हीन
hīnaवि · adj.In 15 kośas: 16 synonym verses, 4 as a nānārtha head word, 17 as a meaning of another word.
परिक्षिप्ते वलयितं निवृत्तं परिवेष्टितम् ॥ १४७४ ॥परिस्कृतं परीतं च त्यक्तं तूत्सृष्टमुज्झितम् ।धूतं हीनं विधूतं च विन्नं वित्तं विचारिते ॥ १४७५ ॥
अनुष्टुप्
genderविadj.
परतन्त्रे वशायत्तावधीनोऽप्यथ दुर्गते ।क्षुद्रो हीनश्च दीनश्च भाटिस्तु गणिकाभृतौ ॥ ९२ ॥
अनुष्टुप्
genderविadj.
genderविadj.
कदर्यहीनकीनाशकिम्पचानमितम्पचाः ।कृपणक्षुल्लकक्लीवक्षुद्रा एकार्थवाचकाः ॥ ३४७ ॥
अनुष्टुप्
genderविadj.
अवज्ञातं चावमतं परिभूतेऽवमानितम् ।उत्सृष्टं विधुतं धूतं त्यक्तं हीनं समुज्झितम् ॥ १७४ ॥
अनुष्टुप्
genderविadj.
चिरंतनं यातयामं तत्पटच्चरमित्यपि ।अवशिष्टं च[शिष्टं]च तथोर्वरितमित्यपि ।अधिकं त्वतिरिक्तं स्यादूनं न्यूनं च हीनवत् ॥ ५ ॥
अनुष्टुप्metre not read in every line
genderविadj.
धूतं हीनं विधूतं च मुक्तं हापितमित्यपि ।करम्बितं तूत्खचितमाच्छिन्नं तु बलाद्धृतम् ॥ ३२ ॥
अनुष्टुप्
genderविadj.
क्षामं शान्तं कृशं क्षीणं हीनं जीर्णं च वैरिणाम् ।शीर्णावसानं दूनं च धैर्यं शौर्यं च पौरुषे ॥ १७१ ॥
अनुष्टुप्
genderविadj.
पिङ्गलासंज्ञके हिक्कासंज्ञरोगान्तरेऽपि च ।नृस्त्री तु हिक्कने -- हिक्कके हीनवाक् पुनः ॥ १५९६ ॥
अनुष्टुप्metre not read in every line
genderविadj.
उत्सृष्टविधुते हीनं विन्नवित्ते विचारितम् ।[53] संरुद्धसंवृते छन्नं संवीते रुद्धमित्यपि ॥ ३५६ ॥
अनुष्टुप्
genderविadj.
त्यक्तमुज्झितमुत्सृष्टं धूतं विधूतमित्यपि ।हीनं चेत्यभिधेयानि त्यक्तस्य संभवन्ति वै ॥ २६८१ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable); pāda 4, syllable 3 स्य (wrong syllable)
genderविadj.
नीचे निहीनहीनापसदजान्मपृथग्जनाः ।विवर्णः प्राकृतक्षुल्लक्षुल्लकेतरपामराः ।भृत्ये भुजिष्यदासेयदासेरपरिचारकाः ॥
अनुष्टुप्
genderविadj.
त्यक्तं हीनञ्च विधुतं धूतोत्सृष्टसमुज्झितम् ।भाषितोक्तोदिताख्यातलपिताभिहितजल्पितम् ।विदितं बूधितं बुद्ध मनितं प्रतिपन्नवत् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 लपि (syllable split)
genderविadj.
त्यक्तं हीनं समुत्सृष्टं धुतं धूतं समुज्झितम् ।विहस्तव्याकुलौ तुल्यौ प्रत्यादिष्टो निराकृतः ॥ १६९० ॥
अनुष्टुप्
genderविadj.
नीचे तु हीनापशदपामरेतरबर्बराः ।नैकृतः स्यान्नैकृतिकः शठः कौनृतिकोऽनृजुः ॥ २२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्नै (wrong syllable)
genderविadj.
मनिते विदितज्ञातौ बुधिते बोधबुद्धवत् ।त्यक्ते तु विधुतोत्सृष्टहीनधूतसमुज्झिताः ॥ १०१ ॥
अनुष्टुप्
genderविadj.
त्रिरूनगर्ह्ययोर्ना तु नागकेसरपादपे ।हीरः पुंसि शिवे द्वे तु सर्पे सिंहे च स त्रि तु ॥ १५९७ ॥
अनुष्टुप्
doubtful
हीन as a meaning in nānārtha verses
- धरणिकोश अधमप्रथमौ तु प्रधानादी अधमो हीनगर्ह्ययोः । कुसुमे स्त्रीरजःपुष्पे तलिमे तल्पकुट्टिमौ ॥ Dharaṇikośa 24.1.5
- धरणिकोश वाच्यवाच्यं वक्तव्यमित्येते वर्तेते प्रतिपादने । वाचार्हे कुत्सिते हीने दूषणे चापि कीर्त्यते ॥ Dharaṇikośa 25.3.15
- धरणिकोश अधरप्रदरो योषितां रोगः प्रदरः शरभङ्गयोः । अधरावोष्ठहीनौ तु अनूर्ध्वमधरं विदुः ॥ Dharaṇikośa 26.2.28
- धरणिकोश अनुअनु हीने सहार्थे च पश्चात्सादृश्ययोरनु । लक्षणादौ समीपेऽनु आया[112]मेऽनुक्रमेऽप्यनु ॥ Dharaṇikośa 34.11.3
- धरणिकोश उपअप स्यादपकृष्टार्थो वर्जनार्थोऽप्यप स्मृतः । उप समीपवाची स्यादुप हीनेऽधिकेऽप्युप ॥ Dharaṇikośa 34.12.1
- कोषकल्पतरु उपनिःक्षेपे नियमे निवेशभ(भृ?)शयोर्दानेऽन्तिके दर्शने- न्तर्भावोपरमाश्रयाम्बुषु तयोधा(?)भावविन्यासके । हर्षे चौर्यनिकृष्टवर्जनविपर्यासप्रमोदेष्वप स्याद्विश्लेषविकारयोरुप पुनर्हीनेऽधिके चान्तिके ॥ ४ ॥ Koṣakalpataru 5.1.4
- कोषकल्पतरु ऊनसूना तु पुत्र्यां गलशुण्डिकायां वधस्थलेऽथोनमुशन्ति हीने । रणोद्यमेऽथार्कमयूखयोः स्यात् स्योनोऽथ मीनो झषराशिभेदे ॥ ८९ ॥ Koṣakalpataru 6.21.89
- कोषकल्पतरु न्यूनन्यूनं च हीनं त्रिषु गर्ह्य ऊने दीनस्तु भीते त्रिषु दुर्गते च । स्त्रियां त्वसौ मूषिक[11a]योषिति स्या- द्बुध्नस्तु शंभौ गदितोऽपि मूले ॥ ९१ ॥ Koṣakalpataru 6.21.91
- कोषकल्पतरु अधरअनूर्ध्व[51b]हीने परगोऽध्वरस्तु स्यात्सावधाने वसुभिन्मखार्थः । अस्त्र्यन्तरं रन्ध्रविनावकाशा- न्तरात्मभेदावधिमध्यवाचि ॥ ८४ ॥ Koṣakalpataru 6.27.84
- नानार्थार्णवसंक्षेप अधरद्वे तु मर्येऽधरस्तु स्यादोष्ठे पुंस्यथ भेद्यवत् । अवाचीने च हीने क्ली त्वध्वरं खे मखे तु ना ॥ ५४ ॥ Nānārthārṇavasaṃkṣepa 4.54
- शब्दरत्नावली निर्ग्रन्थिकनिपुने क्षपणे हीने निर्ग्रन्थिक उदाहृतः । शिखण्डे भुजगे बाणे प्रचलाकः समीरितः ॥ Śabdaratnāvalī 7.1.178
- शब्दरत्नावली मोघमेघः स्याद्वारिवाहेऽपि मुस्तके राक्षसेऽपि च । मोघा तु पाटलायां स्त्री त्रिषु निष्फलहीनयोः ॥ Śabdaratnāvalī 7.4.4
- शब्दरत्नावली वाच्यलयः सङ्गीतसाम्ये स्यात्संश्लेषणविनाशयोः । लक्ष्यं शरव्ये क्लीबं स्यादपदेशेऽपि कीर्त्यते ॥ व्रज्या पर्यटने वर्गे प्रस्थाने संगतेऽपि च । वाच्यं हीने कुत्सिते स्याद्वचनार्हे तु वाच्यवत् ॥ वन्या वनाम्बुसन्दोहे वन्यं बनभवे त्रिषु । विन्ध्यो व्याधाचलभिदोर्विन्ध्याचलवलीद्रुमे ॥ Śabdaratnāvalī 7.26.30
- शब्दरत्नाकर उपउपाधिकेऽन्तिके हीनेऽप्युत प्रश्नवितर्कयोः । विस्तारेऽङ्गीकृतावूरी स्यादुरर्यूरीति च ॥ २२६५ ॥ Śabdaratnākara 5.2.2265
- त्रिकाण्डशेष खेटसुरायां स्त्री कीकटुस्तु निःस्वे देशे मितम्पचे । खेटः सिङ्घाणके हीने गृष्टिर्धेन्वौषधीभिदोः ॥ ९५ ॥ Trikāṇḍaśeṣa 3.3.95
- वैजयन्ती अधरअधरोऽनूर्ध्वहीनोष्ठेष्वनृतं वितथे कृषौ । आश्रमोऽस्त्री मुनिस्थाने ब्रह्मचर्यादिके मठे ॥ १६ ॥ Vaijayantī 7.5.16
- वैजयन्ती उपउपाधिकेऽन्तिके हीनेऽप्युत प्रश्नविकल्पयोः । समुच्चयेऽनुमत्यां चाप्येव साम्येऽवधारणे ॥ १८ ॥ Vaijayantī 8.7.18