कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dharaṇikośa

धरणिकोश Dharaṇikośa

1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)

दान्ताः · दार्धश्लोकः

॥ दार्धश्लोकः ॥

भेदो विदारणे माने ? उपजापविशेषयोः ।सूदस्तु व्यञ्जने ख्यातः सूपकारे च कीर्तितः ॥
17.2.1 · p. 93
अनुष्टुप्
गदा शस्त्रविशेषं स्याद्गदो भ्राता च शार्ङ्गिणः ।नदो ध्वने समुद्रे च नदी तरंगिणी स्मृता ॥
17.2.2 · p. 94
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
कुन्दो भ्रमणयन्त्रे स्यान्निधिपुष्पप्रभेदयोः ।नन्दिरानन्द उद्दिष्टो द्यूते शुभविशेषयोः ॥
17.2.3 · p. 94
अनुष्टुप्
बिन्दुः स्याद्दन्तदाने च बिन्दुः पण्डितविप्रुषोः ।कन्दानि मूलसस्यानि विदुः कन्दांश्च सूरणान् ॥
17.2.4 · p. 94
अनुष्टुप्
अब्दोऽपि मुस्तके मेघे अब्दः संवत्सरेऽपि च ।वेदिः परिस्कृता भूमिर्वेदिरङ्गुलिमु[49]द्रिका ॥
17.2.5 · p. 94
अनुष्टुप्
कौमुदः कार्तिको मासः कौमुद्यौ चन्द्रिकोत्सवौ ।तोयदो मुस्तके मेघे तोयदं घृतमुच्यते ॥
17.2.6 · p. 94
अनुष्टुप्
क्षणदः स्याज्ज्यौतिषिके क्षणदा रात्रिरीरिता ।नर्मदा स्यान्नदीभेदे नर्मदः परिहासदः ॥
17.2.7 · p. 94
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ज्ज्यौ (wrong syllable)
प्रमदा कामिनी मत्ता प्रमदो हर्ष उच्यते ।अर्बुदो मांसकीले तु संख्याभेदेऽपि चार्बुदः ॥
17.2.8 · p. 95
अनुष्टुप्
गोविन्दो भगवान्विष्णुर्गोविन्दोऽधिकृतो गवाम् ।कुसीदं जीवने वृद्ध्या कुसीदश्च कुसीदके ॥
17.2.9 · p. 95
अनुष्टुप्
निर्वादो जनवादे स्याद्वादे चापि सुनिश्चिते ।प्रसादस्तु प्रकाशः स्यात्प्रसादः स्यादनुग्रहः ॥
17.2.10 · p. 95
अनुष्टुप्
प्रासादस्त्रिदशावासे प्रासादो नृपवेश्मनि ।प्रणादस्तारशब्दे स्यात्कर्णरोगे च कीर्तितः ॥
17.2.11 · p. 95
अनुष्टुप्
संभेदः स्फुटने ख्यातः संभेदः सिन्धुसंगमः ।दृषन्निष्पेषणशिला केवलापि शिला दृषद् ॥
17.2.12 · p. 95
अनुष्टुप्
ककुद्वत्ककुदं ? श्रेष्ठे वृषाङ्गे नृपलक्षणे ।क्रव्यात्क्रव्याद इत्येतौ स्यातां मांसाशिरक्षसोः ॥
17.2.13 · p. 95
अनुष्टुप्
कुमुत्कृपण आख्यातः कुमुत्कैरवमुच्यते ।निषादः श्वपचे प्रोक्तो नीचस्वर उदाहृतः ॥
17.2.14 · p. 96
अनुष्टुप्
कपर्दं स्याज्जटाजूटे कपर्दश्च वराटके ।आस्पदं च प्रभुत्वे स्यात्प्रतिष्ठा कृत्यमास्पदम् ॥
17.2.15 · p. 96
अनुष्टुप्
गोष्पदं गोपदश्वभ्रे गवां च गतिगोचरे ।एकपदं च तत्काले एकपदी पदव्यपि ॥
17.2.16 · p. 96
अनुष्टुप्metre not read in every line
अभिमर्दं विदुर्युद्धमभिमर्दोऽभिमर्दनम् ।समर्यादं समीपं च मर्यादासहितं च यत् ॥
17.2.17 · p. 96
अनुष्टुप्
कोकनदं तु विख्यातं रक्ताब्जे रक्तकैरवे ।परिवादं तु निर्वादे वीणावादनवस्तुनि ॥
17.2.18 · p. 96
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)
मुचुकुन्दस्तरोर्भेदे मुनिदैत्यप्रभेदयोः ।अभिष्यन्दं तु स्रवणमभिष्यन्दोऽक्षिको मलः ॥
17.2.19 · p. 96
अनुष्टुप्
पुटभेदो नदीवक्रे पुटभेदस्तु पत्तनम् ।कुरुविन्दं पद्मरागे मुस्तासुगन्धयोरपि ॥
17.2.20 · p. 97
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 सु (wrong syllable)
विष्णुपदं नभो विष्णुपदी संक्रान्तिगंगयोः ।चतुष्पदो गवाश्वादिपशौ स्यात्करणान्तरे ।मेघनादो रावणस्य सुतः पश्चिमदिक्पतौ ॥
17.2.21 · p. 97
अनुष्टुप्metre not read in every line