कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Amarakośa

नामलिङ्गानुशासनम् Amarakośa

2,373 verses · 12,470 words tagged · 1,463 marked doubtful (dashed)

तृतीयं सामान्यकाण्डम् · नानार्थवर्गः (2/5)

मूर्धाभिषिक्तो भूपेऽपि ऋतुः स्त्रीकुसुमेऽपि च ॥ ६१ ॥
3.3.61
अनुष्टुप्
विष्णावप्यजिताव्यक्तौ सूतस्त्वष्टरि सारथौ ।
3.3.122
अनुष्टुप्
व्यक्तः प्राज्ञेऽपि दृष्टान्तावुभौ शास्त्रनिदर्शने ॥ ६२ ॥
3.3.62
अनुष्टुप्
क्षत्ता स्यात्सारथौ द्वाःस्थे क्षत्रियायां च शूद्रजे ।
3.3.124
अनुष्टुप्
वृत्तान्तः स्यात्प्रकरणे प्रकारे कार्त्स्न्यवार्तयोः ॥ ६३ ॥
3.3.63
अनुष्टुप्
आनर्तः समरे नृत्यस्थाननीवृद्विशेषयोः ।
3.3.126
अनुष्टुप्
कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु ॥ ६४ ॥
3.3.64
अनुष्टुप्
श्लेष्मादि रसरक्तादि महाभूतानि तद्गुणाः ।इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः ॥ ६५ ॥
3.3.65
अनुष्टुप्
कक्षान्तरेऽपि शुद्धान्तो नृपस्यासर्वगोचरे ।
3.3.129
अनुष्टुप्
कासूसामर्थ्ययोः शक्तिर्मूर्तिः काठिन्यकाययोः ॥ ६६ ॥
3.3.66
अनुष्टुप्
विस्तारवल्ल्योर्व्रततिर्वसती रात्रिवेश्मनोः ।
3.3.131
अनुष्टुप्
क्षयार्चयोरपचितिः सातिर्दानावसानयोः ॥ ६७ ॥
3.3.67
अनुष्टुप्
आर्तिः पीडा धनुष्कोट्योर्जातिः सामान्यजन्मनोः ।
3.3.133
अनुष्टुप्
प्रचारस्यन्दयो रीतिरीतिर्डिम्बप्रवासयोः ॥ ६८ ॥
3.3.68
अनुष्टुप्
उदयेऽधिगमे प्राप्तिस्त्रेता त्वग्नित्रये युगे ।
3.3.135
अनुष्टुप्
वीणाभेदेऽपि महती भूतिर्भस्मनि सम्पदि ॥ ६९ ॥
3.3.69
अनुष्टुप्
नदीनगर्योर्नागानां भोगवत्यथ सङ्गरे ।सङ्गे सभायां समितिः क्षयावासावपि क्षितिः ॥ ७० ॥
3.3.70
अनुष्टुप्
रवेरर्चिश्च शस्त्रं च वह्निज्वाला च हेतयः ।
3.3.138
अनुष्टुप्
जगती जगति च्छन्दोविशेषेऽपि क्षितावपि ॥ ७१ ॥
3.3.71
अनुष्टुप्
पङ्क्तिश्छन्दोऽपि दशमं स्यात्प्रभावेऽपि चायतिः ।
3.3.140
अनुष्टुप्
पत्तिर्गतौ च मूले तु पक्षतिः पक्षभेदयोः ॥ ७२ ॥
3.3.72
अनुष्टुप्
प्रकृतिर्योनिलिङ्गे च कैशिक्याद्याश्च वृत्तयः ।
3.3.142
अनुष्टुप्
सिकताः स्युर्वालुकापि वेदे श्रवसि च श्रुतिः ॥ ७३ ॥
3.3.73
अनुष्टुप्
वनिता जनितात्यर्थानुरागायां च योषिति ।
3.3.144
अनुष्टुप्
गुप्तिः क्षितिव्युदासेऽपि धृतिर्धारणधैर्ययोः ॥ ७४ ॥
3.3.74
अनुष्टुप्
बृहती क्षुद्रवार्ताकीच्छन्दोभेदे महत्यपि ।
3.3.146
अनुष्टुप्
वासिता स्त्रीकरिण्योश्च वार्ता वृत्तौ जनश्रुतौ ॥ ७५ ॥
3.3.75
अनुष्टुप्
वार्तं फल्गुन्यरोगे च त्रिष्वप्सु च घृतामृते ।
3.3.148
अनुष्टुप्
कलधौतं रूप्यहेम्नोर्निमित्तं हेतुलक्ष्मणोः ॥ ७६ ॥
3.3.76
अनुष्टुप्
श्रुतं शास्त्रावधृतयोर्युगपर्याप्तयोः कृतम् ।
3.3.150
अनुष्टुप्
अत्याहितं महाभीतिः कर्म जीवानपेक्षि च ॥ ७७ ॥
3.3.77
अनुष्टुप्
युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु ।
3.3.152
अनुष्टुप्
वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले ॥ ७८ ॥
3.3.78
अनुष्टुप्
महद्राज्यं चावगीतं जन्ये स्याद्गर्हिते त्रिषु ।
3.3.154
अनुष्टुप्
श्वेतं रूप्येऽपि रजतं हेम्नि रूप्ये सिते त्रिषु ॥ ७९ ॥
3.3.79
अनुष्टुप्
त्रिष्वितो जगदिङ्गेऽपि रक्तं नील्यादिरागि च ।
3.3.156
अनुष्टुप्
अवदातः सिते पीते शुद्धे बद्धार्जुनौ सितौ ॥ ८० ॥
3.3.80
अनुष्टुप्
युक्तेऽतिसंस्कृतेऽमर्षिण्यभिनीतोऽथ संस्कृतम् ।कृत्रिमे लक्षणोपेतेऽप्यनन्तोऽनवधावपि ॥ ८१ ॥
3.3.81
अनुष्टुप्
ख्याते हृष्टे प्रतीतोऽभिजातस्तु कुलजे बुधे ।
3.3.159
अनुष्टुप्
विविक्तौ पूतविजनौ मूर्छितौ मूढसोच्छ्रयौ ॥ ८२ ॥
3.3.82
अनुष्टुप्
द्वौ चाम्लपरुषौ शुक्तौ शिती धवलमेचकौ ।
3.3.161
अनुष्टुप्
सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत् ॥ ८३ ॥
3.3.83
अनुष्टुप्
पुरस्कृतः पूजितेऽरात्यभियुक्तेऽग्रतः कृते ।
3.3.163
अनुष्टुप्
निवातावाश्रयावातौ शस्त्राभेद्यं च वर्म यत् ॥ ८४ ॥
3.3.84
अनुष्टुप्
जातोन्नद्धप्रवृद्धाः स्युरुच्छ्रिता उत्थितास्त्वमी ।वृद्धिमत्प्रोद्यतोत्पन्ना आदृतौ सादरार्चितौ ॥ ८५ ॥
3.3.85
अनुष्टुप्
अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु ।
3.3.166
अनुष्टुप्
निपानागमयोस्तीर्थमृषिजुष्टे जले गुरौ ॥ ८६ ॥
3.3.86
अनुष्टुप्
समर्थस्त्रिषु शक्तिस्थे सम्बद्धार्थे हितेऽपि च ।दशमीस्थौ क्षीणरागवृद्धौ वीथी पदव्यपि ॥ ८७ ॥
3.3.87
अनुष्टुप्
आस्थानीयत्नयोरास्था प्रस्थोऽस्त्री सानुमानयोः ।
3.3.169
अनुष्टुप्
शास्त्रद्रविणयोर्ग्रन्थः संस्थाधारे स्थितौ मृतौ ।
3.3.170
अनुष्टुप्
अभिप्रायवशौ छन्दावब्दौ जीमूतवत्सरौ ॥ ८८ ॥
3.3.88
अनुष्टुप्
अपवादौ तु निन्दाज्ञे दायादौ सुतबान्धवौ ।
3.3.172
अनुष्टुप्
पादा रश्म्यङ्घ्रितुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः ॥ ८९ ॥
3.3.89
अनुष्टुप्
निर्वादो जनवादेऽपि शादो जम्बालशष्पयोः ।
3.3.174
अनुष्टुप्
आरावे रुदिते त्रातर्याक्रन्दो दारुणे रणे ॥ ९० ॥
3.3.90
अनुष्टुप्
स्यात्प्रसादोऽनुरागेऽपि सूदः स्याद्व्यञ्जनेऽपि च ।
3.3.176
अनुष्टुप्
गोष्ठाध्यक्षेऽपि गोविन्दो हर्षेऽप्यामोदवन्मदः ॥ ९१ ॥
3.3.91
अनुष्टुप्
प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम् ।
3.3.178
अनुष्टुप्
स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु ॥ ९२ ॥
3.3.92
अनुष्टुप्
धर्मे रहस्युपनिषत्स्यादृतौ वत्सरे शरत् ।
3.3.180
अनुष्टुप्
पदं व्यवसितित्राणस्थानलक्ष्माङ्घ्रिवस्तुषु ॥ ९३ ॥
3.3.93
अनुष्टुप्
गोष्पदं सेविते माने प्रतिष्ठा कृत्यमास्पदम् ।
3.3.182
अनुष्टुप्
त्रिष्विष्टमधुरौ स्वादू मृदू चातीक्ष्णकोमलौ ॥ ९४ ॥
3.3.94
अनुष्टुप्
मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ ।प्रत्यग्राप्रतिभौ विद्वत्सुप्रगल्भौ विशारदौ ॥ ९५ ॥
3.3.95
अनुष्टुप्
व्यामो वटश्च न्यग्रोधावुत्सेधः काय उन्नतिः ।
3.3.185
अनुष्टुप्
पर्याहारश्च मार्गश्च विवधौ वीवधौ च तौ ॥ ९६ ॥
3.3.96
अनुष्टुप्
परिधिर्यज्ञियतरोः शाखायामुपसूर्यके ।
3.3.187
अनुष्टुप्
बन्धकं व्यसनं चेतःपीडाधिष्ठानमाधयः ॥ ९७ ॥
3.3.97
अनुष्टुप्
स्युः समर्थननीवाकनियमाश्च समाधयः ।
3.3.189
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 त्प्रकृ (syllable split)
दोषोत्पादेऽनुबन्धः स्यात्प्रकृतस्यादिविनश्वरे ॥ ९८ ॥मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने ।
3.3.190
अनुष्टुप्metre not read in every line
विधुर्विष्णौ चन्द्रमसि परिच्छेदे बिलेऽवधिः ॥ ९९ ॥
3.3.99
अनुष्टुप्
विधिर्विधाने दैवेऽपि प्रणिधिः प्रार्थने चरे ।
3.3.192
अनुष्टुप्
बुधवृद्धौ पण्डितेऽपि स्कन्धः समुदयेऽपि च ॥ १०० ॥
3.3.100
अनुष्टुप्
देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम् ।
3.3.194
अनुष्टुप्
विधा विधौ प्रकारे च साधू रम्येऽपि च त्रिषु ॥ १०१ ॥
3.3.101
अनुष्टुप्
वधूर्जाया स्नुषा स्त्री च सुधा लेपोऽमृतं स्नुही ।
3.3.196
अनुष्टुप्
सन्धा प्रतिज्ञा मर्यादा श्रद्धासम्प्रत्ययः स्पृहा ॥ १०२ ॥
3.3.102
अनुष्टुप्
मधु मद्ये पुष्परसे क्षौद्रेऽप्यन्धं तमस्यपि ।
3.3.198
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पु (wrong syllable)
अतस्त्रिषु समुन्नद्धौ पण्डितम्मन्यगर्वितौ ॥ १०३ ॥
3.3.103
अनुष्टुप्metre not read in every line
ब्रह्मबन्धुरधिक्षेपे निर्देशेऽथावलम्बितः ।अविदूरोऽप्यवष्टब्धः प्रसिद्धौ ख्यातभूषितौ ॥ १०४ ॥
3.3.104
अनुष्टुप्
सूर्यवह्नी चित्रभानू भानू रश्मिदिवाकरौ ।
3.3.201
अनुष्टुप्
भूतात्मानौ धातृदेहौ मूर्खनीचौ पृथग्जनौ ॥ १०५ ॥
3.3.105
अनुष्टुप्
ग्रावाणौ शैलपाषाणौ पत्रिणौ शरपक्षिणौ ।
3.3.203
अनुष्टुप्
तरुशैलौ शिखरिणौ शिखिनौ वह्निबर्हिणौ ॥ १०६ ॥
3.3.106
अनुष्टुप्
प्रतियत्नावुभौ लिप्सोपग्रहावथ सादिनौ ।द्वौ सारथिहयारोहौ वाजिनोऽश्वेषुपक्षिणः ॥ १०७ ॥
3.3.107
अनुष्टुप्
कुलेऽप्यभिजनो जन्मभूम्यामप्यथ हायनाः ।वर्षार्चिर्व्रीहिभेदाश्च चन्द्राग्न्यर्का विरोचनाः ॥ १०८ ॥
3.3.108
अनुष्टुप्
केशेऽपि वृजिनो विश्वकर्मार्कसुरशिल्पिनोः ।
3.3.207
अनुष्टुप्
आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च ॥ १०९ ॥
3.3.109
अनुष्टुप्
शक्रो घातुकमत्तेभो वर्षुकाब्दो घनाघनः ।
3.3.209
अनुष्टुप्
अभिमानोऽर्थादिदर्पे ज्ञाने प्रणयहिंसयोः ॥ ११० ॥
3.3.110
अनुष्टुप्
घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे ।
3.3.211
अनुष्टुप्
इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे ॥ १११ ॥
3.3.111
अनुष्टुप्
वाणिन्यौ नर्तकीदूत्यौ स्रवन्त्यामपि वाहिनी ।
3.3.213
अनुष्टुप्
ह्लादिन्यौ वज्रतडितौ वन्दायामपि कामिनी ॥ ११२ ॥
3.3.112
अनुष्टुप्
त्वग्देहयोरपि तनुः सूनाधोजिह्विकापि च ।
3.3.215
अनुष्टुप्
क्रतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके ॥ ११३ ॥मन्देऽथ केतनं कृत्ये केतावुपनिमन्त्रणे ।
3.3.216
अनुष्टुप्
वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः ॥ ११४ ॥
3.3.114
अनुष्टुप्
उत्साहने च हिंसायां सूचने चापि गन्धनम् ।
3.3.218
अनुष्टुप्
आतञ्चनं प्रतीवापजवनाप्यायनार्थकम् ॥ ११५ ॥
3.3.115
अनुष्टुप्
व्यञ्जनं लाञ्छनं श्मश्रुनिष्ठानावयवेष्वपि ।
3.3.220
अनुष्टुप्
स्यात्कौलीनं लोकवादे युद्धे पश्वहिपक्षिणाम् ॥ ११६ ॥
3.3.116
अनुष्टुप्
स्यादुद्यानं निःसरणे वनभेदे प्रयोजने ।
3.3.222
अनुष्टुप्
अवकाशे स्थितौ स्थानं क्रीडादावपि देवनम् ॥ ११७ ॥
3.3.117
अनुष्टुप्
उत्थानं पौरुषे तन्त्रे सन्निविष्टोद्गमेऽपि च ।
3.3.224
अनुष्टुप्
व्युत्थानं प्रतिरोधे च विरोधाचरणेऽपि च ॥ ११८ ॥
3.3.118
अनुष्टुप्
मारणे मृतसंस्कारे गतौ द्रव्येऽर्थदापने ।निर्वर्तनोपकरणानुव्रज्यासु च साधनम् ॥ ११९ ॥
3.3.119
अनुष्टुप्
निर्यातनं वैरशुद्धौ दाने न्यासार्पणेऽपि च ।
3.3.227
अनुष्टुप्
व्यसनं विपदि भ्रंशे दोषे कामजकोपजे ॥ १२० ॥
3.3.120
अनुष्टुप्
पक्ष्माक्षिलोम्नि किञ्जल्के तन्त्वाद्यम्शेऽप्यणीयसि ।
3.3.229
अनुष्टुप्
तिथिभेदे क्षणे पर्व वर्त्म नेत्रच्छदेऽध्वनि ॥ १२१ ॥
3.3.121
अनुष्टुप्
अकार्यगुह्ये कौपीनं मैथुनं सङ्गतौ रते ।
3.3.231
अनुष्टुप्
प्रधानं परमात्मा धीः प्रज्ञानं बुद्धिचिह्नयोः ॥ १२२ ॥
3.3.122
अनुष्टुप्
प्रसूनं पुष्पफलयोर्निधनं कुलनाशयोः ।
3.3.233
अनुष्टुप्
क्रन्दने रोदनाह्वाने वर्ष्म देहप्रमाणयोः ॥ १२३ ॥
3.3.123
अनुष्टुप्
गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे ।सन्निवेशे च संस्थानं लक्ष्म चिह्नप्रधानयोः ॥ १२४ ॥
3.3.124
अनुष्टुप्
आच्छादने संपिधानमपवारणमित्युभे ।
3.3.236
अनुष्टुप्
आराधनं साधने स्यादवाप्तौ तोषणेऽपि च ॥ १२५ ॥
3.3.125
अनुष्टुप्
अधिष्ठानं चक्रपुरप्रभावाध्यासनेष्वपि ।
3.3.238
अनुष्टुप्
रत्नं स्वजातिश्रेष्ठेऽपि वने सलिलकानने ॥ १२६ ॥
3.3.126
अनुष्टुप्
तलिनं विरले स्तोके वाच्यलिङ्गं तथोत्तरे ।
3.3.240
अनुष्टुप्