कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

देश

deśaपुं · masc.

In 16 kośas: 14 synonym verses, 1 as a nānārtha head word, 93 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.947 · p. 37
वर्षं वर्षधराद्र्यङ्कं विषयस्तूपवर्तनम् ।देशो जनपदो नीवृद्राष्ट्रं निर्गश्च मण्डलम् ॥ ९४७ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह भूमिवर्गः Amarakośa 2.1.8
नीवृज्जनपदो देशविषयौ तूपवर्तनम् ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.284 · p. 34
नीवृज्जनपदो देश उपवर्तनमिष्यते ।जनो लोकः प्रजा प्रोक्ता विषयो ग्रामसंख्यया ॥ २८४ ॥
अनुष्टुप्
genderपुंmasc.
एकादिसंख्यासंज्ञाकोष Ekādisaṃkhyāsaṃjñākoṣa · अज्ञात अष्टसंख्यावाचकाः शब्दाः Ekādisaṃkhyāsaṃjñākoṣa 8.18 · p. 200
दिग्-देश-कुम्भिपालाः कुलपर्वत-शम्भुमूर्त्ति-वसवश्च ।योगाङ्ग-व्याकर(ण)-ब्रह्मश्रुत्यहिकुलान्यष्टौ ॥ १८ ॥
आर्याmetre not read in every line
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव देशप्रकाण्डः Kalpadrukośa 1.2.1 · p. 4
नीवृज्जनपदो जानपदश्च विषयः पुमान् ।देशः प्रदेशोस्त्री राष्ट्रं स्थितिश्चावकाशकः ॥ १ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 दे (syllables merged)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ भूकाण्डः Koṣakalpataru 2.13 · p. 114
पुंसि स्याद्विषयो देशो निर्गश्चक्रं च मण्डलम् ।उपवर्तनमन्त्येऽथ नीवृत्स्त्री राष्ट्रमस्त्रियाम् ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंलिङ्गाधिकारः Koṣakalpataru 4.1.5 · p. 94
इन्द्रियार्थ-रथ-वायु-रदानांकण्ठ-देश-रस-गण्ड-नदानाम् ।ओष्ठ-कोष्ठमिति-धान्य-कचानांपाणि-पाणिज-कुठार-कुचानाम् ॥ ५ ॥
स्वागता
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.236 · p. 34
क्षेत्रं वर्षधराद्यङ्कं वर्षं देशोऽथ मण्डलम् ।राष्ट्रं जनपदो निर्गो विषयो नीवृदीरितः ॥ २३६ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.4 · p. 1
मृन्मृत्तिका प्रशस्ता मृन्मृत्सा मृत्स्ना महीपलम् ।नीवृज्जनपदो देशविषयावुपवर्त्तनम् ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.35 · p. 37
वैतालिका बोधकरा बन्दिनः स्तुतिपाठकाः ।देशो जनपदो राष्ट्रं नीवृद्विषयमण्डले ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1609 · p. 259
वर्षं वर्षधराद्यङ्कं क्षेत्रसंज्ञा निगद्यते ।देशो जनपदो राष्ट्रं नीवृत् निर्गश्च मण्डलम् ॥ १६०९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 3.1.14 · p. 46
देशप्रदेशविषयास्तथा राष्ट्रोपवर्तनम् ।आगोष्ठात् त्रिषु नड्वांस्तु नड्वलो नडसंयुते ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वसुंधराध्यायः Śabdaratnākara 2.1.375 · p. 50
जम्बूप्लक्षकुशक्रौञ्चशाकशाल्मलिपुष्कराः ।द्वीपवृक्षा इमे सप्त द्वीपास्तन्नामपूर्वकाः ।नीवृज्जनपदौ देशविषयौ राष्ट्रमण्डले ॥ ३७५ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश देशाध्यायः Vaijayantī 3.1.21 · p. 36
नीवृज्जनपदो देशस्तद्भेदाः पुंसि भूम्नि च ।स्त्रियो वरेन्द्रीस्रावस्तीराढाद्या नैव भूमनि ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1936 · p. 236
कटके स्थूलपाषाणे रदनेभविषाणयोः ।जायाभावे तु दन्ता स्त्री देशो नीवृत्प्रदानयोः ॥ १९३६ ॥
अनुष्टुप्

देश as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् सिन्धुदेशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम् । Amarakośa 3.3.194
  • हलायुधकोशः (अभिधानरत्नमाला) मरुनदीसमुद्रयोः सिन्धुर्देशपर्वतयोर्मरुः । मैथुनं कथ्यते सद्भिः सम्बन्धग्राम्यधर्मयोः ॥ ८३८ ॥ Abhidhānaratnamālā (Halāyudha) 5.838
  • धरणिकोश वाह्लीकद्रावका हृदयग्राहिपाषाणद्रवकारकाः । वाह्लीकस्तुरगे देशे वाह्लीके हिङ्गुकुङ्कुमे । जातकः कथितो जातः कारण्डी चापि जातकः ॥ Dharaṇikośa 1.2.26
  • धरणिकोश कलिङ्गकलिङ्गौ देशधूम्याटौ कलिङ्गं कौटजं फलम् । अपाङ्गो नेत्रयोरन्ते अपाङ्गस्तिलकेऽपि च ॥ Dharaṇikośa 3.2.3
  • धरणिकोश प्राक्प्रागुदक्प्रत्यगित्येते दिद्गेशे कालतोऽव्ययम् । प्राच्योदीच्यप्रतीच्यानां वाचकं स्यादनव्ययम् ॥ Dharaṇikośa 5.3.3
  • धरणिकोश कोङ्कणलक्षणं नाम्नि चिह्ने च कोङ्कणः शस्त्रदेशयोः । दुर्वर्णं रूप्येऽसद्वर्णे प्रोक्षणे वधसेचने ॥ Dharaṇikośa 14.1.6
  • धरणिकोश जनपदप्रियंवदः खेचरे च महामदो गजेऽपि च । विशारदो बुधेऽत्रस्ते शतह्रदा वज्रविद्युतोः । अपवादौ तु निन्दाज्ञे जनपदो जनदेशयोः ॥ Dharaṇikośa 17.1.7
  • धरणिकोश निषधसंनिधिः [52] संनिधाने स्यात्प्रत्यक्षे संनिधिः स्मृतः । निषधः कठिने देशे तद्राजे पर्वतान्तरे ॥ Dharaṇikośa 18.2.13
  • धरणिकोश मलयचैत्यमायतनं विद्याच्चैत्यमुद्देशपादपः । मलयो देश आरामे चन्दने पर्वतान्तरे ॥ Dharaṇikośa 25.2.19
  • धरणिकोश राष्ट्रस्वरुर्यूपपार्धके वज्रे स्वरः स्वच्छन्दमन्दयोः । मित्रो रविः सुहृन्मित्रं राष्ट्रमुत्पातदेशयोः ॥ Dharaṇikośa 26.1.5
  • धरणिकोश सौवीरकाश्मीरं पौष्करं मूलं काश्मीरं कुङ्कुमादिकम् । सौवीरं काञ्चिके देशे उद्योते चाञ्जनाश्रुणि ? ॥ Dharaṇikośa 26.2.63
  • धरणिकोश पञ्चालउत्फुल्लं करणे स्त्रीणामुत्ताले च विकस्वरे । पञ्चाली पुत्रिकागीत्योः पञ्चालो जनदेशयोः ॥ Dharaṇikośa 27.2.43
  • धरणिकोश मण्डलमण्डलं निवहे बिम्बे देशे द्वादशराजके । मण्डलः कुक्कुरे प्रोक्तः कुष्ठभेदे च मण्डलम् ॥ Dharaṇikośa 27.3.26
  • कोषकल्पतरु शकअकं तु दुःखे दुरितेऽपि शस्तम् । शकस्तु देशे भुजगे च वर्णे शुको भवेद्व्याससुते च कीरे ॥ ३ ॥ Koṣakalpataru 6.1.3
  • कोषकल्पतरु बाह्लिकपिण्याकमस्त्री तिलकल्कहिङ्गु- कश्मीरजन्मस्वपि सिह्लके च । बाह्लीकवद्बाह्लिकमत्र हिङ्गु- सत्कुङ्कु[251b]मे देशतुरंगयोर्ना ॥ ५७ ॥ Koṣakalpataru 6.1.57
  • कोषकल्पतरु लम्पाककिंपाकस्त्रिषु मन्दे स फले क्लीबेऽथ लम्पाकः । त्रितये लम्पटवाची देशे पुंलिङ्ग उद्दिष्टः ॥ ६० ॥ Koṣakalpataru 6.1.60
  • कोषकल्पतरु अङ्गवपुष्युपाये निकटे प्रतीके गौणे तथाङ्गं नरि भूम्नि देशे । तुङ्गस्तु पुंनागनगज्ञवाची तुङ्गी निशाबर्बरयोस्त्रिषूचे ॥ २०० ॥ Koṣakalpataru 6.3.200
  • कोषकल्पतरु कलिङ्गप्रकीर्यधूम्याटकयोः कलिङ्गः पुंभूम्नि देशे वनितार्थकः स्त्री । क्लीबे तु शक्रद्रुफलेऽथ पुंसि भवेदपाङ्गस्तिलके दृगन्ते ॥ २१ ॥ Koṣakalpataru 6.3.21
  • कोषकल्पतरु चोडहिण्डिः स्त्रियां बालकरात्रिरक्षा- चारे भवान्यामपि भाष्यतेऽसौ । क्रोडः शनौ घोणिनि पुंस्त्वहीनो भुजान्तरे प्रावरणान्तरे तु । देशेऽपि चोडः श्रवणामये तु क्ष्वेडो ध्वनौ[276b]ना गरलेऽन्यवत्तु ॥ ६१ ॥ Koṣakalpataru 6.12.61
  • कोषकल्पतरु कोदण्डउक्तश्चूडाबर्हयोर्ना शिखण्डः कोदण्डोऽस्त्री भ्रूलतायां [च] देशे । चापेऽथ स्यादस्त्रियां शाखिनः स्या- न्मध्ये मूलस्क[277a]न्धयोश्च प्रकाण्डः ॥ ८५ ॥ Koṣakalpataru 6.12.85
  • कोषकल्पतरु जनपदक्लीबे विष्णुपदं सरोजवियतोः क्षीराम्बुधौ त्वादिमे स्त्रीसंक्रान्तिकुशस्थलीसुरधुनीसंज्ञासु संकीर्तितम् । स्याद्देशे च जने पुमाञ्जनपदोऽथो पुंस्त्वव( ? )खेचरे रम्योक्तौ परवत्प्रियंवद इति प्रोक्तोऽववादः पुनः ॥ ४२ ॥ Koṣakalpataru 6.19.42
  • कोषकल्पतरु सिन्धुकर्पूररात्रिंचरयोरथो ना सिन्धुर्नदेऽब्धौ वमथौ च देशे । नद्यां स्त्रियां स्यात्सरिदम्बुराश्यो- स्त्वसौ द्वयोरित्यपि नाममाला ॥ ६५ ॥ Koṣakalpataru 6.20.65
  • कोषकल्पतरु निषधपुमांस्तथा स्याद्विवधोऽथ देशे शैले कठोरे निषधो नृपे च । संबाध उक्तो भगसंकटार्थे स्याद्दुर्विधो दुर्गतधूर्तयोश्च ॥ ६९ ॥ Koṣakalpataru 6.20.69
  • कोषकल्पतरु जवनज्यौतिष्यपि स्याच्चरमेऽथ वेगे वेगाधिकेऽश्वे जवनश्च देशे । स्यादौषधौ स्त्रीपरवत्सवेगे जीवे सुते जीवन आदिलिङ्गः ॥ ४४ ॥ Koṣakalpataru 6.21.44
  • कोषकल्पतरु विषयनरि रूपरसादिदेशयोः जनवासेऽधिगते प्रबन्धके । अनयो व्यसने विपद्यपि प्रथितश्चाशुभदैववाचकः ॥ ५६ ॥ Koṣakalpataru 6.26.56
  • कोषकल्पतरु मलयवलयः करकङ्कणे गणे गदितोऽस्त्री नरि कण्ठरुग्भिदि । मलयस्तु वने च कृत्रिमे गिरिभेदेऽपि धरांशदेशयोः ॥ ५८ ॥ Koṣakalpataru 6.26.58
  • कोषकल्पतरु कीरकीरः शुके स्यादपि देशवाची गौरस्तु पीतारुणपाण्डुरेषु । शुद्धे च वाच्ये सितसर्षपाष्ट- वर्षातनूजेन्दुषु संप्रदिष्टः ॥ २१ ॥ Koṣakalpataru 6.27.21
  • कोषकल्पतरु मद्रजारो भवेच्चोपपतौ स्त्रियां तु स्याद्यावनाले मुदि मद्रमन्त्ये । देशे पुमान्स्याद्विबुधैस्त्विरोक्ता कादम्बरीवाग्वसुधासुधासु ॥ ७७ ॥ Koṣakalpataru 6.27.77
  • कोषकल्पतरु शर्करास्त्री शर्करा खण्डविकार उक्ता- श्मीरे ( ? ) तथा कर्परकांशकेऽपि । देशे तथा शर्करिले च खण्डे तथैव रुग्भिद्यपि कीर्तितासौ ॥ ८१ ॥ Koṣakalpataru 6.27.81
  • कोषकल्पतरु दशपुरदशपुरं पुरि मुस्तकदेशयोः प्रतिसरस्त्रिषु मण्डनमाल्ययोः । करगतेऽपि च मङ्गलसूत्रके व्रणविशोधनकङ्कणवाचकः ॥ ९४ ॥ Koṣakalpataru 6.27.94
  • कोषकल्पतरु कुलविशेष्यवत्स्याद्विपुले कुलं तु देशे गृहे गोत्रशरीरयोश्च । तथा सजातीयगणेऽथ कालो मृत्यौ कृतान्ते समये च कृष्णे ॥ ५५ ॥ Koṣakalpataru 6.28.55
  • कोषकल्पतरु कुन्तलपित्तला तोयपिप्पल्यां निस्तलं वृत्तलोलयोः । स्यात्कुन्तलः पुंसि यवे लाङ्गले देशकेशयोः ॥ १२ ॥ Koṣakalpataru 6.28.12
  • कोषकल्पतरु मण्डलद्बादशक्षिति[प]वृन्ददेशयोः कुष्ठरोगभिदि चोपसूर्यके । बिम्बके त्रिषु कदम्बके तथा- थार्गलस्त्रिषु महोर्मिदण्डयोः ॥ १९ ॥ Koṣakalpataru 6.28.19
  • कोषकल्पतरु प्रदेशविन्यासके वेतनमूर्छयोस्तु निर्वेश उक्तः प्रगमे च भोगे । अङ्गुष्ठतर्जन्युभयप्रमाणे देशे च कुड्येऽपि नरि प्रदेशः ॥ २१ ॥ Koṣakalpataru 6.30.21
  • कोषकल्पतरु संदेशसंदेश उक्तो निकटे च देशे स्याच्छासनोपांशुगिरोर्निर्देशः । आदर्श उक्तो नरि दर्पणेऽपि स्याट्टिप्पणे च प्रतिपुस्तकेऽपि ॥ २२ ॥ Koṣakalpataru 6.30.22
  • नानार्थार्णवसंक्षेप कीरकीरः शुके द्वयोर्देशे कश्मीरेषु नृभूमनि । क्षीरं क्ली सलिले दुग्धेऽन्येऽर्धर्चादिष्वधीयते ॥ २१४ ॥ Nānārthārṇavasaṃkṣepa 2.5.214
  • नानार्थार्णवसंक्षेप दरद्हिमवत्तट इत्यन्ये राजभेदे तु पुंस्ययम् । तस्यैव पुमपत्येषु भूम्नि देशस्य भूपतेः ॥ ५८३ ॥ Nānārthārṇavasaṃkṣepa 2.5.583
  • नानार्थार्णवसंक्षेप प्रत्यच्प्रत्यक् प्रतीच्येऽभिमुखे प्रतीच्यभिमुखे त्रिषु । देशे पुंसि प्रतीची तु पश्चिमायां दिशि स्त्रियाम् ॥ ७३६ ॥ Nānārthārṇavasaṃkṣepa 2.5.736
  • नानार्थार्णवसंक्षेप प्राच्यप्राग्दक्षिणे शरावत्या देशे ना प्राग्भवे त्रिषु । पाक्यं तु त्रिषु पक्तव्ये क्लीबं तु विडसंज्ञके ॥ ७६० ॥ Nānārthārṇavasaṃkṣepa 2.5.760
  • नानार्थार्णवसंक्षेप वङ्गना तु नीलपृषद्रूपवक्त्रव्याधौ नृभूम्नि तु । वङ्गाः स्युर्देशभेदे तद्राजे वाङ्गः पुमानथ ॥ ११८१ ॥ Nānārthārṇavasaṃkṣepa 2.5.1181
  • नानार्थार्णवसंक्षेप वेधस्कश्चित् सर्वविदि स्माह ना तु विष्णुविरिञ्चयोः । देशेऽप्यन्येऽथ शङ्खोऽस्त्री ललाटात्थिगमर्मणोः ॥ १३०१ ॥ Nānārthārṇavasaṃkṣepa 2.5.1301
  • नानार्थार्णवसंक्षेप विषयदेशे रूपरसादौ च तथा स्यान्नित्यसेविते । पृथक् तु रभसः प्राह देशाज्जनपदेऽप्यमुम् ॥ १९८ ॥ Nānārthārṇavasaṃkṣepa 3.2.198
  • नानार्थार्णवसंक्षेप कर्वरकर्वरो नाञ्जलौ देशे पापे च रभसोऽब्रवीत् । द्वयोस्तु रक्षसि व्याघ्रे क्लीबं तु जलकर्मणोः ॥ ३८३ ॥ Nānārthārṇavasaṃkṣepa 4.383
  • नानार्थार्णवसंक्षेप गोष्पदगोभिश्च सेविते देशे केचित् त्वर्थेऽत्र भेद्यवत् । गोस्तनो ना चतुर्यष्टिहारभेदे गवां स्तने ॥ ६८३ ॥ Nānārthārṇavasaṃkṣepa 4.683
  • नानार्थार्णवसंक्षेप तुरुष्कना सिल्हसंज्ञे निर्यासे राजभेदे च तस्य तु । स्त्र्यपत्ये स्यात् तुरुष्की स्त्री देशे त्वस्य नृभूमनि ॥ ८८० ॥ Nānārthārṇavasaṃkṣepa 4.880
  • नानार्थार्णवसंक्षेप मण्डलबिम्बे चाप्युपसूर्ये च कुष्ठरोगान्तरेऽपि च । समूहमात्रे ग्रामौघे देशे द्वादशराजके ॥ १३२४ ॥ Nānārthārṇavasaṃkṣepa 4.1324
  • नानार्थार्णवसंक्षेप मलयमहोग्रा भेद्यवत् तु स्यादत्युग्रेऽथ नृशण्डयोः । मलयः शैलभेदे स्याद् देशेऽप्यवयचे गिरे ॥ १३३९ ॥ Nānārthārṇavasaṃkṣepa 4.1339
  • नानार्थार्णवसंक्षेप जनपदचन्द्रहासोऽर्धचन्द्राग्र इति शब्दार्थकोविदः । चित्रभानू रवौ वह्नौ देशे जनपदो जने ॥ ५७ ॥ Nānārthārṇavasaṃkṣepa 6.57
  • परमानन्दीयनाममाला अङ्गअङ्गा भूम्न्येव देशार्थेऽङ्गं प्रधानेऽन्तिके तनौ । शिक्षाद्याधारयोरङ्गामन्त्रणेऽव्ययमुच्यते ॥ १७ ॥ Paramānandīyanāmamālā 5.1.17
  • परमानन्दीयनाममाला निषधनिस्त्रिंशः परुषे खड्गे निषधः स्वरदेशयोः । निवेशो रचनानीकविवाहेषु पुरेऽप्यथ ॥ २७५ ॥ Paramānandīyanāmamālā 5.18.275
  • परमानन्दीयनाममाला शकशुको व्यासात्मजे कीरे शौकं स्याच्छुकसंचये । शको भूपेऽन्त्यजे देशे शङ्कुः कीलकरुद्रयोः ॥ ३५३ ॥ Paramānandīyanāmamālā 5.25.353
  • परमानन्दीयनाममाला क्ष्वेडाउत्सवेऽथ मतः क्ष्वेडो वक्रे च गरले तथा । क्ष्वेडा सिंहध्वनौ देशे काले क्ष्वेडं दुरासदे ॥ ३७९ ॥ Paramānandīyanāmamālā 5.29.379
  • शब्दरत्नावली लम्पाकरेणुकापि हरेणौ स्याद् जमदग्निस्त्रियामपि । लम्पाको लम्पटो देशे लिम्पाको जम्बिरे खरे ॥ Śabdaratnāvalī 7.1.133
  • शब्दरत्नावली वह्लीकवञ्चको जम्बुके धूर्ते गृहवभ्रौ खलेऽपि च । व्यलीकमप्रियाकार्यवैलक्ष्यपीडनेष्वपि ॥ व्यलीकानागरे पुंसि वह्लीकं वाह्लिकं तथा । धीरे हिङ्गुनि देशाश्वभेदयोः पुंसि च द्वयम् ॥ Śabdaratnāvalī 7.1.138
  • शब्दरत्नावली प्राञ्च्न्यङ् निम्ननीचयोर्नीचो वामने पामरेऽपि च । प्राक् पूर्वदिशि देशे पूर्वकाले च वाच्यवत् ॥ Śabdaratnāvalī 7.6.7
  • शब्दरत्नावली कीकटकीकटो भूम्नि देशे ना निम्बेऽपि कृपणे त्रिषु । कुरुन्टी स्त्री दारुपुत्र्यां झिण्ट्यम्लानभिदोः पुमान् ॥ Śabdaratnāvalī 7.11.39
  • शब्दरत्नावली अम्बष्ठअपष्ठुः पुंसि कामे स्याद् वामे तु वाच्यलिङ्गकः । अम्बष्ठो द्विजवैश्याजे देशे हस्तिपके पुमान् ॥ Śabdaratnāvalī 7.12.9
  • शब्दरत्नावली साधिष्ठसाधिष्टोऽतिदृढेऽत्पार्थे श्रीकन्ठे हरदेशयोः । Śabdaratnāvalī 7.12.14
  • शब्दरत्नावली निषधनिषधः राजभेदे स्यात् शैले कठिन-देशयोः ॥ Śabdaratnāvalī 7.19.30
  • शब्दरत्नावली ब्रह्मबन्धुब्रह्मवन्धूरधिक्षेपे द्विजातिर्देशयोः पुमान् । महोषधं विषायां स्यात्शुण्ठयाञ्चलशुतेऽपि च ॥ Śabdaratnāvalī 7.19.44
  • शब्दरत्नावली चीनत्रिषु सान्द्रे दृढे पूर्णे निबिडे सम्पुटेऽपि च । चीनो व्रीहिमृगभिदोस्तन्तौ देशेंऽशुके पुमान् ॥ Śabdaratnāvalī 7.20.5
  • शब्दरत्नावली मत्स्यअथ भाग्यं क्लीबलिङ्गं स्याच्छुभाशुभकर्मणोः । मयो दैत्ये च करभे शिल्पिन्यश्वतरेऽपि च ॥ मध्यमस्त्री विलग्ने स्यान्न्याय्येऽन्तरेऽधमे त्रिषु । मत्स्याः पुंभूम्नि देशे तु मीने नारायणे पुमान् ॥ मन्युर्ना दैन्यशोकेष्टिक्रोधेष्वहङ्कृतौ क्वचित् ॥ Śabdaratnāvalī 7.26.22
  • शब्दरत्नावली मलयपानीयं सलिले क्लीबं पातव्ये पुनरन्यवत् । पौलस्त्यो ना धनाधीशे दशकण्ठे विभीषणे ॥ वलयं कङ्कणे क्लीबं कण्ठरोगे पुमानयम् । वालेयं स्याद्वलिहिते मृदौ त्रिषु खरे पुमान् ॥ ब्राह्मण्यं ब्रह्मवृन्दे स्यात्ब्राह्मणत्वेऽपि न द्वयोः । भरण्युर्ना चण्डभानौ मृगाङ्के च विभावसौ ॥ भुजिष्यः पुंसि दासे स्यात्स्वन्त्रहस्तसूतत्रके । स्त्रियां दासीगणिकयोः स्वतन्त्रायामपि क्वचित् ॥ मलयो ना चलारामदेशेषु स्त्री तथौषधे । मङ्गल्यो ना त्रायमानामसूराश्वत्थबिल्वके ॥ स्त्रियात्तु रोचनाशुक्लवचाशमीमिमीषु च । अधःपुष्प्यां स्त्रियां दध्नि क्लीबं शिवकरे त्रिषु ॥ मृगयुर्ना शृगाले स्याद् व्याधे पितामहेऽपि च । रहस्या स्त्री सरिद्भदे गोपनीयेऽभिधेयवत् ॥ विजया पार्वतीसख्यां तिथिभेदेऽपि च स्त्रियाम् । विजयस्तु जये पुंसि तथा गाण्डीवधन्वनि ॥ विस्मयः पुंसि दर्ये स्यात्स्यन्देहाश्चर्ययोरपि । विषयो यस्य यो ज्ञातस्तत्रदेशे च गोचरे ॥ रूपादौ स्याज्जनपदे कान्तादौ च भवेत्पुमान् ॥ Śabdaratnāvalī 7.26.46
  • शब्दरत्नावली ओड्रऐन्द्रिर्जयन्ते काके ना स्त्री शचीशिवयोरपि । ओड्रः पुंभूम्नि देशे स्यात्तरुभेदे पुमानयम् ॥ करो रश्मौ च करके शुण्डप्रत्यायपाणिषु । कद्रुस्त्रिषु पिशङ्गे स्यान्नागमातरि तु स्त्रियाम् ॥ कारो हिमगिरौ यत्ने वलौ पत्यौ वधे पुमान् । कारा स्त्रियां बन्धगृहे बन्धे दूत्यां प्रसेवके ॥ कारिः क्रियायां स्त्रीलिङ्गो वाच्यलिङ्गस्तु शिल्पिनी । क्रूरं स्यात्कठिने घोरे नृशंसेऽपि च वाच्यवत् ॥ कारुस्त्वष्टरि पुंसि स्यात्त्रिषु कर्तरि शिल्पिनि । कीरः शुके देशभेदे क्लीबं स्यान्नीरदुग्धयोः ॥ कुरुर्ना भक्तनृपयोः पुंबहुत्वे च निवृति । क्षुद्रः क्रूरेऽधमेऽल्पे च कृपणेऽपि च वाच्यवत् ॥ क्षुद्रा व्यङ्गानटीधृष्टाबृहतीसरधासु च । चाङ्गेरी मक्षिकामात्रे हिंस्रा वादरतासु च ॥ क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे । खुरः शफे कोलदले तथा छेदनवस्तुनि ॥ क्रोष्ट्री कृष्णविदार्युक्ताशृगालीलाङ्गलीषु च । खरो धर्मे गर्दभे ना तीक्ष्यो त्रिष्वौषधे स्त्रियाम् ॥ खरुर्दर्पे हरे दन्ते हये ना धवले त्रिषु ॥ Śabdaratnāvalī 7.27.7
  • शब्दरत्नावली पुरपुरमस्त्री पुरी क्लीबं गेहे देशे च वर्ष्मणि । प्रसूनादिदलावृत्तौ भवेत्पुंसि तु गुग्मुलौ ॥ Śabdaratnāvalī 7.27.31
  • शब्दरत्नावली शर्कराशम्बरं सलिले क्लीबं ना देत्यमृगभेदयोः । शम्बरी स्यादासुपर्ण्यां मायायामपि च स्त्रियाम् ॥ शर्वरी स्त्री तु यामिन्यां प्रमदायामपि स्त्रियाम् । शर्करा कर्परांशेऽपि सिता शार्करदेशयोः ॥ Śabdaratnāvalī 7.27.102
  • शब्दरत्नावली मण्डलमङ्गलो भूमिपुत्रे स्यात्कल्याणे तु नपुंसकम् । मण्डलं परिधौ कोठे देशे द्वादशराजके ॥ Śabdaratnāvalī 7.28.82
  • शब्दरत्नावली प्राक्चात्योन्यार्थे समाहारेऽन्वाचये पादपूरणे । समुच्चये च निर्द्वन्द्वे पक्षान्तरेऽवधारणे ॥ किञ्च पक्षान्तरारम्भसाकल्यपूर्वदूषणे । प्राक् पूर्वानन्तराग्रेषु प्रभावातीतयोरपि ॥ दिग्देशकालभेदेषु क्रमप्राप्तावपि स्मृतम् । तिर्यक् तिरोऽर्थे वक्रार्थे विरुद्धार्थेऽपि दृश्यते ॥ ननु च प्रश्नदुष्टोक्तयोः सम्यग्दृढप्रतिज्ञयोः ॥ Śabdaratnāvalī 8.1.18
  • शब्दरत्नाकर चीनचक्री दर्वीकरे विष्णौ कुलाके छद्मवत्यपि । प्रचारे प्रणिधौ चारश्चीनो देशे मृगान्तरे ॥ १९१७ ॥ Śabdaratnākara 4.1.1917
  • शब्दरत्नाकर चोलचोलः कूर्पासके देशे चोरौ मशकतस्करौ । पुंनपुंसकयोर्वस्त्रे चीरश्चीरी तु झल्लिका ॥ १९१९ ॥ Śabdaratnākara 4.1.1919
  • शब्दरत्नाकर पुण्ड्रदेशक्रिमीक्षुतिलकातिमुक्तेषु विशेषके । पुण्ड्रः पिण्डस्तु वपुषि गुडे वृत्ते सुसंहते ॥ १९४९ ॥ Śabdaratnākara 4.1.1949
  • शब्दरत्नाकर मरुस्याद्राश्येलकयोर्मेषो मोहो वैचित्र्यमौर्ख्ययोः । मरुर्धन्वनि देशे च मारस्तु मरणे स्मरे ॥ १९७८ ॥ Śabdaratnākara 4.1.1978
  • शब्दरत्नाकर कलिङ्गकलङ्कोऽङ्केऽपवादे च कलिङ्गः खगदेशयोः । करेणुर्ना गजे स्त्री तु करिण्यामथ कञ्चुकः ॥ २०५७ ॥ Śabdaratnākara 4.1.2057
  • शब्दरत्नाकर पल्लवपल्लवो ना विटे देशेऽप्यस्त्री किसलयेऽञ्चले । प्रवालो विद्रुमे वीणादण्डे ना पल्लवे स्त्रियाम् ॥ २१३२ ॥ Śabdaratnākara 4.1.2132
  • शब्दरत्नाकर करहाटकरहाटोऽम्बुजादीनां शिफायां देशभूरुहोः । कुरुविन्दो रत्नभेदे मुस्तायां हिङ्गुलेऽपि च ॥ २२०७ ॥ Śabdaratnākara 4.1.2207
  • शब्दरत्नाकर जनपदअर्कानलौ चित्रभानू चक्रपादो रथेभयोः । जने देशे जनपदः चन्द्रेऽक्रेऽग्नौ तमोनुदः ॥ २२०९ ॥ Śabdaratnākara 4.1.2209
  • त्रिकाण्डशेष तुरुष्कतुरुष्कः सिह्लके देशे प्राण्यङ्गे त्रितये त्रिकम् । कूपाङ्गे स्त्री तिक्तशाकः खदिरे वरुणद्रुमे ॥ २६ ॥ Trikāṇḍaśeṣa 3.3.26
  • त्रिकाण्डशेष वाह्लीकवाह्लीकं बाह्लिके धीरहिङ्गुनोर्नाऽश्वदेशयोः । विपाकः परिणामेऽपि तिलकेऽपि विशेषकः ॥ ४३ ॥ Trikāṇḍaśeṣa 3.3.43
  • त्रिकाण्डशेष कलिङ्गकथाप्रसङ्गो वातूले विषवैद्येऽपि वाच्यवत् । देशे कलिङ्गो धूम्याटे कलिङ्गं कौटजे फले ॥ ५८ ॥ Trikāṇḍaśeṣa 3.3.58
  • त्रिकाण्डशेष कम्बोजस्यादङ्गजः स्मरे केशे पुत्रे रक्ते नपुंसकम् । उत्साहकार्तिकावूर्जौ कम्बोजो देशशङ्खयोः ॥ ८२ ॥ Trikāṇḍaśeṣa 3.3.82
  • त्रिकाण्डशेष कीकटसुरायां स्त्री कीकटुस्तु निःस्वे देशे मितम्पचे । खेटः सिङ्घाणके हीने गृष्टिर्धेन्वौषधीभिदोः ॥ ९५ ॥ Trikāṇḍaśeṣa 3.3.95
  • त्रिकाण्डशेष लाटलाटोंऽशुके च देशे च व्युष्टं कल्ये त्रिषूषिते । पथि वास्तुनि वाटः स्याद्विकटं विकृतं बृहद् ॥ १०२ ॥ Trikāṇḍaśeṣa 3.3.102
  • त्रिकाण्डशेष राढाविचेष्टबालिशौ मूढौ राढा स्याद्दीप्तिदेशयोः । पण्डकञ्चुकिनौ षण्ढौ समूढः पुञ्जिते नवे ॥ ११८ ॥ Trikāṇḍaśeṣa 3.3.118
  • त्रिकाण्डशेष जनपददेशे जने जनपदौ निषादौ श्वपचस्वरौ । वाक्ये शब्दे प्रदेशेऽपि पदं पापस्तु न द्वयोः ॥ २०७ ॥ Trikāṇḍaśeṣa 3.3.207
  • त्रिकाण्डशेष जवननिम्बेऽपि छर्दनं वान्तौ जवनो देशवेगिनोः । बुद्धे जिनो जित्वरे च जीवनं वर्तनाम्भसोः ॥ २४० ॥ Trikāṇḍaśeṣa 3.3.240
  • त्रिकाण्डशेष विषयलयो युक्ते च लभ्यं स्याद्विषयौ देशगोचरौ । वर्गप्रस्थानयोर्व्रज्या वदान्यस्त्यागवान् सुवाक् ॥ ३२१ ॥ Trikāṇḍaśeṣa 3.3.321
  • त्रिकाण्डशेष कुन्तलकर्म्मरङ्गतरौ कर्म्मफलं दुःखे सुखेऽपि च । करालो धूनतैलेऽपि देशे केशे च कुन्तलः ॥ ३८९ ॥ Trikāṇḍaśeṣa 3.3.389
  • त्रिकाण्डशेष मण्डूलबिम्बे देशे ना च शुनि रसालत्विक्षुचूतयोः । जिह्वाकमलयोर्लाला शाला स्याद्गृहशाखयोः ॥ ४०७ ॥ Trikāṇḍaśeṣa 3.3.407
  • वैजयन्ती अंगअब्जो धन्वन्तरौ शंखे चन्द्रे क्ली लवणेंऽबुजे । प्रदेशेंऽश उपायेंऽगमंगो देशेंऽगशालिनि ॥ ३ ॥ Vaijayantī 6.5.3
  • वैजयन्ती शकशको विष्ठा पशूनां स्याद्देशे च गवये शकाः । शबले मारुते शारः शुद्धाः पूतार्ककेवलाः ॥ ९१ ॥ Vaijayantī 6.5.91
  • वैजयन्ती कलिङ्गकलिङ्गं तु यवे ना तु देशपक्षिविशेषयोः । खनको भूमिवित्तज्ञे मूषिकेऽप्यवदारके ॥ ३३ ॥ Vaijayantī 7.5.33
  • वैजयन्ती मण्डलउपसूर्ये कुष्ठरोगे देशे द्वादशराजके । मुचिरौ धर्मदातारौ मोदकौ खाद्यहर्षकौ ॥ ६६ ॥ Vaijayantī 7.5.66
  • वैजयन्ती जनपददेशे जने जनपदश्चन्द्रेऽर्केऽग्नौ तमोनुदः । तमोपहोऽप्यथोलूके तस्करे कुमुदाकरे ॥ २३ ॥ Vaijayantī 8.1.23