मान
mānaपुं · masc.In 17 kośas: 24 synonym verses, 8 as a nānārtha head word, 75 as a meaning of another word.
आलस्यं तन्द्रा कौसीद्यं हर्षश्चित्तप्रसन्नता ॥ ३१५ ॥ह्लादः प्रमोदः प्रमदो मुत्प्रीत्यामोदसम्मदाः ।आनन्दानन्दथू गर्वस्त्वहंकारोऽवलिप्तता ॥ ३१६ ॥दर्पोऽभिमानो ममता मानश्चित्तोन्नतिः स्मयः ।
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 ह (wrong syllable)
genderपुंmasc.
औपम्यमनुकारोऽनुहारः साम्यं तुलोपमा ।कक्षोपमानमर्चा तु प्रतेर्मा यातना निधिः ॥ १४६३ ॥छाया छन्दः कायो रूपं बिम्बं मानकृती अपि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
genderक्लीneut.
गर्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः ।
अनुष्टुप्
genderपुंmasc.
यौतवं द्रुवयं पाय्यमिति मानार्थकं त्रयम् ।मानं तुलाङ्गुलिप्रस्थैर्गुञ्जाः पञ्जाद्यमाषकः ॥ ८५ ॥
अनुष्टुप्
genderक्लीneut.
दर्पो मदोऽवलेपो मानो गर्वो भवेदहङ्कारः ।आवेशः संवेगः संरम्भः सम्भ्रमस्तथाटोपः ॥ ७२२ ॥
metre not recognised
genderपुंmasc.
कामक्रोधौ लोभहर्षौ मानश्चापि मदः पुनः ।अन्तर्गतोऽरिषड्वर्गः प्राणस्य क्षुत्तृषे पुनः ॥ ११७ ॥
अनुष्टुप्
genderपुंmasc.
पुंसि स्वप्नः श्वासहेती रागसंगौ च गृध्नुता ।अहंकारोऽभिमानोऽस्त्री मानो गर्वश्च गर्वरः ॥ १३० ॥
अनुष्टुप्
genderपुंmasc.
शोणमासद्रुमादीनां धान्याग्न्यध्वरदेहिनाम् ।महतां सभिदां नाम मानहायनयोरपि ॥ ५० ॥
अनुष्टुप्
genderपुंmasc.
हायनस्तेनमानानां तथैव धनमानयोः ।मानताडनयोरस्तोद्यानयोर्निधनस्य च ॥ १६६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
चित्तेऽन्तः[3b]करणं मनोऽपि हृदयं हृच्चेतसी मानसम्स्वान्तं गूढपथोच्चलेऽलिगु तथाऽतश्चान्तरस्थोऽव्यये ।संकल्पो नरि मानमानसकृती चित्तस्थिरत्वं समा-धानं स्यादवधानवन्नरि मनस्कारो हृतं भोगवत् ॥ ३० ॥
शार्दूलविक्रीडितम्metre not read in every line
genderपुंmasc.
निकारो विप्रकारः स्यात्खलीकारोऽपि सम्मतः ।दर्पोऽवलेपोऽहंकारोऽभिमानो गर्व-गर्वरौ ॥अहंता ममता मानोऽस्त्री स्मयो मानसोन्नतिः ।मानग्रन्थिर्भवेन्मन्तुः स स्थिरस्तु ग्रहो मतः ॥अहं पूर्वमहं पूर्वमित्यहंपूर्विका स्त्रियाम् ।अहोपुरुषिका दर्पाद्या स्यात्संभावनात्मनि ॥ १४६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
श्राद्धो[232b]त्सेध-कबन्ध-सौध-मधु चान्धं चायुधं चौषधंमौनं मानविमानयानपुलिनापीनोदपानासनम् ।उद्यानं नलिनं खलीनखलिनस्थानाभिधानौदन-ब्रह्मप्रेमसमानजानुनिधनप्रस्फोटनं पक्ष्म च ॥ ५० ॥
शार्दूलविक्रीडितम्metre not read in every line
श्राद्धपुंक्लीउत्सेधपुंक्लीकबन्धपुंक्लीसौधपुंक्लीमधुपुंक्लीअन्धपुंक्लीआयुधपुंक्लीऔषधपुंक्लीमौनपुंक्लीमानपुंक्लीविमानपुंक्लीयानपुंक्लीपुलिनपुंक्लीआपीनपुंक्लीउदपानपुंक्लीआसनपुंक्लीउद्यानपुंक्लीनलिनपुंक्लीखलीनपुंक्लीखलिनपुंक्लीस्थानपुंक्लीअभिधानपुंक्लीओदनपुंक्लीब्रह्मन्पुंक्लीप्रेमन्पुंक्लीसमानपुंक्लीजानुपुंक्लीनिधनपुंक्लीप्रस्फोटनपुंक्लीपक्ष्मन्पुंक्ली
genderपुंक्लीm. n.
षट्कं कामो मदो मानो मोहोऽमर्षो रुषापि च ।मृगयाक्षाः स्त्रियः पानं वाक्पारुष्यार्थदूषणे ॥ १५६ ॥
अनुष्टुप्
genderपुंmasc.
अहंकारः स्मयो मानो मरदोऽपि विभाव्यते ।परिश्रमः श्रमः क्लेशः क्लमो व्यायाम इत्यपि ॥ २१९ ॥
अनुष्टुप्
genderपुंmasc.
सुस्मितास्या धनं लीलामानादिः स्यादनेकधा ।विच्छित्तिश्च विलासोऽपि विव्वोको लीलया सह ॥ १७३ ॥
अनुष्टुप्
genderपुंmasc.
गर्वोऽभिमानोऽहंकारो मानश्चित्तसमुन्नतिः ।हठो मदः स्मयो दर्प औद्धत्यमवलिप्तता ॥ ८७ ॥
अनुष्टुप्
genderपुंmasc.
अथ गर्वश्च दर्पश्च मानश्चित्तोन्नतिः स्मयः ।ममता चाऽभिमानः स्यादहङ्कारोऽवलिप्तता ॥ ४६७ ॥
अनुष्टुप्
genderपुंmasc.
प्रतीपदर्शिनी क्वापि काव्ये शास्त्रे निरूपिता ।लीला शृङ्गारचेष्टा स्यात् मानः वीणां धनं स्मृतम् ॥ ७९२ ॥
अनुष्टुप्
genderपुंmasc.
स्यादुत्कमनस्कत्वे मानश्चित्तसमुन्नतिः ।अहङ्कारस्य पर्याय इति केचित् प्रचक्षते ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 स्या (syllables merged)
genderपुंmasc.
द्रुवयं मानमुन्मानं पाय्यं यौतव-पौतवे ।षट्कं मानार्थकं मानं प्रस्थाङ्गुलितुलादिभिः ॥
अनुष्टुप्
genderक्लीneut.
हर्ष-प्रहर्ष-हरिषा आनन्दानन्दथू समौ ।गर्वेऽभिमान-मानौ च विस्मयः स्मय इत्युभौ ॥ १२५ ॥
अनुष्टुप्
genderपुंmasc.
उत्सेकश्चाभिमानश्च मानः स्यान्मानसोन्नतिः ।गुणेषु दोषाविष्कारः स्यादसूयाथ शुक् स्त्रियाम् ॥ ९७८ ॥
अनुष्टुप्
genderपुंmasc.
द्विकं तु मनआत्मानाविन्द्रियाणि तु पञ्चकम् ।षट्कं कामो मदो मानो लोभो हर्षो रुषापि च ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
दशान्येषां शतं मानं सार्धै रूप्यपलैस्त्रिभिः ।तुला पलशतं तास्तु दशर्क्षं धटिकोऽस्त्रियाम् ॥ ६० ॥
अनुष्टुप्
genderक्लीneut.
मानं प्रमाणे प्रस्थादौ मानश्चित्तोन्नतावपि ।वानं शुष्कफले शुष्के सीवने जलसंप्लवे ॥
अनुष्टुप्
संशोधनच्छेदनपालनेषुत्यागे तथा हस्तिमदे च दानम् ।मानो ग्रहे चित्तसमुन्नतौ चन स्त्री प्रमाणे कुडवादिके च ॥ ८७ ॥
इन्द्रवज्रा
लग्नाद्दशमराशौ च विदुः साव्वँत्सरा इदम् ।प्रक्षेपे प्रणिदाने च सम्भवे सम्भवस्त्वसौ ॥ ९८२ ॥
अनुष्टुप्
doubtful
आधारानतिरिक्तत्वमाधेयस्येह ना पुनः ।ज्ञाने चित्तसमुन्नत्यां पूजायां च स्त्रियां पुनः ॥ ९८३ ॥
अनुष्टुप्
doubtful
पानं पीतौ भोजने च रक्षणे च नपुंसकम् ।भानुर्ना भास्करे रश्मौ भानुमत्यामपि स्त्रियाम् ॥भिन्नस्तु सङ्गतेऽन्यस्मिन् फुल्ले च दारिते त्रिषु ।मानं क्लीबे प्रमाणादौ मानश्चित्तोन्नतौ ग्रहे ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
मान as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् प्रस्थआस्थानीयत्नयोरास्था प्रस्थोऽस्त्री सानुमानयोः । Amarakośa 3.3.169
- नामलिङ्गानुशासनम् गोष्पदगोष्पदं सेविते माने प्रतिष्ठा कृत्यमास्पदम् । Amarakośa 3.3.182
- नामलिङ्गानुशासनम् यावत्यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे ॥ २४७ ॥ Amarakośa 3.3.247
- धरणिकोश टङ्कवङ्कः पर्याणभागे स्यान्नदीपात्रे च भङ्गुरे । टङ्को नीलकपित्थे स्यान्माने पाषाणदारणे ॥ Dharaṇikośa 1.2.4
- धरणिकोश दिष्टिपुष्टिः स्यात्पोषणे वृद्धौ दिष्टिरानन्दमानयोः । मुष्टिर्बद्धकरे माने रिष्टिः समृद्धिखड्गयोः ॥ Dharaṇikośa 10.1.2
- धरणिकोश अध्यूढअध्यूढा कृतसापत्न्यामध्यूढो वृद्धिमानयोः । उपोढः कथितो व्यूढे समासन्ने विवाहिते । आषाढो व्रतिनां दण्डे मासपर्वतभेदयोः ॥ Dharaṇikośa 13.2.3
- धरणिकोश पणपणो माने वराटानां मूल्ये कार्षापणे धने । द्यूते विक्रय्यशाकादेर्बद्धमुष्टौ भृतौ गृहे ॥ Dharaṇikośa 14.3.2
- धरणिकोश प्रमाणप्रमाणमनुमानादौ हेतुमर्यादयोरपि । सम्यक्प्रवक्तृपुरुषे प्रमाणं मानशास्त्रयोः ॥ Dharaṇikośa 14.3.13
- धरणिकोश प्रस्थकुथं कुशे प्रवेण्यां च प्रस्थः स्यात्सानुमानयोः । तुथौ गन्धाश्वभेदौ च रथः स्यन्दनदेहयोः ॥ Dharaṇikośa 16.1.1
- धरणिकोश भेदभेदो विदारणे माने ? उपजापविशेषयोः । सूदस्तु व्यञ्जने ख्यातः सूपकारे च कीर्तितः ॥ Dharaṇikośa 17.2.1
- धरणिकोश व्यायामपञ्चमो रागभेदे स्यात्पञ्चानां पूरणोऽपि यः । व्यायामः पौरुषे माने व्यायामश्च परिश्रमः ॥ Dharaṇikośa 24.2.19
- धरणिकोश मात्रामात्रा कर्णविभूषायां धने माने परिच्छदे । अक्षरावयवे चाल्पे मात्रं कार्त्स्नेऽवधारणे ॥ Dharaṇikośa 26.3.9
- धरणिकोश तुलातुला पलशते माने भाण्डसादृश्ययोरपि । गृहाणां दारुबन्धार्थं पीठिकायां तुलां विदुः ॥ Dharaṇikośa 27.3.8
- धरणिकोश बाहुबाहा स्मृता भुजायां तु बाहो मानतुरंगयोः । कुहूः स्यात्कोकिलालापो नष्टकलाप्यमावसी ॥ Dharaṇikośa 32.2.5
- धरणिकोश यावत्यावत्तावत्परिच्छेदे कार्त्स्न्ये मानेऽवधारणे । पुरस्ताच्चतुर्षु प्राच्यां पुरार्थे प्रथमेऽग्रतः ॥ Dharaṇikośa 34.7.6
- धरणिकोश खलुखलु स्याद्वाक्यभूषायां जिज्ञासादौ निषेधने । खलु माने च वीप्सायां खलु चानुनये स्मृतः ॥ Dharaṇikośa 34.17.2
- कोषकल्पतरु सम्भूसहभावोत्पत्तिमाने योग्यमेलनयोरनोः । प्रभाव-ज्ञानयोः पर्याङ्युक्तः स्याद[प]वर्तने ॥ १० ॥ Koṣakalpataru 3.5.10
- कोषकल्पतरु उद्-माउद ऊर्ध्वेऽपि च माने ऽनोरुत्प्रेक्षे निरः कृतौ युक्तौ । वञ्चयते गर्धयते । प्रलभत एवं प्रतारयति ॥ ६३ ॥ Koṣakalpataru 3.5.63
- कोषकल्पतरु यावत्यावत्तावत्सीम्नि माने साकल्ये चावधारणे । वाक्यालंकरणेऽपि स्तोऽथोताप्यर्थविकल्पयोः ॥ ९० ॥ Koṣakalpataru 5.1.90
- कोषकल्पतरु खलुसंभाव्यवार्तानुनयेषु हेतौ किलेत्यलीकेऽप्यरुचौ प्रदिष्टम् । सद्वाक्यभूषाप्रतिषेधमान- ज्ञीप्सासु वीप्सासु खलु स्मरन्ति ॥ १८ ॥ Koṣakalpataru 5.1.18
- कोषकल्पतरु टङ्कपल्याणभागे नरि वङ्क उक्तः पात्रे नदीनामपि भङ्गुरे स्यात् । टङ्कोऽस्त्रियां मानकपित्थभेदे खड्गे खनित्रेऽपि कृपाणकोशे ॥ ६ ॥ Koṣakalpataru 6.1.6
- कोषकल्पतरु युगश्रीकीर्तिमाहात्म्यसमर्थतासु ज्ञानस्पृहामुक्तिवृषेषु नार्के । युगं चतुष्के च करस्य सीर- रथाङ्गयोर्युग्मकृतादिकेषु । यूपेऽस्त्रियां मानपरः पुमान्स्या- न्मूर्खे पराभं लिगु मानसेऽन्त्ये ॥ ९२ ॥ Koṣakalpataru 6.3.92
- कोषकल्पतरु दण्डदण्डोऽस्त्री लगुडे बले मथि दमे मानेऽभिमाने यमे चण्डांशोश्च गणे घटीग्रहभिदाकोणे प्रकाण्डे हये । गोण्डः पामरजातिगो नरि महानाभौ भवेद्भेद्यवत् द्वन्द्वे स्यात्कवले गणे च वपुषि त्वस्त्री गृहाङ्गे बले ॥ ७६ ॥ Koṣakalpataru 6.12.76
- कोषकल्पतरु मितिकृतिर्मितिर्मानपरिच्छिदोः स्या- दीतिस्तु डिम्बे गदिता प्रवासे । तथातिवृष्ट्यादिकसप्तके च रीतिस्त्वयः किट्टक आरकूटे ॥ ५२ ॥ Koṣakalpataru 6.16.52
- कोषकल्पतरु आहतपलायुतानां द्वितये च शाकटे स्यात्संगृहीतेऽपि हिते तथाचितः । मृषार्थके स्याद्गुणिते च ताडिते माने पुराणे सिचये तथाहतः ॥ ७४ ॥ Koṣakalpataru 6.16.74
- कोषकल्पतरु तुलाकीलो द्वयोर्ज्वालकफोणिघात- शङ्क्वल्पकेषु प्रथितः प्रवीणैः । तुला पलानां शतके च भाण्डे सादृश्यमानार्थक ईरिता च ॥ ८१ ॥ Koṣakalpataru 6.28.81
- कोषकल्पतरु गरलविषे च माने तृणपूलकेऽथ लोले च षिङ्गे तरलः पुमांस्तु । हारस्य मध्यस्थमणौ तथैव स्याद्भासुरे स्त्री तु सुरायवाग्वोः ॥ ९७ ॥ Koṣakalpataru 6.28.97
- कोषकल्पतरु पौरुषस्यात्पौरुषं च त्रिषु पूरुषस्य भावे क्रियायां वचने च धाम्नि । ऊर्ध्वं तथा विस्तृतबाहुपाणे- र्नरस्य मानेऽपि वदन्ति तद्वत् ॥ ४८ ॥ Koṣakalpataru 6.30.48
- कोषकल्पतरु वहना राहावुपरागे निर्बन्धेऽनुग्रहे ग्रहणे । समरोद्यमेऽथ वृषभस्कन्धे वायौ वहो माने ॥ ३६ ॥ Koṣakalpataru 6.32.36
- कोषकल्पतरु वाहईहा द्वयोरुद्यमवाञ्छ[92b]योः स्या- त्स्कन्दे गुहो योषिति सिंहपुच्छ्याम् । दर्यां च वाहो मिथुने भुजायां ना मानबाह्वश्ववृषेषु दिष्टा ॥ ४३ ॥ Koṣakalpataru 6.32.43
- कोषकल्पतरु आरोहआरोह उच्छ्रायनिषादिनोः स्या- द्दैर्घ्ये च माने वनितानितम्बे । निर्यूह उक्तो नरि शेखरे च निर्यासकद्वारकनागदन्ते ॥ ५१ ॥ Koṣakalpataru 6.32.51
- नानार्थार्णवसंक्षेप पदचिह्नेऽङ्घ्रिचिह्नेऽङ्घ्रिन्यासे पद्यभागेंऽशुवस्तुनोः । स्थाने वाक्ये सुप्तिङन्ते माने पञ्चदशाङ्गुलौ ॥ ३७ ॥ Nānārthārṇavasaṃkṣepa 2.3.37
- नानार्थार्णवसंक्षेप पलपलाशवृक्षप्रसवे पलाशाख्यतरौ तु ना । पलं नृशण्डयोर्मांसे मानेऽप्यक्षचतुष्टये ॥ ७१६ ॥ Nānārthārṇavasaṃkṣepa 2.5.716
- नानार्थार्णवसंक्षेप बिल्वश्रीफलाख्ये फले त्वस्य क्ली मानेऽपि पलाह्वये । बिन्दुर्ना विप्रुषि पशुशरीरस्थपृपत्सु च ॥ ८६२ ॥ Nānārthārṇavasaṃkṣepa 2.5.862
- नानार्थार्णवसंक्षेप शम्याशम्या तु युगकीले स्त्री माने षट्त्रिंशदङ्गुले । अथो शमयितव्ये त्रिः शमितव्ये तु तन्नपि ॥ १३०९ ॥ Nānārthārṇavasaṃkṣepa 2.5.1309
- नानार्थार्णवसंक्षेप शमशमस्तु शान्तौ पुल्लिँङ्गो माने च चतुरङ्गुले । शमी तु स्यात् सकुफलासंज्ञवृक्षान्तरे स्त्रियाम् ॥ १३१० ॥ Nānārthārṇavasaṃkṣepa 2.5.1310
- नानार्थार्णवसंक्षेप षट्कविशेषात् काममदयोर्लोभहर्षरुषामपि । मानस्य चेत्यमीषां ना षण्णां सङ्घेऽथ षड्ध्वनेः ॥ १४३५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1435
- नानार्थार्णवसंक्षेप सुस्तरऋणे नखे हिरण्येऽथ स्त्रीवासो वामलूरके । स्त्रीणां वासे सुस्तरस्तु भवेच्छयनमानयोः ॥ २४५ ॥ Nānārthārṇavasaṃkṣepa 3.2.245
- नानार्थार्णवसंक्षेप अवटतत्रापि च स्त्रियां वृत्तिर्यदा स्यादपटा तदा । अवटस्तु पुमान् गर्ते कूपे मानान्तरेऽपि च ॥ १११ ॥ Nānārthārṇavasaṃkṣepa 4.111
- नानार्थार्णवसंक्षेप गोकर्णअङ्गुष्ठे वितते मानं यत् तत्र श्रवणे च गोः । ईश्वरस्थानभेदे च मृगभेदे पुनर्द्वयोः ॥ ६८६ ॥ Nānārthārṇavasaṃkṣepa 4.686
- नानार्थार्णवसंक्षेप शाकटीनशाकटीनापराभिख्ये यत् तु मानं व्यवस्थितम् । उक्ता(द्) दशगुणं तस्मात् तथा दशगुणं हि यत् ॥ १८१६ ॥ Nānārthārṇavasaṃkṣepa 4.1816
- नानार्थार्णवसंक्षेप शाकटतस्माच्च यद्दशगुणं तस्मिन् क्ली भेद्यवत् पुनः । शकटेः शकटस्यापि सम्बन्धिन तथा स्मरेत् ॥ १८१७ ॥ Nānārthārṇavasaṃkṣepa 4.1817
- नानार्थार्णवसंक्षेप सुस्तरऋणे नखे हिरण्येऽथ स्त्रीवासो वामलूरके । स्त्रीणां वासे सुस्तरस्तु भवेच्छयनमानयोः ॥ २४५ ॥ Nānārthārṇavasaṃkṣepa 6.245
- परमानन्दीयनाममाला मामः शिवे चन्द्रविध्योश्च मा लक्ष्म्यां मातृमानयोः । निषेधे माव्ययं ख्यातं मा निशाकरमासयोः ॥ ३४ ॥ Paramānandīyanāmamālā 1.34
- परमानन्दीयनाममाला आरोहआरोहोऽथ गजारोह उच्छूये दैर्घ्यमानयोः । स्त्रीकट्यामाकरो रत्ने खान्यां च निकरे तथा ॥ ३४ ॥ Paramānandīyanāmamālā 5.1.34
- परमानन्दीयनाममाला कुटपकुटपस्तु मुनौ माने निष्कुटे काश्यपो मुनौ । मीनेऽथ काश्यपी नद्यां कबरं लवणाम्लयोः ॥ १३३ ॥ Paramānandīyanāmamālā 5.7.133
- परमानन्दीयनाममाला गजगजो मतङ्गजे माने गञ्जा स्यान्मदिरागृहे ॥ १४९ ॥ Paramānandīyanāmamālā 5.9.149
- परमानन्दीयनाममाला दण्डदण्डो माने प्रकाण्डे चोपायभेदेऽर्कसेवके । सैन्ये दर्पेऽथ दण्डी स्याद् द्वाःस्थे भूपे यमेऽपि च ॥ २३८ ॥ Paramānandīyanāmamālā 5.16.238
- परमानन्दीयनाममाला दिष्टिमेघे [25] मूर्खे द्विजो विप्रे दन्तनीडजयोरपि । द्रुमो रत्ने तरौ दिष्टिर्हर्षे मानेऽपि कथ्यते ॥ २४० ॥ Paramānandīyanāmamālā 5.16.240
- परमानन्दीयनाममाला प्रस्थपात्र्यां कर्करिकायां च हस्तिनां पादबन्धने । प्रस्थः सानौ तटे माने प्राणो गन्धरसे बले ॥ २९३ ॥ Paramānandīyanāmamālā 5.19.293
- परमानन्दीयनाममाला प्रमाणपर्यङ्को मञ्चके तन्त्रेऽप्यर्भके पृथुकः पुनः । चिपिटेऽथ प्रमाणं स्यात्सत्ये माने च कारणे ॥ ३०५ ॥ Paramānandīyanāmamālā 5.19.305
- परमानन्दीयनाममाला हस्तहंसो धर्मे रवौ राज्ञि विष्णुजीवसितेषु च । खगान्तरेऽथ हस्तस्तु भुजे माने कचोचये ॥ ३७५ ॥ Paramānandīyanāmamālā 5.28.375
- शब्दरत्नावली भोगभोगः सर्पे सुखे देहे धने माने च पालने । सर्पाणां कायफणयोर्योषिद्भरणभोजने ॥ Śabdaratnāvalī 7.3.16
- शब्दरत्नावली दिष्टित्रोटिश्चञ्च्वां कटफले कन्ठे मीनभिदि स्त्रियाम् । दिष्टं दैवे तु काले ना दिष्टिः स्त्री हर्षमानयोः ॥ Śabdaratnāvalī 7.11.19
- शब्दरत्नावली मितिमाता गौर्यां जनन्याञ्च ब्राह्मणीगोविभूतिषु । मितिर्माने च विज्ञानेऽप्यवच्छेदेऽपि च स्त्रियाम् ॥ Śabdaratnāvalī 7.16.37
- शब्दरत्नावली मामो ब्रह्मणि शिवे चन्द्रे मा लक्ष्मीमानमातृषु । मूर्बन्धने स्त्रियामेव मा निषेधे बदव्ययम् ॥ Śabdaratnāvalī 7.25.1
- शब्दरत्नावली मात्रामन्त्रो वेदगुह्यवाददेवादिसाधनेषु च । मात्रा विचे परिच्छेदे माने कर्णविभूषणे ॥ Śabdaratnāvalī 7.27.28
- शब्दरत्नावली तुलातुला माने च सादृश्ये भाण्डराशिप्रभेदयोः । तूली प(?) ब्रह्मदारुवियत्सु च नपुंसकम्(?) ॥ Śabdaratnāvalī 7.28.19
- शब्दरत्नावली माषभिक्षा तु भिक्षितद्रव्ये याञ्चासेवागतिष्वपि । माषो मूर्खे व्रीहिभेदे मानत्वग्दोषयोरपि ॥ मिषं छले क्लीबलिङ्गं स्पर्द्धायां ना मिषाव्ययम् । मेषो भैषज्यभेदे स्यात्पशुभिद्राशिभेदयोः ॥ मोक्षो मुक्तौ मोचने स्यात्पाटलौ भवेत्पुमान् ॥ Śabdaratnāvalī 7.31.11
- शब्दरत्नावली मासभासः प्रभाते विहगे भाः प्रभावमयूखयोः । माश्चन्द्रमासयोः पुंसि मासो ना कालमानयोः ॥ Śabdaratnāvalī 7.32.6
- शब्दरत्नावली यावत्अधिकारपरिच्छेदमानपक्षान्तरेषु च ॥ Śabdaratnāvalī 8.1.30
- शब्दरत्नाकर पणपणस्तु कार्षिके द्यूते ग्लहे मूल्ये भृतौ धने । स्यान्मानव्यवहाराक्षविक्रयद्रव्यमुष्टिषु ॥ १९५१ ॥ Śabdaratnākara 4.1.1951
- शब्दरत्नाकर प्रस्थपुण्यं धर्मे शुभे शुद्धे पूर्वः प्राच्यादिकेऽर्थवत् । पूर्वजेषु नृभूम्नोः स्यात् प्रस्थोऽस्त्री सानुमानयोः ॥ १९६२ ॥ Śabdaratnākara 4.1.1962
- शब्दरत्नाकर मात्रामाता ब्राह्म्याद्यकाराद्योरुमायां गवि मातरि । अक्षरावयवे माने प्रवृत्तौ कर्णभूषणे ॥ १९७९ ॥ Śabdaratnākara 4.1.1979
- शब्दरत्नाकर यावत्यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे । वृथा निष्कारणे वन्ध्ये शश्वद्भूयः सदेति च ॥ २२७६ ॥ Śabdaratnākara 5.2.2276
- तन्त्राभिधान मकालभद्रो जया मेधा विश्वदा दीप्तसंज्ञकः । ----------------------------------- जठरञ्च भ्रमा मानं लक्ष्मीर्मातोग्र-बन्धने ॥ १३६ ॥ Tantrābhidhāna 2.42.136
- तन्त्राभिधान मामा च मातरि माने च बन्धने मूः प्रकीर्त्तिता । यशो यः कथितः शिष्टैर्यो वायुरिति शब्दितः ॥ २८ ॥ Tantrābhidhāna 3.28
- त्रिकाण्डशेष माषपक्षौ मासार्द्धपार्श्वौ च महिषी राजपत्न्यपि । मूर्खे माने फले माषो मेषौ राश्यन्तरोरणौ ॥ ४४० ॥ Trikāṇḍaśeṣa 3.3.440
- त्रिकाण्डशेष कंसउदर्च्चिरुत्प्रभे वह्नावेनः पापपराधयोः । कनीयाननुजेऽल्पे च कंसो मानेसुरान्तरे ॥ ४४४ ॥ Trikāṇḍaśeṣa 3.3.444
- वैजयन्ती पणपट्टो नेत्रेऽपि शाणे स्यात् पिण्डिः कल्केऽपि तैलजे । पणो मूल्ये ग्लहे माने कार्षिकव्यवहारयोः ॥ ३४ ॥ Vaijayantī 6.1.34
- वैजयन्ती अग्रअभ्रं सलिलदे व्योमन्यस्त्रं कोदण्ड आयुधे । अग्रं पुरश्शिखामानशैष्ट्याधिक्यफलेषु च ॥ १ ॥ Vaijayantī 6.3.1
- वैजयन्ती प्रस्थन्युब्जं कुब्जे कर्मरंगे न्युब्जो व्याधावधोमुखे । नेमः पुरोहिते तुल्ये प्रस्थोऽस्त्री सानुमानयोः ॥ ४६ ॥ Vaijayantī 6.5.46
- वैजयन्ती मात्राअक्षरावयवे माने मात्रं कार्त्स्न्येऽवधारणे । मध्यं युक्तेंऽतराले च महद्राज्यविशालयोः ॥ ६३ ॥ Vaijayantī 6.5.63
- वैजयन्ती गोष्पदगोष्पदं गोखुरश्वभ्रे मानगोगम्ययोरपि । वृत्तैकभक्ते चरणे चरणा बह्वृचादयः ॥ ३७ ॥ Vaijayantī 7.5.37
- वैजयन्ती यावत्यावत्तावच्च साकल्यमानावध्यवधारणे । वृथा निष्कारणाविध्योः शश्वद्भूः सदेति च ॥ २८ ॥ Vaijayantī 8.7.28