कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Abhidhānacintāmaṇi

अभिधानचिन्तामणि Abhidhānacintāmaṇi

1,988 verses · 12,741 words tagged · 2,473 marked doubtful (dashed)

सामान्यकाण्डः (1/2)

इत्याचार्यहेमचन्द्रविरचितायामभिधानचिन्तामणौ नाममालायां नरककाण्डः पञ्चमः ॥ ५ ॥

स्याल्लोको विष्टपं विश्वं भुवनं जगती जगत् ।
6.1 · p. 52
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 धा (wrong syllable)
जीवाजीवाधारक्षेत्रं लोकोऽलोकस्ततोऽन्यथा ॥ १३६५ ॥
6.1365 · p. 52
अनुष्टुप्metre not read in every line
क्षेत्रज्ञ आत्मा पुरुषश्चेतनः स पुनर्भवी ।जीवः स्यादसुमान्सत्वं देहभृज्जन्युजन्तवः ॥ १३६६ ॥
6.1366 · p. 52
अनुष्टुप्
उत्पत्तिर्जन्मजनुषी जननं जनिरुद्भवः ।
6.4 · p. 52
अनुष्टुप्
जीवेऽसुजीवितप्राणा जीवातुर्जीवनौषधम् ॥ १३६७ ॥
6.1367 · p. 52
अनुष्टुप्
श्वासस्तु श्वसितं सोऽन्तर्मुख उच्छ्वास आहारः ।आनो बहिर्मुखस्तु स्यान्निःश्वासः पान एतनः ॥ १३६८ ॥
6.1368 · p. 52
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 हा (wrong syllable)
आयुर्जीवितकालोऽन्तःकरणं मानसं मनः ।हृच्चेतो हृदयं चित्तं स्वान्तं गूढपथोच्चले ॥ १३६९ ॥
6.1369 · p. 52
अनुष्टुप्
मनसः कर्म संकल्पः स्यादथो शर्म निर्वृतिः ।सातं सौख्यं सुखं दुःखं त्वसुखं वेदना व्यथा ॥ १३७० ॥पीडा बाधार्तिराभीलं कृच्छ्रं कष्टं प्रसूतिजम् ।आमनस्यं प्रगाढं स्यादाधिः स्यान्मानसी व्यथा ॥ १३७१ ॥
6.1371 · p. 52
अनुष्टुप्
सपत्त्राकृतिनिष्पत्त्राकृती त्वत्यन्तपीडने ।
6.9 · p. 52
अनुष्टुप्
क्षुज्जाठराग्निजा पीडा व्यापादो द्रोहचिन्तनम् ॥ १३७२ ॥
6.1372 · p. 52
अनुष्टुप्
उपज्ञा ज्ञानमाद्यं स्याच्चर्चा संख्या विचारणा ।
6.11 · p. 52
अनुष्टुप्
वासना भावना संस्कारोऽनुभूताद्यविस्मृतिः ॥ १३७३ ॥
6.1373 · p. 52
अनुष्टुप्
निर्णयो निश्चयोऽन्तः संप्रधारणा समर्थनम् ।
6.13 · p. 52
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable); pāda 3, syllable 5 म (wrong syllable)
अविद्याहंमत्यज्ञाने भ्रान्तिर्मिथ्यामतिर्भ्रमः ॥ १३७४ ॥
6.1374 · p. 52
metre not recognised
संदेहद्वापरारेका विचिकित्सा तु संशयः ।
6.15 · p. 52
अनुष्टुप्
परभागो गुणोत्कर्षो दोषे त्वादीनवास्रवौ ॥ १३७५ ॥
6.1375 · p. 52
अनुष्टुप्
स्वाद्रूपं लक्षणं भावश्चात्मप्रकृतिरीतयः ।सहजो रूपतत्त्वं च धर्मः सर्गो निसर्गवत् ॥ १३७६ ॥शीलं सतत्त्वं संसिद्धिरवस्था तु दशा स्थितिः ।
6.17 · p. 52
अनुष्टुप्
स्नेहः प्रीतिः प्रेम हार्दे दाक्षिण्यं त्वनुकूलता ॥ १३७७ ॥
6.1377 · p. 52
अनुष्टुप्
विप्रतिसारोऽनुशयः पश्चात्तापोऽनुतापश्च ।
6.19 · p. 52
उपगीतिः
अवधानसमाधानप्रणिधानानि तु समाधौ स्युः ॥ १३७८ ॥
6.1378 · p. 52
उपगीतिः
धर्मः पुण्यं वृषः श्रेयः सुकृते नियतौ विधिः ।दैवं भाग्यं भागधेयं दिष्टं चायस्तु तच्छुभम् ॥ १३७९ ॥
6.1379 · p. 52
अनुष्टुप्
अलक्ष्मीर्निरृतिः कालकर्णिका स्यादथाशुभम् ।दुष्कृतं दुरितं पापमेनः पाप्मा च पातकम् ॥ १३८० ॥किल्बिषं कलुषं किण्वं कल्मषं वृजिनं तमः ।अंहः कल्कमघं पङ्क उपाधिर्धर्मचिन्तनम् ॥ १३८१ ॥
6.1381 · p. 52
अनुष्टुप्
त्रिवर्गा धर्मकामार्थाश्चतुर्वर्गः समोक्षकाः ।बलतूर्याश्चतुर्भद्रं प्रमादोऽनवधानता ॥ १३८२ ॥
6.1382 · p. 52
अनुष्टुप्
छन्दोऽभिप्राय आकूतं मतभावाशया अपि ।
6.24 · p. 52
अनुष्टुप्
हृषीकमक्षं करणं स्रोतः खं विषयीन्द्रियम् ॥ १३८३ ॥
6.1383 · p. 52
अनुष्टुप्
बुद्धीन्द्रियं स्पर्शनादि पाण्यादि तु क्रियेन्द्रियम् ।
6.26 · p. 52
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
स्पर्शादयस्त्विन्द्रियार्था विषया गोचरा अपि ॥ १३८४ ॥
6.1384 · p. 52
metre not recognised
शीते तुषारः शिशिरः सुशीमः शीतलो जडः ।हिमोऽथोष्णे तिग्मस्तीक्ष्णस्तीव्रश्चण्डः खरः पटुः ॥ १३८५ ॥
6.1385 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ति (wrong syllable)
कोष्णः कवोष्णः कदुष्णो मन्दोष्णश्चेषदुष्णवत् ।
6.29 · p. 53
अनुष्टुप्
निष्ठुरः कक्खटः क्रूरः परुषः कर्कशः खरः ॥ १३८६ ॥दृढः कठोरः कठिनो जरठः कोमलः पुनः ।मृदुलो मृदुसोमालसुकुमारा अकर्कशः ॥ १३८७ ॥
6.1387 · p. 53
अनुष्टुप्
मधुरस्तु रसज्येष्ठो गुल्यः स्वादुर्मधूलकः ।
6.31 · p. 53
अनुष्टुप्
अम्लस्तु पाचनो दन्तशठोऽथ लवणं सरः ॥ १३८८ ॥सर्वरसोऽथ कटुः स्यादोषणो मुखशोधनः ।
6.32 · p. 53
अनुष्टुप्metre not read in every line
वक्त्रभेदी तु तिक्तोऽथ कषायस्तुवरो रसाः ॥ १३८९ ॥
6.1389 · p. 53
अनुष्टुप्metre not read in every line
गन्धो जनमनोहारी सुरभिर्घ्राणतर्पणः ।समाकर्षी तु निर्हारी स आमोदो विदूरगः ॥ १३९० ॥
6.1390 · p. 53
अनुष्टुप्
विमर्दोत्थः परिमलोऽथामोदी मुखवासनः ।इष्टगन्धः सुगन्धिश्च दुर्गन्धः पूतिगन्धिकः ॥ १३९१ ॥
6.1391 · p. 53
अनुष्टुप्
आमगन्धि तु विस्रं स्याद्वर्णाः श्वेतादिका अमी ।
6.36 · p. 53
अनुष्टुप्
श्वेतः श्येतः सितः शुक्लो हरिणो विशदः शुचिः ॥ १३९२ ॥अवदातगौरशुभ्रवलक्षधवलार्जुनाः ।पाण्डुरः पाण्डरः पाण्डुरीषत्पाण्डुस्तु धूसरः ॥ १३९३ ॥
6.1393 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त (wrong syllable)
कापोतस्तु कपोताभः पीतस्तु सितरञ्जनः ।हारिद्रः पीतलो गौरः पीतनीलः पुनर्हरित् ॥ १३९४ ॥पालाशो हरितस्तालकाभो रक्तस्तु रोहितः ।माञ्जिष्ठो लोहितः शोणः श्वेतरक्तस्तु पाटलः ॥ १३९५ ॥
6.1395 · p. 53
अनुष्टुप्
अरुणो बालसंध्याभः पीतरक्तस्तु पिञ्जरः ।कपिलः पिङ्गलः श्यावः पिशङ्गः कपिशो हरिः ॥ १३९६ ॥बभ्रुः कद्रुः कडारश्च पिङ्गे कृष्णस्तु मेचकः ।स्याद्रामः श्यामलः श्यामः कालो नीलोऽसितः शितिः ॥ १३९७ ॥
6.1397 · p. 53
अनुष्टुप्
रक्तश्यामे पुनर्धूम्रधूमलावथ कर्बुरः ।किर्मीर एतः शबलश्चित्रकल्माषचित्रलाः ॥ १३९८ ॥
6.1398 · p. 53
अनुष्टुप्
शब्दो निनादो निर्घोषः स्वानो ध्वानः स्वरो ध्वनिः ।निह्रादो निनदो ह्रादो निस्वानो निस्वनः स्वनः ॥ १३९९ ॥रवो नादः स्वनिर्घोषः संव्याङ्भ्यो राव आरवः ।क्वणनं निक्वणः क्वाणो निक्वाणश्च क्वणो रणः ॥ १४०० ॥
6.1400 · p. 53
अनुष्टुप्
षड्ज ऋषभगान्धारा मध्यमः पञ्चमस्तथा ।धैवतो निषधः सप्त तन्त्रीकण्ठोद्भवाः स्वराः ॥ १४०१ ॥ते मन्द्रमध्यताराः स्युरुरःकण्ठशिरोद्भवाः ।
6.42 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ऋ (wrong syllable)
रुदितं क्रन्दितं क्रुष्टं तदपुष्टं तु गह्वरम् ॥ १४०२ ॥
6.1402 · p. 53
अनुष्टुप्
शब्दो गुणानुरागोत्थः प्रणादः सीत्कृतं नृणाम् ।
6.44 · p. 53
अनुष्टुप्
पर्दनं गुदजे शब्दे कर्दनं कुक्षिसंभवे ॥ १४०३ ॥
6.1403 · p. 53
अनुष्टुप्
क्ष्वेडा तु सिंहनादोऽथ क्रन्दनं सुभटध्वनिः ।
6.46 · p. 53
अनुष्टुप्
कोलाहलः कलकलस्तुमुलो व्याकुलो रवः ॥ १४०४ ॥
6.1404 · p. 53
अनुष्टुप्
मर्मरो वस्रपत्रादेर्भूषणानां तु शिञ्जितम् ।
6.48 · p. 53
अनुष्टुप्
हेषा ह्रेषा तुरंगाणां गजानां गर्जबृंहिते ॥ १४०५ ॥
6.1405 · p. 53
अनुष्टुप्
विस्फारो धनुषां हंभारम्भे गोर्जलदस्य च ।स्तनितं गर्जितं गर्जिः स्वनितं रसितादि च ॥ १४०६ ॥
6.1406 · p. 53
अनुष्टुप्
कूजितं स्याद्विहंगानां तिरश्चां रतवाशिते ।
6.51 · p. 53
अनुष्टुप्
वृकस्य रेषणं रेषा बुक्कनं भषणं शुनः ॥ १४०७ ॥
6.1407 · p. 53
अनुष्टुप्
पीडितानां तु कणितं मणितं रतकूजितम् ।
6.53 · p. 53
अनुष्टुप्
प्रक्वाणः प्रक्वणस्तन्त्र्या मर्दलस्य तु गुन्दलः ॥ १४०८ ॥
6.1408 · p. 53
अनुष्टुप्
क्षीजनं तु कीचकानां भेर्या नादस्तु दर्दुरः ।
6.55 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
तारोऽत्युच्चैर्ध्वनिर्मन्द्रो गम्भीरो मधुरः कलः ॥ १४०९ ॥
6.1409 · p. 53
अनुष्टुप्metre not read in every line
काकली तु कलः सूक्ष्म एकतालो लयानुगः ।
6.57 · p. 53
अनुष्टुप्
काकुर्ध्वनिविकारः स्यात्प्रतिश्रुत्तु प्रतिध्वनिः ॥ १४१० ॥
6.1410 · p. 53
अनुष्टुप्
संघाते प्रकरौघवारनिकरव्यूहाः समूहश्चयःसंदोहः समुदायराशिविसरव्राताः कलापो व्रजः ।कूटं मण्डलचक्रवालपटलस्तोमा गणः पेटकंवृन्दं चक्रकदम्बके समुदयः पुञ्जोत्करौ संहतिः ॥ १४११ ॥समवायो निकुरम्बं जालं निवहसंचयौ ।जातं तिरश्चां तद्यूथं संघसार्थौ तु देहिनाम् ॥ १४१२ ॥
6.1412 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 कु (wrong syllable)
कुलं तेषां सजातीनां निकायस्तु सधर्मिणाम् ।
6.60 · p. 53
अनुष्टुप्
वर्गस्तु सदृशां स्कन्धो नरकुञ्जरवाजिनाम् ॥ १४१३ ॥
6.1413 · p. 53
अनुष्टुप्
ग्रामो विषयशब्दास्त्रभूतेन्द्रियगुणाद्व्रजे ।
6.62 · p. 54
अनुष्टुप्
समजस्तु पशूनां स्यात्समाजस्त्वन्यदेहिनाम् ॥ १४१४ ॥
6.1414 · p. 54
अनुष्टुप्
शुकादीनां गणे शौकमायूरतैत्तिरादयः ।
6.64 · p. 54
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable); pāda 4, syllable 3 ण (wrong syllable)
भिक्षादेर्भैक्षसाहस्रगार्भिणयौवतादयः ॥ १४१५ ॥
6.1415 · p. 54
metre not recognised
गोत्रार्थप्रत्ययान्तानां स्युरौपगविकादयः ।
6.66 · p. 54
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
उक्षादेरौक्षक मानुष्यकं वार्द्धकमौष्ट्रकम् ॥ १४१६ ॥स्याद्राजपुत्रकं राजन्यकं राजकमाजकम् ।वात्सकौरभ्रके कावचिकं कवचिनामपि ॥ १४१७ ॥
6.1417 · p. 54
अनुष्टुप्metre not read in every line
हास्तिकं तु हस्तिनां स्यादापूपिकाद्यचेतसाम् ।
6.68 · p. 54
अनुष्टुप्metre not read in every line
धेनूनां धैनुकं धेन्वन्तानां गौधेनुकादयः ॥ १४१८ ॥
6.1418 · p. 54
अनुष्टुप्metre not read in every line
कैदारकं कैदारिकं कैदार्यमपि तद्गणे ।
6.70 · p. 54
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 दा (wrong syllable); pāda 3, syllable 5 र्ब्रा (wrong syllable)
ब्राह्मणादेर्ब्राह्मण्यं माणव्यं वाडव्यमित्यपि ॥ १४१९ ॥
6.1419 · p. 54
metre not recognised
गणिकानां तु गाणिक्यं केशानां कैश्यकैशिके ।
6.72 · p. 54
अनुष्टुप्
अश्वानाआश्वमश्वीयं पर्शूनां पार्श्वमप्यथ ॥ १४२० ॥
6.1420 · p. 54
अनुष्टुप्
वातूलवात्ये वातानां गव्यागोत्रे पुनर्गवाम् ।
6.74 · p. 54
अनुष्टुप्
पाश्याखल्यादि पाशादेः खलादेः खलिनीनिभाः ॥ १४२१ ॥
6.1421 · p. 54
अनुष्टुप्
जनता बन्धुता ग्रामता गजता सहायता ।
6.76 · p. 54
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ज (wrong syllable)
जनादीनां रथानां तु स्याद्रथ्या रथकट्यया ॥ १४२२ ॥
6.1422 · p. 54
अनुष्टुप्metre not read in every line
राजिर्लेखा ततिर्वीथी मालाल्यावलिपङ्क्तयः ।धोरणीश्रेण्युभौ तु द्वौ युगलं द्वितयं द्वयम् ॥ १४२३ ॥युगं द्वैतं यमं द्वन्द्वं युग्मं यमलयामले ।
6.78 · p. 54
अनुष्टुप्
पशुभ्यो गोयुगं युग्मपरं षट्त्वे तु षड्गवम् ॥ १४२४ ॥
6.1424 · p. 54
अनुष्टुप्
परःशताद्यास्ते येषां परा संख्या शतादिकात् ।प्राज्यं प्रभूतं प्रचुरं बहुलं बहु पुष्कले ॥ १४२५ ॥भूयिष्ठं पुरुहं भूयो भूर्यदभ्रं पुरु स्फिरम् ।
6.80 · p. 54
अनुष्टुप्
स्तोकं क्षुल्लं तुच्छमल्पं दभ्राणुतलिनानि च ॥ १४२६ ॥तनु क्षुद्रं कृशं सूक्ष्मं पुनः श्लक्ष्णं च पेलवम् ।
6.81 · p. 54
अनुष्टुप्
त्रुटौ मात्रा लवो लेशः कणो ह्रस्वं पुनर्लघु ॥ १४२७ ॥
6.1427 · p. 54
अनुष्टुप्
अत्यल्पेऽल्पिष्ठमल्पीयः कणीयोऽणीय इत्यपि ।
6.83 · p. 54
अनुष्टुप्
दीर्घायते समे तुङ्गमुच्चमुन्नतमुद्धुरम् ॥ १४२८ ॥प्रांशूच्छ्रितमुदग्रं च न्यङ्नीचं ह्रस्वमन्थरे ।खर्वं कुब्जं वामनं च विशालं तु विशङ्कटम् ॥ १४२९ ॥पृथूरु पृथुलं व्यूढं विकटं विपुलं बृहत् ।स्फारं वरिष्ठं विस्तीर्णं ततं बहु महद्गुरुः ॥ १४३० ॥
6.1430 · p. 54
अनुष्टुप्
दैर्घ्यमायाम आनाह आरोहस्तु समुच्छ्रयः ।उत्सेध उदयोच्छ्रायौ परिणाहो विशालता ॥ १४३१ ॥
6.1431 · p. 54
अनुष्टुप्
प्रपञ्चाभोगविस्तारव्यासाः शब्दे स विस्तरः ।
6.86 · p. 54
अनुष्टुप्
समासस्तु समाहारः संक्षेपः संग्रहोऽपि च ॥ १४३२ ॥
6.1432 · p. 54
अनुष्टुप्
सर्वं समस्तमन्यूनं समग्रं सकलं समम् ।विश्वाशेषाखण्डकृत्स्नन्यक्षाणि निखिलाखिले ॥ १४३३ ॥
6.1433 · p. 54
अनुष्टुप्
खण्डेऽर्धशकले भित्तं नेमशल्कदलानि च ।
6.89 · p. 54
अनुष्टुप्
अंशो भागश्च वण्टः स्यात्पादस्तु स तुरीयकः ॥ १४३४ ॥
6.1434 · p. 54
अनुष्टुप्
मलिनं कच्चरं म्लानं कश्मलं च मलीमसम् ।
6.91 · p. 54
अनुष्टुप्
पवित्रं पावनं पूतं पुण्यं मेध्यमथोज्ज्वलम् ॥ १४३५ ॥विमलं विशदं वीध्रमवदातमनाविलम् ।विशुद्धं शुचि चोक्षं तु निःशोध्यमनवस्करम् ॥ १४३६ ॥
6.1436 · p. 54
अनुष्टुप्
निर्णिक्तं शोधितं मृष्टं धौतं क्षालितमित्यपि ।
6.93 · p. 54
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न (wrong syllable)
सम्मुखीनमभिमुखं पराचीनं पराङ्मुखम् ॥ १४३७ ॥
6.1437 · p. 54
अनुष्टुप्metre not read in every line
मुख्यं प्रकृष्टं प्रमुखं प्रबर्हं वर्यं वरेण्यं प्रवरं पुरोगम् ।अनुत्तरं प्राग्रहरं प्रवेकं प्रधानमग्रेसरमुत्तमाग्रे ॥ १४३८ ॥ग्रामण्यग्रण्यग्रिमजात्याग्र्यानुत्तमान्यनवरार्ध्यवरे ।प्रेष्ठपरार्ध्यपराणि श्रेयसि तु श्रेष्ठसत्तमे पुष्कलवत् ॥ १४३९ ॥
6.1439 · p. 54
metre not recognised
स्युरुत्तरपदे व्याघ्रपुंगवर्षभकुञ्जराः ।सिंहशार्दूलनागाद्यास्तल्लजश्च मतल्लिका ॥ १४४० ॥मचर्चिका प्रकाण्डोद्घौ प्रशस्यार्थप्रकाशकाः ।
6.96 · p. 54
अनुष्टुप्
गुणोपसर्जनोपाग्र्याण्यप्रधानेऽधमं पुनः ॥ १४४१ ॥निकृष्टमणकं गर्ह्यमवद्यं काण्डकुत्सिते ।अपकृष्टं प्रतिकृष्टं याप्यं रेफोऽवमं ब्रुवम् ॥ १४४२ ॥खेटं पापमपशदं कुपूयं चेलमर्व च ।
6.97 · p. 54
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 4 प (wrong syllable)
तदासेचनकं यस्य दर्शनाद्दृग्न तृप्यति ॥ १४४३ ॥
6.1443 · p. 54
अनुष्टुप्metre not read in every line
चारु हारि रुचिरं मनोहरं वल्गु कान्तमभिरामबन्धुरे ।वामरुच्यसुषमाणि शोभनं मञ्जुमञ्जुलमनोरमाणि च ॥ १४४४ ॥साधुरम्यमनोज्ञानि पेशलं हृद्यसुन्दरे ।काम्यं कम्रं कमनीयं सौम्यं च मधुरं प्रियम् ॥ १४४५ ॥
6.1445 · p. 55
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
व्युष्टिः फलमसारं तु फल्गु शून्यं तु रिक्तकम् ।शुन्यं तुच्छं वशिकं च निबिडं तु निरन्तरम् ॥ १४४६ ॥निबिरीसं घनं सान्द्रं नीरन्ध्रं बहलं दृढम् ।गाढमविरलं चाथ विरलं तनु पेलवम् ॥ १४४७ ॥
6.1447 · p. 55
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 शि (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
नवं नवीनं सद्यस्कं प्रत्यग्रं नूत्ननूतने ।नव्यं चाभिनवे जीर्णे पुरातनं चिरंतनम् ॥ १४४८ ॥पुराणं प्रतनं प्रत्नं जरन्मूर्तं तु मूर्तिमत् ।
6.101 · p. 55
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
उच्चावचं नैकभेदमतिरिक्ताधिके समे ॥ १४४९ ॥
6.1449 · p. 55
अनुष्टुप्
पार्श्वं समीपं सविधं ससीमाभ्याशं सवेशान्तिकसंनिकर्षः ।सदेशमभ्यग्रसनीडसंनिधानान्युपान्तं निकटोपकण्ठे ॥ १४५० ॥संनिकृष्टसमर्यादाभ्यर्णान्यासन्नसंनिधी ।
6.103 · p. 55
अनुष्टुप्metre not read in every line
अव्यवहितेऽनन्तरं संसक्तमपटान्तरम् ॥ १४५१ ॥
6.1451 · p. 55
अनुष्टुप्metre not read in every line
नेदिष्ठमन्तिकतमं विप्रकृष्टपरे पुनः ।दूरेऽतिदूरे दविष्ठं दवीयोऽथ सनातनम् ॥ १४५२ ॥शाश्वतानश्वरे नित्यं ध्रुवं स्थेयस्त्वतिस्थिरम् ।स्थास्नु स्थेष्ठं तत्कूटस्थं कालव्याप्येकरूपतः ॥ १४५३ ॥
6.1453 · p. 55
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त (wrong syllable)
स्थावरं तु जङ्गमान्यज्जङ्गमं तु त्रसं चरम् ।चराचरं जगदिङ्गं चरिष्णुश्चाथ चञ्चलम् ॥ १४५४ ॥तरलं कम्पनं कम्प्रं परिप्लवचलाचले ।चटुलं चपलं लोलं चलं पारिप्लवास्थिरे ॥ १४५५ ॥
6.1455 · p. 55
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable); pāda 3, syllable 6 ग (wrong syllable)
ऋजावजिह्मप्रगुणाववाग्रेऽवनतानते ।
6.107 · p. 55
अनुष्टुप्
कुञ्चितं नतमाविद्धं कुटिले वक्रवेल्लिते ॥ १४५६ ॥वृजिनं भङ्गुरं भुग्नमरालं जिह्ममूर्मिमत् ।
6.108 · p. 55
अनुष्टुप्
अनुगेऽनुपदान्वक्षान्वञ्च्येकाक्येक एककः ॥ १४५७ ॥
6.1457 · p. 55
अनुष्टुप्
एकात्तानायनसर्गाग्राण्यैकाग्रं च तद्गतम् ।अनन्यवृत्यैकायतनगतं चाथाद्यमादिमम् ॥ १४५८ ॥पौरस्त्यं प्रथमं पूर्वमादिरग्रमथान्तिमम् ।जघन्यमन्त्यं चरममन्तपाश्चात्त्यपश्चिमे ॥ १४५९ ॥
6.1459 · p. 55
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 न (wrong syllable)
मध्यमं माध्यमं मध्यमीयं माध्यंदिनं च तत् ।
6.111 · p. 55
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
अभ्यन्तरमन्तरालं विचाले मध्यमन्तरे ॥ १४६० ॥
6.1460 · p. 55
अनुष्टुप्metre not read in every line
तुल्यः समानः सदृक्षः सरूपः सदृशः समः ।साधारणसधर्माणौ सवर्णः संनिभः सदृक् ॥ १४६१ ॥
6.1461 · p. 55
अनुष्टुप्
स्युरुत्तरपदे प्रख्यः प्रकारः प्रतिमो निभः ।भूतरूपोपमाः काशः संनीप्रप्रतीतः परः ॥ १४६२ ॥
6.1462 · p. 55
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ती (wrong syllable)
औपम्यमनुकारोऽनुहारः साम्यं तुलोपमा ।कक्षोपमानमर्चा तु प्रतेर्मा यातना निधिः ॥ १४६३ ॥छाया छन्दः कायो रूपं बिम्बं मानकृती अपि ।
6.115 · p. 55
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
सूर्मी स्थूणायःप्रतिमा हरिणी स्याद्धिरण्मयी ॥ १४६४ ॥
6.1464 · p. 55
अनुष्टुप्metre not read in every line
प्रतिकूलं तु विलोममपसव्यमपष्ठुरम् ।वामं प्रसव्यं प्रतीपं प्रतिलोममपष्टु च ॥ १४६५ ॥
6.1465 · p. 55
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 वि (wrong syllable)
वामं शरीरेऽङ्गं सव्यमपसव्यं तु दक्षिणम् ।
6.118 · p. 55
अनुष्टुप्
अबाधोच्छृङ्खलोद्दामानियन्त्रितमनर्गलम् ॥ १४६६ ॥निरङ्कुशे स्फुटे स्पष्टं प्रकाशं प्रकटोल्बणे ।व्यक्तं वर्तुलं तु वृत्तं निस्तलं परिमण्डलम् ॥ १४६७ ॥
6.1467 · p. 55
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्तु (wrong syllable)
बन्धुरं तून्नतानतं स्थपुटं विषमोन्नतम् ।
6.120 · p. 55
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 न (wrong syllable)