कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

चिरंतन

ciraṃtanaवि · adj.

In 4 kośas: 4 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.101 · p. 55
नवं नवीनं सद्यस्कं प्रत्यग्रं नूत्ननूतने ।नव्यं चाभिनवे जीर्णे पुरातनं चिरंतनम् ॥ १४४८ ॥पुराणं प्रतनं प्रत्नं जरन्मूर्तं तु मूर्तिमत् ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.5 · p. 22
चिरंतनं यातयामं तत्पटच्चरमित्यपि ।अवशिष्टं च[शिष्टं]च तथोर्वरितमित्यपि ।अधिकं त्वतिरिक्तं स्यादूनं न्यूनं च हीनवत् ॥ ५ ॥
अनुष्टुप्metre not read in every line
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.336 · p. 93
सद्यस्कं नूतने नूत्नं नवीनं नव्यनामकम् ।प्रत्यग्राभिनवे जीर्णं पुरातनचिरंतने ॥ ३३६ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1628 · p. 196
नव्यो नवीनः प्रत्यग्रः पुराणस्तु पुरातनः ।प्राक्तनः प्रतनः प्रत्नः स्याच्चिरंतन इत्यपि ॥ १६२८ ॥
अनुष्टुप्
genderविadj.