All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
नानार्थस्कन्धः · दान्ताः
इति थान्ताः ।
एकदाः ।
द्विदाः ।
गदस्तु विष्णोरनुजे च रोगेस्त्रियां भवेदायुधभेदवाची ।नदः समुद्रे निनदे स्त्रियां तुस्यान्निम्नगायामथ गर्वतुष्ट्योः ॥ १८ ॥
6.19.18 · p. 233
उपजातिः
शुक्रेभदानैणमदेषु मद्येमनोविकारेऽपि पुमान्मदः स्यात् ।स्त्री क्षेत्रिवस्तुन्यथ शब्दवाक्य-व्याजोद्यमत्राणपदार्थपत्सुः ॥ १९ ॥
6.19.19 · p. 234
उपजातिः
स्थानाङ्घ्रिचिह्नाङ्कगतं पदं स्या-च्छदोऽस्त्रि पत्रे[वि]गरुत्तमाले ।स्याद्ग्रन्थिपर्णेऽपि रदस्तु दन्तेविलेखने चाथ शुभेऽपि भन्दम् ॥ २० ॥
6.19.20 · p. 234
उपजातिः
शर्मण्यपि स्यादथ मन्दमीष-ज्जडाविजातेषु खलेऽप्यभाग्ये ।पुमांस्तु दन्तावलजातिभेदेशनैश्चरे ना तु घने च कन्दः ॥ २१ ॥
6.19.21 · p. 234
उपजातिः
स्यात्सूरणेऽस्त्री नवसस्यमूलेछन्दस्तु नाऽऽकूतहृदोश्च चित्ते ।वश्ये नरौ( ? )चाथ तुरीयभा[4b]ग-प्रत्यन्तशैले चरणे मयूखे ॥ २२ ॥
6.19.22 · p. 234
इन्द्रवज्राmetre not read in every line
मूलेऽपि पादोऽयव( ? )सूपकारेसूदस्तथा व्यञ्जनसूपयोश्च ।क्षोदो रजःपेषणयोरथ स्या-च्छादोऽपि शष्पे नरि कर्दमे च ॥ २६ ॥
6.19.26 · p. 234
इन्द्रवज्रा
अब्दः पयोदाचलमुस्तकेऽथा-स्त्री वत्सरे स्त्री तु न माध्यपुष्पे ।चक्रभ्रमौ स्याच्च निघौ च कुन्दोविष्टौ च ना स्वेदनघर्मयोस्तु ॥ २४ ॥
6.19.24 · p. 234
इन्द्रवज्रा
स्वादुर्मनोज्ञे मधुरे त्रयेऽथा-[तीक्ष्णे मृदुः स्या]त्त्रि[षु] कोमले च ॥ २५ ॥
6.19.25 · p. 235
इन्द्रवज्रा
बिन्दुः पुमान्विप्रुषि दन्तघातेत्रयेऽधिगन्तर्यथ कन्दुरुक्ता ।भोगालये स्वेदनिकागतोऽपिस्त्रीपुंसलिङ्गेऽप्यथ बन्धनेऽन्दूःभूषाभिदि स्त्री प्रमदे तु नन्दि-र्द्यूताङ्गके स्त्रीशगणे तु पुंसि ॥ २६ ॥
6.19.26 · p. 235
उपजातिःtwo metres in one verse
वेदिर्बुधे नाङ्गुलिमुद्रिकाया-मलंकृते भूमितलेऽपि च स्त्री ।वादिर्बुधे ना भणितौ तु योषि-त्सादिस्तु सूते नरि पीडितेऽस्त्री ॥ २७ ॥
6.19.27 · p. 235
उपजातिः
छेदिस्तु बज्रे नरि स च्छिदि स्त्रीज्ञाने विदा स्त्रीधिषणार्थकश्च ।धीदा तु कन्या धिषणार्थकापिनन्दा तु संप[5a]न्मणिके तिथौ च ॥ २८ ॥
6.19.28 · p. 235
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 5 प (wrong syllable)
कुन्दोऽस्त्रियां स्यात्कुसुमप्रभेदेशस्त्रादिकोत्तेजनयन्त्रकेऽपि ।निन्दापवादेऽपि च कुत्सने स्यात्
6.19.14 · p. 235
इन्द्रवज्राtwo metres in one verse
त्रिदाः ।
श्रीदे पुमान्स्याद्धनदो वदान्ये ।स्यान्मुस्तकेऽब्दे जलदोऽथ पुष्प-रसे च मांस्यां नलदं च सेव्ये ॥ २९ ॥
6.19.29 · p. 235
इन्द्रवज्राtwo metres in one verse
मत्ते च हर्षे प्रमदः स्त्रियां स्त्रीव्यक्ते सिते स्याद्विशदोऽथ वैद्ये ।स्याज्जीवदो द्विष्यथ वालिसूनौस्यादङ्गदो बाहुविभूषणेऽन्त्ये ॥ ३० ॥
6.19.30 · p. 235
इन्द्रवज्रा
स्याद्याम्यदिग्दन्तिवधूगतः स्त्रीशान्तान्तरे स्याद्वरदः प्रसन्ने ।कन्यापगाभेदगतः स्त्रियां स्या-दामोद उक्तः सुरभौ च हर्षे ॥
6.19.17 · p. 236
इन्द्रवज्रा
स्यान्नर्मदः केलिसखे स्त्रियां तुनद्यां * * * क्षणदा तु रात्रौ ॥ ३१ ॥
6.19.31 · p. 236
metre not recognised
तोयेऽन्तिमे स्याद्गणके तु पुंसिकपर्द ईशे च वराटके च ।ना खण्डपर्शोश्च जटानिबन्धेप्रतिष्ठितौ त्वास्पदमत्र कृत्ये ॥ ३२ ॥
6.19.32 · p. 236
उपजातिः
स्वरे निषादः श्वपचे प्रसाद-स्त्वनुग्रहे काव्यगुणे प्रसत्तौ ।स्वाच्छ्ये नवे च प्रतिभेऽप्यधृष्टेपीते तु मुद्गे नरि शारदः स्यात् ।स्त्री सप्तप[5b]र्णेऽम्बुकणागतश्चस्याद्दारदः पारदहिङ्गुलार्थः ।विषेऽप्यथो सर्पिषि तोयदं स्या-न्ना मुस्तके वारिधरेऽपि तद्वत् ॥ ३४ ॥
6.19.34 · p. 236
उपजातिःmetre not read in every linenearly उपजातिः: pāda 1, syllable 4 प (wrong syllable)
प्रासादो नरदेवदेवगृहयोर्वादे तु चाम्नायतेनिर्वादः परिवादकेऽथ दशकोटिष्वर्बुदं न स्त्रियाम् ।कीले मांसभवे नरि क्षितिधरे नद्योः पुनः संगमेसंभेदः स्फुटनेऽप्यथ श्रुतिगदे तारे प्रणादो ध्वनौ ॥ ३४ ॥
6.19.34 · p. 236
शार्दूलविक्रीडितम्
प्रह्लादः प्रमदे तथा दितिसुते दायाद उक्तः सुत-ज्ञात्योच्छाग बिडाल केकिषु पुनर्मेनाद उक्तो बुधैः ।वृद्ध्याजीवनके कुसीद * * * त्रय्यां कुसीदप्रदेगोविन्दो गरुडध्वजे सुरगुरौ गोष्ठाधिपे वाच्यवत् ॥ ३५ ॥
6.19.35 · p. 236
शार्दूलविक्रीडितम्metre not read in every line
आह्वाने रुदिते च दारुणरणे सख्यौ तथा रक्षके-प्याक्रन्दः ककुदोऽस्त्रियामनडुहामन्त्ये प्रधाने तथा ।राज्याङ्गे ककुदार्थकं त्वपि कुकुदुद्वेद्वेन च वर्जितं ? (Corrupt)विष्णौ पारदरत्नभिद्यपि बुधैरुक्तो मुकुन्दोऽपि च ॥ ३६ ॥
6.19.36 · p. 237
शार्दूलविक्रीडितम्metre not read in every lineLatin letters: Corrupt
अर्धेन्दुर्गलहस्त इन्दुशकले प्रौढाङ्गनानां भगेप्रोक्तश्चाङ्गुलियो[6a]जनेऽथ गदिता कर्णान्दुरुत्क्षिप्तिका ।पाली च श्रवसोऽथ चूत उदितो माकन्द एष स्त्रियांस्याद्धात्रीफलनामकोऽथ कुमुदो न स्त्रीभवेत्कैरवे ॥ ३७ ॥
6.19.37 · p. 237
शार्दूलविक्रीडितम्metre not read in every line
रक्ताम्भोरुहि ना तु दिग्गजभिदीभे दैत्यभेदे कपौकुम्भ्यां काश्मरिकौषधौ च कुमुदाथो कैरवेऽन्त्ये कुमुद् ।वाच्याभं कृपणेऽथ रक्षसि पुमान् क्रव्याच्च मांसाशिनिस्यादूर्जे नरि कौमुदो निगदितः स्त्री चन्द्रिकायामयम् ॥ ३८ ॥
6.19.38 · p. 237
शार्दूलविक्रीडितम्
स्याच्छ्वभ्रेगतिगोचरेऽपि च गवां माने तथा गोष्पदंवर्षर्त्वोः शरदीरिता गिरिभृगुत्रासेषु नीवृद्भिदि ।स्त्री म्लेच्छेऽपि दरन्मताथ च दृषत्पाषाणमात्रे स्त्रियांनिष्पेषोपलकेऽथ पुंसि न भसद्वक्त्रे तथामाशये ॥ ३९ ॥
6.19.39 · p. 237
शार्दूलविक्रीडितम्
स्याद्योनौ जघनेऽथ संपदुदिता भूतौ च हारान्तरे-ऽप्युत्कर्षेऽपि गुणस्य संविदुदिता ज्ञाने प्रतिज्ञाविधौ ।आचारे नियमे च नामनि रणे संभाषणे तोषणेप्रोक्तो दोग्धरि कामदो गवि पुनर्दुग्धप्रदायां[6b]स्त्रियाम् ॥ ४० ॥
6.19.40 · p. 237
शार्दूलविक्रीडितम्metre not read in every line
स्यात्कारण्ड इह प्लवेऽपि च तरत् सीम्नि स्थितौ वा स्त्रियां ।मर्यादाप्यथ रोचना चलदृशोरुक्ता सुनन्दा तथा ॥
6.19.28 · p. 237
शार्दूलविक्रीडितम्
चतुर्दाः ।
क्लीबे विष्णुपदं सरोजवियतोः क्षीराम्बुधौ त्वादिमेस्त्रीसंक्रान्तिकुशस्थलीसुरधुनीसंज्ञासु संकीर्तितम् ।स्याद्देशे च जने पुमाञ्जनपदोऽथो पुंस्त्वव( ? )खेचरेरम्योक्तौ परवत्प्रियंवद इति प्रोक्तोऽववादः पुनः ॥ ४२ ॥
6.19.42 · p. 237
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 1, syllable 16 व (wrong syllable)
विश्वासे च नियोजने निगदितो विद्वद्भिरुक्तस्तथावीणावादनवस्तुनीह * परीवादः कलङ्केऽपि च ।मर्यादासहिते तथा त्रिषु समर्यादः समीपे भवे-दातोद्ये पुटभेद एष नगरे चक्रे नदीनामपि ॥ ४३ ॥
6.19.43 · p. 238
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्
सारीणां फलके तथा च कनकेऽप्यष्टापदो न स्त्रियांपुंसि स्याच्छरभे गिरावपि कपौ लूतेन्दुमल्ल्योस्तथा ।लङ्केशात्मजतन्दुलीयवरुणे स्यान्मेघनादो महा-नादस्तु द्विपवर्षुकाम्बुदशयुष्वत्रोदितः पण्डितैः ॥ ४४ ॥
6.19.44 · p. 238
शार्दूलविक्रीडितम्
उक्तं कोकनदं * [7a]शोणकुमुदे रक्ते तथाम्भोरुहे-ऽथाभिज्ञेऽपि विशारदो निगदितो धृष्टे तथा वाच्यवत् ।ना मन्थाजिविमर्दयोर्निगदितोऽत्यन्तं तु घृष्टे भवे-न्नाट्योक्तावपि नायकप्रियसखे ना पीठमर्दो मतः ॥ ४५ ॥
6.19.45 · p. 238
शार्दूलविक्रीडितम्metre not read in every line
मुनिदैत्यद्रुमभेदे मुचुकुन्दो मुस्तके व्रीहौ ।कुरुविन्दः कुल्माषे माणिक्ये हिङ्गुले मुकुरे ॥ ४६ ॥
6.19.46 · p. 238
metre not recognised
अभिवृद्धावास्रावे दृग्रोगे स्यादभिष्यन्दः ।कटुकन्दो नरि शिग्रौ लशुने क्लीबे तु शृङ्गबेरे स्यात् ॥ ४७ ॥
6.19.47 · p. 238
उद्गीतिः
प्रतिपत्स्त्री धियि च तिथौ तमोनुदत्त्वग्निचन्द्रार्काः ।सौदामिन्यां वज्रे शतह्रदा स्यात्स्त्रियामेव ॥ ४८ ॥
6.19.48 · p. 238
उपगीतिः
पञ्चदाः ।