिरिभृगुत्रासेषु नीवृद्भिदि ।स्त्री म्लेच्छेऽपि दरन्मताथ च दृषत्पाषाणमात्रे स्त्रियांनिष्पेषोपलकेऽथ पुंसि न भसद्वक्त्रे तथामाशये ॥ ३९ ॥
शार्दूलविक्रीडितम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.682 · p. 106
गैरेयः शैलजाते स्यात् पूगवृक्षेऽथ नप्यदः ।शिलाजतुन्यथ क्लीबं गोष्पदं गोखुरावटे ॥ ६८२ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.683 · p. 106
गोभिश्च सेविते देशे केचित् त्वर्थेऽत्र भेद्यवत् ।गोस्तनो ना चतुर्यष्टिहारभेदे गवां स्तने ॥ ६८३ ॥
अनुष्टुप्
meaningsदेश
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश दान्ताः Śabdaratnāvalī 7.18.13 · p. 229
कपर्दाः स्यात्पशुपतिजटाजूटे वराटके ।कर्णान्दु कर्णयाक्ष्यान्तु स्त्रियामुत्क्षिप्तिकासु च ॥कामदा स्त्री कामधेनौ वाच्यवत्कामदातरि ।कुमुदं कैरषे रक्तपद्मे पुंसि तु दिग्गजे ॥नागे वानरभेदे स्त्रीगर्भ्भायां कुम्भिकौषधौ ।गोष्पदं गोपदच्छिद्रे तथा गोगतिगोचरे ॥गोविन्दस्तु गवाध्यक्षे केशवे च बृहस्पतौ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 7.5.37 · p. 259
गोष्पदं गोखुरश्वभ्रे मानगोगम्ययोरपि ।वृत्तैकभक्ते चरणे चरणा बह्वृचादयः ॥ ३७ ॥
अनुष्टुप्