All kośas › Śabdaratnākara
शब्दरत्नाकर Śabdaratnākara
2,335 verses · 19,015 words tagged · 2,063 marked doubtful (dashed)
तृतीयः काण्डः · विशेष्यनिघ्नाध्यायः (1/2)
इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे शूद्राध्यायो द्वाविंशः ॥
ब्रह्मक्षत्रियविट्च्छूद्राः साङ्गोपाङ्गैः समीरिताः ।विशेष्यनिघ्नैरध्यायः पदैरत्राभिधास्यते ॥ १५७१ ॥
3.6.1571 · p. 190
अनुष्टुप्
कुशलप्रवीणकृतमुखशिक्षितकृतकर्मनिपुणनिष्णाताः ।पटुचतुरदक्षपेशलवैज्ञानिकविज्ञसुकलसूत्थानाः ॥ १५७२ ॥
3.6.1572 · p. 190
गीतिः
अर्घ्यः परार्घ्यः प्रवरो वरेण्यः प्राग्र्यः प्रवेकः प्रमुखः प्रकृष्टः ।अनुत्तमः प्राग्रसरः प्रबर्हः श्रेष्ठोत्तमाग्रीयवरिष्ठवर्याः ॥ १५७३ ॥
3.6.1573 · p. 190
उपजातिः
ऋषभः कुञ्जरः सिंहः शार्दूलो व्याघ्रपुंगवौ ।नाग इत्यादयः पुंसि श्रेष्ठार्थाः स्युः पदात् परे ॥ १५७४ ॥
3.6.1574 · p. 190
अनुष्टुप्
नीचे निहीनापशदपामरेतरबर्बराः ।विवर्णः क्षुल्लको जाल्मः प्राकृतश्च पृथग्जनः ॥ १५७५ ॥
3.6.1575 · p. 190
अनुष्टुप्
त्रस्तश्चकितो दरितो भीतो विग्नो विशङ्कितस्त्रस्नुः ।कातरभीरुकभीलुकभीरव एकादशाधीरे ॥ १५७६ ॥
3.6.1576 · p. 190
आर्याmetre not read in every line
धीरे धृष्णुवियातौ धृष्णग्दधृषौ प्रगल्भधृष्ठौ च ।क्रोधनमर्षणकुपितक्रुद्धा रुष्टोऽतिकोपनश्चण्डः ॥ १५७७ ॥
3.6.1577 · p. 190
गीतिः
क्षन्ता क्षमी तितिक्षुः क्षमिता मर्षी तितिक्षिता सोढा ।मर्षणसहिष्णुसहना विक्लवशालीनविह्वलास्तु समाः ॥ १५७८ ॥
3.6.1578 · p. 190
गीतिः
पूजितमञ्चितमर्चितमपचितमपचायितं महितम् ।मानितमर्हितनमसितनमस्यिताराधिताभिराद्धानि ॥ १५७९ ॥
3.6.1579 · p. 190
उद्गीतिः
वरिवसिते परिवस्यितमुपासितमुपचरितपरिचरिते ।चक्षुष्यसुभगशोभनसाधुमनोज्ञाभिरामरमणीयाः ॥ १५८० ॥
3.6.1580 · p. 191
उद्गीतिःmetre not read in every line
वल्लभदयिताभीप्सितहृद्यप्रियरुचिररुच्यकान्तेष्टाः ।मञ्जुलमञ्जुमनोरमसुन्दरकमनीयचारुसुषमाश्च ॥ १५८१ ॥
3.6.1581 · p. 191
गीतिः
हर्षमाणो विकुर्वाणः प्रमना मुदिताशयः ।विमना दुर्मना अन्तर्मनाः स्यादुत्क उन्मनाः ॥ १५८२ ॥
3.6.1582 · p. 191
अनुष्टुप्
प्रतिकृष्टनिकृष्टार्वरेफगर्ह्याधमावमाः ।कुपूयः कत्सितः खेटो याप्योऽवद्योज्वरोऽणकाः ॥ १५८३ ॥
3.6.1583 · p. 191
अनुष्टुप्
आक्रुष्टो गर्हितो हेयोऽवगीतश्च निन्दितः ।अभिभूतस्त्ववज्ञात आत्तगन्धोऽवमानितः ॥ १५८४ ॥
3.6.1584 · p. 191
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
परिभूतः पराभूतो रीढितोऽवमतो धुतः ।अधिक्षिप्तः प्रतिक्षिप्तोऽवरीणो धिक्कृतः समाः ॥ १५८५ ॥
3.6.1585 · p. 191
अनुष्टुप्
मायावी कौक्कुटो मायी मायिकः प्रातिहारिकः ।स्यान्नैकृतो नैकृतिकः शठः कापटिकोऽनृजुः ॥ १५८६ ॥
3.6.1586 · p. 191
अनुष्टुप्
कुहको व्यंसको धूर्तो जाल्मः कौसृतिकोऽपि सः ।सज्जनः सुजनः साधुर्दुर्जनः पिशुनः खलः ॥ १५८७ ॥
3.6.1587 · p. 191
अनुष्टुप्
कर्णेजपः सूचकोऽथ स्यादेवोद्गूर्णमुद्यतम् ॥ १५८८ ॥
3.6.1588 · p. 191
विश्रुतविदितख्यातप्रथितव्यपदिष्टवित्तविज्ञाताः ।सुरभिप्रतीतकीर्तितवर्णितसुकलप्रसिद्धसुगृहीताः ॥ १५८९ ॥
3.6.1589 · p. 192
गीतिः
गुण प्रसिद्धे तु कृतलक्षणाहितलक्षणौ ।महोद्यमो महोत्साहो महेच्छः स्यान्महाशयः ॥ १५९० ॥
3.6.1590 · p. 192
अनुष्टुप्
अर्च्यः पूज्यः प्रतीक्ष्यः सहृदयहृदयालू समौ हृष्टतुष्टौ ।प्रीतप्रह्लन्नतृप्तप्रमुदितमुदितामोदिताः स्युः प्रतीते ॥ १५९१ ॥
3.6.1591 · p. 192
स्रग्धरा
इभ्यस्त्वाढ्यो धनी स्यात् परिवृढ इन ईशोऽधिभूः स्वास्यधीशो ।नेता नाथोऽधिपोऽपि प्रभुरथ बहुदः स्थूललक्षो वदान्यः ॥ १५९२ ॥
3.6.1592 · p. 192
स्रग्धरा
गृध्नुर्गर्द्धनलोलुपलोलुभलोलाभिलाषुकसतृष्णाः ।तृष्णग्लम्पट ईप्सुः साशो धन्यस्तु पुण्यवान् सुकृती ॥ १५९३ ॥
3.6.1593 · p. 192
गीतिःmetre not read in every line
श्रीलस्तु लक्ष्मणः श्रीमानस्तिमान् धनिको धनी ॥ १५९४ ॥
3.6.1594 · p. 192
उदारो दातृभोक्ता स्यादिष्टार्थोद्युक्त उत्सुकः ।स्पन्दनं किंचिच्चलनं पारिप्लवपरिप्लवे ॥ १५९५ ॥
3.6.1595 · p. 192
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 चि (wrong syllable)
तरललोलचलाचलचञ्चलप्रचलकम्पनकम्प्रचलानि च ।विकटपीनविशंकटपीवराः पृथुविशालबृहत्पृथुलोरवः ॥ १५९६ ॥
3.6.1596 · p. 192
द्रुतविलम्बितम्
महान् भद्रश्च विपुलपीव्नी तु स्थूलपीवरे ।दभ्रमल्पं कृशं सूक्ष्मं स्तोकं च क्षुल्लकं तनु ॥ १५९७ ॥
3.6.1597 · p. 192
अनुष्टुप्
संशयालुः संशयिता संदेग्धा विचिकित्सकः ।क्षीबशौण्डोत्कटा मत्ते घूर्णितः प्रचलायितः ॥ १५९८ ॥
3.6.1598 · p. 192
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सं (wrong syllable)
स्वप्नङ्निद्रालुनिद्राणशयालुशयिताः समाः ।मन्दस्तुन्दपरिमृजस्तन्द्रालुः शीतकोऽलसः ॥ १५९९ ॥
3.6.1599 · p. 193
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न्द (wrong syllable)
निर्निद्रः स्याज्जागरिता प्रबुद्धोन्मिषितावपि ।ह्रीमति व्रीलितह्रीतह्रीणलज्जितसत्रपाः ॥ १६०० ॥
3.6.1600 · p. 193
अनुष्टुप्
ह्रीशीलोऽपत्रपिष्णुः स्यादप्रमत्तोऽवधायिनि ।परीक्षकः कारणिको दयालुः कृपान्वितः कारुणिकः कृपालुः ॥ १६०१ ॥
3.6.1601 · p. 193
अनुष्टुप्metre not read in every line
अन्वेषको मार्गयिता विवेता गवेषकश्चानुपदीक्षकश्च ।छन्नाच्छादितपिहितव्यवहितसंवलितसंवृतापिहितम् ॥ १६०२ ॥
3.6.1602 · p. 193
metre not recognised
स्थगितप्रोर्णुतरुद्धान्तर्हितमपवाहितं च संवीतम् ।अस्तं नुत्तं विद्धं क्षिप्तं नुन्नेरिते च निष्ठ्यूतम् ॥ १६०३ ॥
3.6.1603 · p. 193
गीतिः
मार्गितमृगितान्वेषितविचितान्विष्टं गवेषितं च समम् ।अधिगतविदितज्ञातप्रतिपन्नावगतबुद्धबुधितानि ॥ १६०४ ॥
3.6.1604 · p. 193
गीतिः
अवसितमनितप्रेक्षितभावितवित्तप्रतीतमुपलब्धम् ।संश्रुतविदितसमाहितसंगीर्णानि प्रतिश्रुतोपगते ॥ १६०५ ॥
3.6.1605 · p. 193
गीतिः
ऊरीकृतमुररीकृतमाश्रुतमङ्गीकृतं प्रतिज्ञातम् ।रक्षितमवितं त्रातं त्राणं गोपायितं गुप्तम् ॥ १६०६ ॥
3.6.1606 · p. 193
आर्या
पालितमविता गोप्ता त्राता संरक्षिता दयिता ।छिन्नं छातं लूनं कृत्तं वृक्णं छितं दितं त्रुटितम् ॥ १६०७ ॥
3.6.1607 · p. 193
metre not recognised
भेदितभिन्नविदारितखण्डितदलितानि पाटितं च समम् ।चोरितरुण्ठितलुण्ठितमूषितमुषितानि पञ्च तुल्यानि ॥ १६०८ ॥
3.6.1608 · p. 194
गीतिः
उपचितनिदिग्धवर्द्धितमेधितमृद्धोपबृंहितं स्फीतम् ।निर्णायकस्तु निश्चेता गृहयालुर्ग्रहीतरि ॥ १६०९ ॥
3.6.1609 · p. 194
अनुष्टुप्metre not read in every line
सस्पृहः स्पृहयालुः स्यात् पतयालुस्तु पातुकः ।उभावुष्णालुशीतालू उष्णशीतासहौ क्रमात् ॥ १६१० ॥
3.6.1610 · p. 194
अनुष्टुप्
श्राद्धः श्रद्धालुरर्चावानार्चो वार्तस्तु वृत्तिमान् ।वर्तिष्णुर्वर्तनो भूष्णुर्भविष्णुर्भविता च सः ॥ १६११ ॥
3.6.1611 · p. 194
अनुष्टुप्
क्षेपकः क्षेपणः क्षेपः क्षिपः प्रेरयिता नुदः ।क्षिप्नुर्निराकरिष्णुः स्यात् समौ वर्धिष्णुवर्धनौ ॥ १६१२ ॥
3.6.1612 · p. 194
अनुष्टुप्
उन्मदिष्णुस्तु सोन्मादो वन्दारुरभिवादकः ।अथ भ्राजिष्णुरोचिष्णुविभ्राजो भ्राजितर्यमी ॥ १६१३ ॥
3.6.1613 · p. 194
अनुष्टुप्
क्लिष्टे तु क्लेशितः क्षान्ते सोढमुद्वान्तमुद्गते ।शान्तस्तु शमितो दान्तो दमितेऽवसिते सितः ॥ १६१४ ॥
3.6.1614 · p. 194
अनुष्टुप्
लीढमास्वादितं गूढं गुप्तं मीढं तु मूत्रितम् ।गुण्डितं रूषिते पूर्णं पूरिते याचितेऽर्दितम् ॥ १६१५ ॥
3.6.1615 · p. 194
अनुष्टुप्
ग्रन्थितं ग्रथितं दृब्धं घ्राणं घ्रातं धृतं भृतम् ।रोमाञ्चितं तु हृषितं विस्तृतं विसृतं ततम् ॥ १६१६ ॥
3.6.1616 · p. 194
अनुष्टुप्
दण्डितः प्राप्तदण्डः स्यान्मुण्डितः परिवापितः ।अविलम्बितमुच्चण्डं विलीनं विद्रुतं द्रुतम् ॥ १६१७ ॥
3.6.1617 · p. 195
अनुष्टुप्
साधारणं स्यात् सामान्यं घनीभूतं तु पिण्डितम् ।दग्धे प्रुष्टोषितप्लुष्टा विद्धे छिद्रितवेधितौ ॥ १६१८ ॥
3.6.1618 · p. 195
अनुष्टुप्
सक्तं लग्नं लिप्तं दिग्धं नवं गतं यातम् ।नष्टमदृष्टं जुष्टं सेवितमथ तत्परः प्रसितः ॥ १६१९ ॥
3.6.1619 · p. 195
उपगीतिःmetre not read in every line
छेदनः छिदुरः पीनो मेदुरो विदुरो बुधः ।उन्नोत्तस्तिमितक्लिन्नतिमितार्द्राः समार्थकाः ॥ १६२० ॥
3.6.1620 · p. 195
अनुष्टुप्
उच्चमुत्कटमुत्तालं प्रांशूदग्रं समुन्नतम् ।उद्धुरं तुङ्गमुन्नम्रमुच्छ्रितं दशकं समम् ॥ १६२१ ॥
3.6.1621 · p. 195
अनुष्टुप्
स्थेष्ठसाधिष्ठनेदिष्ठस्फेष्ठप्रेष्ठा यथाक्रमम् ।स्थिरबाढान्तिकबहुप्रियातिशयवाचिनः ॥ १६२२ ॥
3.6.1622 · p. 195
अनुष्टुप्
स्थूलदूरयुवह्नस्वक्षिप्रक्षुद्रातिशायने ।स्युः स्थविष्ठयविष्ठाद्याः श्रेष्ठो ज्यायानथ क्रमात् ॥ १६२३ ॥
3.6.1623 · p. 195
अनुष्टुप्
द्रढिष्ठः क्रशिष्ठो गरिष्ठो लषिष्ठोम्रदिष्ठः प्रथिष्ठो वरिष्ठः पटिष्ठः ।द्रढीयान् क्रशीयान् गरीयान् लघीयान्म्रदीयान् प्रथीयान् वरीयान् पटीयान् ॥ १६२४ ॥
3.6.1624 · p. 195
भुजङ्गप्रयातम्
वर्षिष्ठोऽधिकवृद्धः स्याद् वर्हिष्ठो बहुलो भृशम् ।स्युस्तत्र जात इत्यर्थे ह्यस्तनश्वस्तनादयः ॥ १६२५ ॥
3.6.1625 · p. 195
अनुष्टुप्
यौष्माकीणस्तु यौष्माको युष्मदीयो यथा तथा ।आस्माकीनादयोऽथ स्यान्मृदूलं मृदु कोमलम् ॥ १६२६ ॥
3.6.1626 · p. 196
अनुष्टुप्
कर्कशे तु घनक्रूरकठोरदृढनिष्ठुराः ।जरठः कठिनो नूत्नो नूतनोऽभिनवो नवः ॥ १६२७ ॥
3.6.1627 · p. 196
अनुष्टुप्
नव्यो नवीनः प्रत्यग्रः पुराणस्तु पुरातनः ।प्राक्तनः प्रतनः प्रत्नः स्याच्चिरंतन इत्यपि ॥ १६२८ ॥
3.6.1628 · p. 196
अनुष्टुप्
प्रसव्यो निघ्न आयत्तो वशोऽधीनश्च गृह्यकः ।स्युर्मार्गणे याचनकयाचकार्थिवनीयकाः ॥ १६२९ ॥
3.6.1629 · p. 196
अनुष्टुप्
तूष्णींशीलस्तु तूष्णीको नानारूपः पृथग्विधः ।स्वच्छन्दोऽपावृतः स्वैरी स्वतन्त्रो निरवग्रहः ॥ १६३० ॥
3.6.1630 · p. 196
अनुष्टुप्
पराधीनः परच्छन्दः परवान् परतन्त्रकः ।विधेयः प्रश्रयो वश्यः प्रणेयो निभृतः समाः ॥ १६३१ ॥
3.6.1631 · p. 196
अनुष्टुप्
आश्रवो वचनग्राही पुरोभागी तु दोषभाक् ।समावक्षिगतद्वेष्यौ मलिनस्तु मलीमसः ॥ १६३२ ॥
3.6.1632 · p. 196
अनुष्टुप्
समास्तेजस्विवर्चस्विभास्वद्भासुरभास्वराः ।ईड्यः प्रशंस्यः स्तोतव्यः स्तुत्यः स्तव्यः स्तवोचितः ॥ १६३३ ॥
3.6.1633 · p. 196
अनुष्टुप्
उच्चावचं नैकभेदं निश्चलस्तिमिते समे ।निबिडं निबिरीसं स्याद् घनं सान्द्रं निरन्तरम् ॥ १६३४ ॥
3.6.1634 · p. 196
अनुष्टुप्
सुदृढं संहतं श्लिष्टं पेलवं विरलं तनु ।निस्तलं वर्तुलं वृत्तं स्थपुटं तु विसंस्थुलम् ॥ १६३५ ॥
3.6.1635 · p. 196
अनुष्टुप्
न्यङ्नीचौ प्रह्वविनताववाग्रावनतौ समौ ।कुटिलमरालं वक्रं वेल्लितमाविद्धवृजिनभुग्नानि ॥ १६३६ ॥
3.6.1636 · p. 197
अनुष्टुप्metre not read in every line
जिह्ममजिह्मप्रगुणावृजुरथ विकृतं करालविप्रकृते ।भ्राजितभासितशोभितराजितविद्योतितं दीप्तम् ॥ १६३७ ॥
3.6.1637 · p. 197
आर्या
स्तुतनुतशस्तपनायितपनितेडितपणायितं पणितम् ।मूढे मूर्खवृथाजातमातृशिष्टाज्ञबालिशाः ॥ १६३८ ॥
3.6.1638 · p. 197
अनुष्टुप्metre not read in every line
मन्दवैधेयविकला धर्महीनस्त्वधार्मिकः ।स्वनितध्वनितविरावितशब्दितसंघुष्टरसितमारणितम् ॥ १६३९ ॥
3.6.1639 · p. 197
अनुष्टुप्metre not read in every line
स्तनितं नदितमधिश्रितमधिगतमासादितं प्राप्तम् ।सर्वमशेषमखण्डं सकलाखिलसमग्रविश्वनिखिलानि ॥ १६४० ॥
3.6.1640 · p. 197
उद्गीतिःmetre not read in every line
समस्तपूर्णकृत्स्नानि चरिष्णु चरजङ्गमे ।अचरः स्थावरे तुल्येऽत्र समिङ्गं चराचरम् ॥ १६४१ ॥
3.6.1641 · p. 197
अनुष्टुप्
स्थेयान् स्थिरतरः स्थास्नुः समौ तु क्षय्यनश्वरौ ।जिघत्सुः क्षुधितः क्षुद्वान् बुभुक्षुरशनायितः ॥ १६४२ ॥
3.6.1642 · p. 197
अनुष्टुप्
पिपासितस्तु तृषितः पिपासुस्तर्षितः सतृट् ।भुक्तजग्धाशितग्रस्तग्लस्ताभ्यवहृताहृतम् ॥ १६४३ ॥
3.6.1643 · p. 197
अनुष्टुप्
जेमितं प्रत्यवसितमन्नं गिलितवल्गिते ।भक्षितं खादितं लिप्तं चरितं चर्वितं समम् ॥ १६४४ ॥
3.6.1644 · p. 197
अनुष्टुप्
त्रयस्त्वात्मंभरिः कुक्षिंभरिरप्युदरंभरिः ।स्वकुक्षिपूरके तुल्या भक्षकाद्मारघस्मराः ॥ १६४५ ॥
3.6.1645 · p. 198
अनुष्टुप्
स्यादौदरिक आद्यूनो विहीनो विजिगीषया ।सर्वान्नीनस्तु सर्वान्नभुक् परान्नः परान्नभुक् ॥ १६४६ ॥
3.6.1646 · p. 198
अनुष्टुप्
प्रत्युत्पन्नमतिः स स्यात् तत्कालोत्पन्नधीस्तु यः ।आशंसिता स्यादाशंसुर्विलक्षस्तु सविस्मयः ॥ १६४७ ॥
3.6.1647 · p. 198
अनुष्टुप्
कुण्ठो मन्दक्रियो देवानांप्रियो नामवर्जितः ।एकायनगतैकाग्रावेकतानैकसर्गकौ ॥ १६४८ ॥
3.6.1648 · p. 198
अनुष्टुप्
एकायनैककल्पैकव्यवस्थानन्यवृत्तयः ।यद्भविष्यो दैवपरो विहस्तव्याकुलौ समौ ॥ १६४९ ॥
3.6.1649 · p. 198
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दै (wrong syllable)
गेहेनर्दी गृहेशूरः पिण्डीशूरो गृहेप्रभुः ।पृक्तः करम्बितो मिश्रश्छुरितो मिलितः समाः ॥ १६५० ॥
3.6.1650 · p. 198
अनुष्टुप्
स तु सार्वजनीनः स्याद्धितः सर्वजनाय यः ।तथा प्रातिजनीनश्च प्रियवादी प्रियंवदः ॥ १६५१ ॥
3.6.1651 · p. 198
अनुष्टुप्
स तु विश्वजनीनः स्याद्धितो विश्वजनाय यः ।आत्मनीनस्त्वात्महितः सार्वः सर्वहितश्च यः ॥ १६५२ ॥
3.6.1652 · p. 198
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्त्वा (wrong syllable)
यः सहाञ्चति सध्र्यङ् स विः षध्र्यङ् विष्वगञ्चति ।देवानञ्चति देवध्र्यङ् स तिर्यङ् यस्तिरोऽञ्चति ॥ १६५३ ॥
3.6.1653 · p. 198
अनुष्टुप्
प्रत्यक्परागर्वाक्तिर्यक्प्रागुदग्विष्वगादयः ।दिग्देशकालवचनाः शब्दाः स्युः क्वचिदव्यये ॥ १६५४ ॥
3.6.1654 · p. 198
अनुष्टुप्
अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम् ।सिंहसंहननः श्रेष्ठरूपवान् प्रशमी प्रशान् ॥ १६५५ ॥
3.6.1655 · p. 198
अनुष्टुप्
तदासेचनकं तृप्तिर्नास्ति यस्य हि दर्शनात् ।दृढेतरस्तु शिथिलो दीर्घसूत्रश्चिरक्रियः ॥ १६५६ ॥
3.6.1656 · p. 199
अनुष्टुप्
उच्छृङ्खलं स्यादुद्दामं निरङ्कुशमनर्गलम् ।संबाधः संकटो रीणः क्षीणो मूर्तस्तु मूर्तिमान् ॥ १६५७ ॥
3.6.1657 · p. 199
अनुष्टुप्
कुट्टाकरछेदकश्छेत्ता शरारुर्हिंस्रघातुकौ ।पूतः पवित्रः प्रयतः पुण्यो मेध्यश्च शुद्धवत् ॥ १६५८ ॥
3.6.1658 · p. 199
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
निवृतं तु परिक्षिप्तं कलिलं गहनं समे ।जैवातृक आयुष्मान् स्फीतं वृद्धं बहुकरः खलपूः ॥ १६५९ ॥
3.6.1659 · p. 199
अनुष्टुप्metre not read in every line
दक्षिणसरलोदारास्तुल्याः सुकलः स दातृभोक्ता यः ।अन्तिकनिकटसनीडाभ्यर्णाभ्यग्रोपकण्ठसविधास्तु ॥ १६६० ॥
3.6.1660 · p. 199
गीतिः
आसन्नसंनिकृष्टाभ्याशसमर्यादसाग्रकसदेशाः ।समीपे स्युरलिङ्गे तु समया निकषाऽभितः ॥ १६६१ ॥
3.6.1661 · p. 199
अनुष्टुप्metre not read in every line
परोक्षोऽतीन्द्रियोऽध्यक्षप्रत्यक्षौ तु समक्षवत् ।प्रकाशं प्रकटं स्पष्टमुल्बणं विशदं स्फुटम् ॥ १६६२ ॥
3.6.1662 · p. 199
अनुष्टुप्
साधु कर्मणि कर्मण्यः कर्मकारस्तु तत्क्रियः ।कर्मक्षमोऽलंकर्मीणः कर्मी स्यात् कर्मणि स्थितः ॥ १६६३ ॥
3.6.1663 · p. 199
अनुष्टुप्
कार्मस्तु कर्मशीलः स्यात् कर्मशूरस्तु कर्मठः ।क्रियावान् कर्मसूद्युक्तः समौ संकुसुकास्थिरौ ॥ १६६४ ॥
3.6.1664 · p. 199
अनुष्टुप्
विन्नं निर्लोडितं वित्तं भाबितं च विचारिते ।पतितं क्षरितं पन्नं स्यन्नं स्कन्नं स्रुतं स्नुतम् ॥ १६६५ ॥
3.6.1665 · p. 200
अनुष्टुप्
स्रस्तं ध्वस्तं च्युतं रीणं गलितं भ्रष्टमित्यपि ।शातं निशातं निशितं च तीक्ष्णंक्षुतं च मर्मस्पृगरुंतुदं स्यात् ।न्यस्ते निसृष्टं पुषिते तु पुष्टंत्वष्टं च तष्टं च तनूकृते द्वे ॥ १६६६ ॥
3.6.1666 · p. 200
अनुष्टुप्two metres in one verse
वावदूको वदो वादी वक्ता वाग्मी वदावदः ।स्याद्वाचोयुक्तिकुशलो वागीशो वाक्पतिः प्रवाक् ॥ १६६७ ॥
3.6.1667 · p. 200
अनुष्टुप्
समौ जल्पाकवाचालौ वाचाटो बहुनिन्द्यवाक् ।कुवादी कुचरो गर्ह्यवादी कद्वद इत्यपि ॥ १६६८ ॥
3.6.1668 · p. 200
अनुष्टुप्
दुर्मुखौ मुखराबद्धमुखौ शक्तः प्रियंवदः ।शब्दनो रवणो नान्दीवादी नान्दीकरः समाः(मौ?) ॥ १६६९ ॥
3.6.1669 · p. 200
अनुष्टुप्
उपस्थितं तूपनतं समे मसृणचिक्कणे ।अनायासकृतं फाण्टं काचितं शिक्यितं समे ॥ १६७० ॥
3.6.1670 · p. 200
अनुष्टुप्
उत्क्षिप्तोदञ्चितोदस्तोद्धृतोद्गमितमुद्धतम् ।उत्थापितं चोन्नमितं चटुलं चलितार्थकम् ॥ १६७१ ॥
3.6.1671 · p. 200
अनुष्टुप्
व्युत्पन्नः प्रहतः क्षुण्णः प्राप्तप्रणिहितौ समौ ।आहतो गुणितोऽथान्तर्गतं प्रस्मृतविस्मृतौ ॥ १६७२ ॥
3.6.1672 · p. 201
अनुष्टुप्
वेल्लितं प्रेङ्खितं धूतं रिङ्गितं त्वङ्गितं धुतम् ।प्रेङ्खोलितं च संतप्तो धूपितस्तापितो धुतः ॥ १६७३ ॥
3.6.1673 · p. 201
अनुष्टुप्
धूपायितो गुण्डितस्तु रूषितो रुषितः सरुट् ।बहुलं प्रचुरं प्राज्यं भूयिष्ठं पुरुजं पुरु ॥ १६७४ ॥
3.6.1674 · p. 201
अनुष्टुप्
भूरिभूयःस्फिरस्फारघनादभ्रबहूनि च ।अल्पीयोऽल्पिष्ठमत्यल्पे कनीयोऽणीयसी अपि ॥ १६७५ ॥
3.6.1675 · p. 201
अनुष्टुप्
त्रुटिर्मात्रा स्त्रियौ पुंसि कणलेशलवाणवः ।शून्यं तु वशिकं तुच्छं रिक्तं च विदृढो दृढः ॥ १६७६ ॥
3.6.1676 · p. 201
अनुष्टुप्
निष्कासितोऽवकृष्टः स्यात् पक्षिसर्पादयोऽण्डजाः ।स्वेदजाः कृमिदंशाद्या नृगवाद्या जरायुजाः ॥ १६७७ ॥
3.6.1677 · p. 201
अनुष्टुप्
उद्भिदस्तरुगुल्माद्या उद्भिदुद्भिज्जमुद्भिदम् ।क्षेमंकरो रिष्टतातिः शिवतातिः शिवावहः ॥ १६७८ ॥
3.6.1678 · p. 201
अनुष्टुप्
आदिराद्योऽग्रिमः पूर्वः पौरस्त्यः प्रथमादिमौ ।अन्तो जघन्यः पाश्चात्यश्चरमोऽन्त्योऽन्तिमोऽपरः ॥ १६७९ ॥
3.6.1679 · p. 201
अनुष्टुप्
समानावुत्तरोदीच्यौ दाक्षिणात्यस्तु दक्षिणः ।समानौ प्राग्भवप्राच्यौ पक्त्रिमं तु पचेलिमम् ॥ १६८० ॥
3.6.1680 · p. 202
अनुष्टुप्
सदातनः सनातनो ध्रुवश्च नित्यशाश्वतौ ।वशीकृतोऽनुकूलितः सुखाकृतः प्रियाकृतः ॥ १६८१ ॥
3.6.1681 · p. 202
पञ्चचामरम्
अनुलोमोऽनुकूलः स्यादनूचीनस्तदर्थकः ।प्रसव्यं प्रतिकूलार्थमपसव्यमपष्ठु च ॥ १६८२ ॥
3.6.1682 · p. 202
अनुष्टुप्
सव्यं वामं शरीरं स्यादपसव्यं तु दक्षिणम् ।प्रतिलोमं प्रतीकूलं प्रतीपं च विलोमवत् ॥ १६८३ ॥
3.6.1683 · p. 202
अनुष्टुप्
प्रापणीयं समासाद्यं प्राप्यं गम्यं समार्थकम् ।अतिरिक्तोऽधिकार्थः स्यात् संहतं दृढसंधिमत् ॥ १६८४ ॥
3.6.1684 · p. 202
अनुष्टुप्
स्याद्विनाशोन्मुखं पक्वं पक्वं परिणतं समे ।भिदेलिमं प्रभिन्नार्थं छिन्नार्थं स्याच्छिदेलिमम् ॥ १६८५ ॥
3.6.1685 · p. 202
अनुष्टुप्
वैरागिको विरागार्ह आपन्नस्त्वापदायुतः ।वधार्हस्त्वाततायी स्याद्विष्यो वध्यो विषेण यः ॥ १६८६ ॥
3.6.1686 · p. 202
अनुष्टुप्
मुसल्यो मुसलेन स्याद्दण्ड्यो दण्डार्ह इत्ययम् ।एकाकी त्वसाहायः स्यादेकश्चैकैक इत्यपि ॥ १६८७ ॥
3.6.1687 · p. 203
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
भिन्नार्थवाचकास्त्वेत एकान्यान्यतरेतरे ।चपलश्चिकुरस्तुल्यौ वन्ध्यो मोघो निरर्थकः ॥ १६८८ ॥
3.6.1688 · p. 203
अनुष्टुप्
प्रत्याख्यातो निरस्तः स्यान्निर्वातो वातवर्जिते ।पाके क्वथितनिष्पक्वे स्याद्दुग्धहविषोः शृतम् ॥ १६८९ ॥
3.6.1689 · p. 203
अनुष्टुप्
त्यक्तं हीनं समुत्सृष्टं धुतं धूतं समुज्झितम् ।विहस्तव्याकुलौ तुल्यौ प्रत्यादिष्टो निराकृतः ॥ १६९० ॥
3.6.1690 · p. 203
अनुष्टुप्