All kośas › Śabdaratnāvalī
शब्दरत्नावली Śabdaratnāvalī
4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)
नानार्थवर्गप्रकाशः · दान्ताः
इति थान्तवर्गः ॥
अब्दः सम्वत्सरे मेघे युस्तके च पयोनिधौ ॥अन्दूर्भूषणभेदे स्यान्निगडेऽपि भवेत् स्त्रियाम् ।कन्दोऽस्त्री शस्यमूले स्याच्छूरणे जलदे पुमान् ॥कुन्दो मुकुन्दे निधिभिद्भूमिष्वस्त्री तु माथ्यके ।क्षोदः स्यात्पेषणे पुंसि सन्धाने च रजस्यपि ॥गदो विष्णुभ्रातरि स्याद्व्याधौ ना चायुधे गदा ।छदः पक्षे च पत्रे च ग्रन्थिपर्णे तमालके ॥छन्दोऽभिप्रायवशयोर्वेदकिन्यामनीषयोः(?) ।नन्दिर्ना नन्दिकेश्वरद्युताङ्गानन्दयोरपि ॥नदी स्त्रियान्तु सरिति शोणादौ नदः पुमान् ।नन्दाहलिञ्जरगोर्योस्तु तिथिभेदेऽपि च स्त्रियाम् ॥पुमान्नरपतौ गोपभेदानन्दनिधिष्वपि ॥
7.18.2 · p. 228
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 श्व (wrong syllable)nearly अनुष्टुप्
निन्दा स्थियान्तु कुत्सायामपवादे च दुष्कृतौ ।पदं वाक्ये व्यवसाये शब्दप्रदेशयोरपि ॥पादे च पादचिह्णो च स्थाने त्राणे च वस्तुनि ।अङ्के च श्लोकपादे च क्लीबं स्यात्किरणे पुमान् ॥
7.18.3 · p. 229
अनुष्टुप्metre not read in every line
पादो ब्रध्ने चतुर्थांशो गिरिप्रत्यन्तपर्वते ।मयूखे चरणे वेदभागे चैव पुमानयम् ॥
7.18.4 · p. 229
अनुष्टुप्
वन्दा तु भिक्षुकी वन्द्यालताभेदेष्वपि स्त्रियाम् ।विन्दुर्दन्तक्षतभिदि भ्रूमध्ये प्रकृतावपि ॥रूपकार्थे ज्ञानशीले पृषति च पुमानयम् ।वाच्यलिङ्गो वेदितव्ये भन्दं(?) मङ्गलशर्मणोः ॥
7.18.5 · p. 229
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 2 ष (wrong syllable)
भेदो विदारणे द्वैधे स्याद्विशेषोपजापयोः ।मदो गर्वे च कस्तूर्यां वीर्ये च हर्षदानयोः ॥मन्दः स्वैरे च तीक्ष्णे च मूर्खे चाभाग्यरोगिणोः ।अल्पे च त्रिषु पुंसि स्यात्कविजात्यान्तरे शतौ ॥
7.18.6 · p. 229
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
स्वादुर्मिष्टे मनोज्ञे च सूदो व्यञ्जने पाचके ।स्वेदो घर्मस्वेदनयो हृत्क्लीबं चित्तबुक्कयोः ॥
7.18.8 · p. 229
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ने (wrong syllable)
अङ्गदः कपिभेदे स्यात्केयूरेऽपि च नद्वयोः ।अङ्गदा दक्षदिग्दत्तिहस्तिन्यामपि च स्त्रियाम् ॥अर्द्धेन्दुरर्द्धशीतांशौ गलहस्ते नखाङ्किते ॥
7.18.9 · p. 229
अनुष्टुप्
अर्द्धेन्दुः स्यादतिप्रौढस्त्रीयोन्यङ्गुलियोजने ।अर्बुदो मांसरुग्भेदसंख्यापर्वतभित्सु च ॥
7.18.10 · p. 229
अनुष्टुप्
आसन्दः केशवे पुंसि खट्वाभेदेऽपि च स्त्रियाम् ।आक्रन्दस्तु नेत्राचर्याह्वाने क्रन्दनमित्रयोः ॥
7.18.11 · p. 229
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ने (wrong syllable)
आमोदः पुंसि हर्षे च गन्धे च सुमहत्यपि ।ककुदोऽस्त्री ककुत्स्त्री तु वृषाङ्गे च धजेवरे ।क्षणदो गणके पुंसि रात्रौ स्त्री क्लीबमहति ॥
7.18.12 · p. 229
अनुष्टुप्metre not read in every line
कपर्दाः स्यात्पशुपतिजटाजूटे वराटके ।कर्णान्दु कर्णयाक्ष्यान्तु स्त्रियामुत्क्षिप्तिकासु च ॥कामदा स्त्री कामधेनौ वाच्यवत्कामदातरि ।कुमुदं कैरषे रक्तपद्मे पुंसि तु दिग्गजे ॥नागे वानरभेदे स्त्रीगर्भ्भायां कुम्भिकौषधौ ।गोष्पदं गोपदच्छिद्रे तथा गोगतिगोचरे ॥गोविन्दस्तु गवाध्यक्षे केशवे च बृहस्पतौ ॥
7.18.13 · p. 229
अनुष्टुप्
गानर्दं सारसे क्लीबं कैवर्तीमुस्तकेऽपि च ।जलदो मुस्तके मेघे जीवदो वैरिवैद्ययोः ॥
7.18.14 · p. 230
अनुष्टुप्
तरत्प्लवे स्त्रियामेव कारण्डविहायसि ।दरत्प्रपाते भीतौ च रोगभेदे च पर्वते ॥दारदः पारदे पुंसि विषभेदे च हिङ्गुले ।दायादस्तनये पुंसि सपिण्डे च सगोत्रके ॥नलदं स्यादूशीरे च मांस्यां पुष्परसेऽपि च ॥
7.18.15 · p. 230
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
नर्मदा स्त्री नदीभेदे स्यात्केलिसचिवे पुमान् ।निर्वादो लोकवादे स्याद् वादे च परितिष्ठिते ॥
7.18.16 · p. 230
अनुष्टुप्
निषादः स्याचु चण्डाले धीवरस्वरभेदयोः ।प्रमदोत्तमकायायां पुमान् सम्मदमत्तयोः ।प्रसादोऽनुग्रहे काव्यगुणे स्वास्थ्ये प्रसादिते ॥
7.18.17 · p. 230
अनुष्टुप्
प्रणादस्तारशब्दे स्यात्पुंलिङ्गः श्रवणामये ।भसद्भास्करयोन्योः स्त्रीमर्यादासीम्नि संस्थितौ ॥
7.18.18 · p. 230
अनुष्टुप्
माकन्दी नगरीधाल्योः पुंसि स्यादाम्रनूरुहे ।मुकुन्दः कृष्णनिधिभिद्रत्नभित्कुन्दुरुष्वपि ॥
7.18.19 · p. 230
अनुष्टुप्
मेनादो दीनमार्जारमयूरच्छागलेषु च ।विशदो धवले व्यक्रे शरत्स्त्री ऋतुवर्षयोः ॥
7.18.20 · p. 230
अनुष्टुप्
शारदी तोयपिप्पल्यां सप्तपर्णमहीरुहे ।शस्ये क्लीबं पुंसि वर्षे नूत्ने शरद्भवे त्रिषु ॥
7.18.21 · p. 230
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
षड्बिन्दुः पुण्डरीकाक्षे कीरभेदे च पुंस्ययम् ।सम्पत्स्त्री तु गुणोत्कर्षहारभेदविभूतिषु ॥सम्बित् ज्ञाने प्रतिज्ञायामाचारे युधितोषणे ।क्रियाकारे समाधौ च तथा सम्भाषणे स्त्रियाम् ॥
7.18.22 · p. 230
अनुष्टुप्
स्यादभिष्यन्द आम्राव-चक्षुर्गदातिवृद्धिषु ।अष्टापदोऽस्त्री स्वर्गेस्यात्तथा शारिफलेष्वपि ॥
7.18.23 · p. 230
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्ग (wrong syllable)
अष्टापदी चन्द्रमाल्यां मर्कटे शरभे पुमान् ।अववादः समाज्ञायां निन्दाविश्रम्भयोरपि ॥
7.18.24 · p. 230
अनुष्टुप्
अभिमर्दः सम्परायेऽप्यवमर्दे च पुंस्ययम् ।कटुकन्दः शृङ्गवेरे रसोने शिप्रके पुमान् ॥
7.18.25 · p. 230
अनुष्टुप्
तमोनुदनले सूर्ये दीपे हिमकरे पुमान् ।प्रतिपत्तिथिभेदे स्याच्चेतनायामपि स्त्रियाम् ॥
7.18.26 · p. 230
अनुष्टुप्
परिवादोऽभिशापे स्याद् वीणावादनवस्तुनि ।प्रियम्वदः खेचरे ना वाच्यवत् प्रियभाषिणि ॥
7.18.27 · p. 230
अनुष्टुप्
पीठमर्दो नायके स्यात्सचिवे चातिधृष्टके ।पुटभेदो नदीवक्रे आतोद्ये पत्तने पुमान् ॥महानादो वर्षुकाब्दे कुञ्जरे स्यान्महास्वने ।मेघनादस्त्विन्द्रजिति प्रचेतसि भवेत्पुमान् ॥
7.18.28 · p. 231
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 स्त्वि (wrong syllable)
विशारदः पुंसि धृष्टे पण्डितेऽपि भवेत्पुमान् ।भवेद्विष्णुपदं खेतु क्षीरोदेऽपि च न द्वयोः ॥तथा भागिरथी सूर्यसंक्रान्तिभेदयोः स्त्रियाम् ।शतानन्दः पुमान् कृष्णे मुनि भेदे च पुंस्ययम् ॥भवेच्छतह्रदा वज्रे सौदामन्यामपि स्त्रियाम् ।समर्यादः समीपे ना मर्यादासंयुते त्रिषु ॥
7.18.29 · p. 231
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्ति (wrong syllable)