जीर्ण
jīrṇaपुं · masc.In 17 kośas: 24 synonym verses, 3 as a nānārtha head word, 21 as a meaning of another word.
तारुण्यं यौवनं वृद्धः प्रवयाः स्थविरो जरन् ॥ ३३९ ॥जरी जीर्णो यातयामो जीनोऽथ विस्रसा जरा ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 थ (wrong syllable)
genderपुंmasc.
वृक्षोऽगः शिखरी च शाखिफलदावद्रिर्हरिद्रुर्द्रुमोजीर्णो द्रुर्विटपी कुठः क्षितिरुहः कारस्करो विष्टरः ।नन्द्यावर्तकरालिकौ तरुवसू पर्णी पुलाक्यंह्रिपःसालानोकहगच्छपादपनगा रूक्षागमौ पुष्पदः ॥ १११४ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
नवं नवीनं सद्यस्कं प्रत्यग्रं नूत्ननूतने ।नव्यं चाभिनवे जीर्णे पुरातनं चिरंतनम् ॥ १४४८ ॥पुराणं प्रतनं प्रत्नं जरन्मूर्तं तु मूर्तिमत् ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
genderविadj.
प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
जीर्णं जरत्पुराणं प्रत्नं प्रतनं पुरातनं प्रोक्तम् ।नव्यं नवं नवीनं स्यान्नूतनमभिनवं नूत्नम् ॥ ७११ ॥
आर्या
genderविadj.
सौदामिन्यैरावती च तद्भेदेऽप्यन्तिमत्रयम् ।गर्जितं स्तनितं जीर्णं निर्घोषः पातपातकौ ॥ ५५ ॥
अनुष्टुप्
genderक्लीneut.
गर्जितं स्तनितं जीर्णं गर्जा गर्जनमित्यपि ।निर्घोषो घनघातः स्यान्महाघात इतीर्यते ॥ ९२ ॥
अनुष्टुप्
genderक्लीneut.
तरुणस्तु वयस्थः स्याद्युवोत्पन्नवया अथ ।प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि ॥ ९६ ॥
अनुष्टुप्
genderपुंmasc.
मागधो जरणो दीप्यो जीर्णो जीरकजीरणौ ।बह्निसस्योप्यजाजी स्त्री श्वेतायाम् तत्र वै कणा ॥ १९३ ॥
अनुष्टुप्
genderपुंmasc.
भवेत्तरुणिमा पुंसि तारुण्यं यौवनेऽस्त्रियाम् ।प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि ।जरी जर्णो * * (यात)यामो वृद्धत्वं स्थाविरं समे ॥ १५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
अयातयामं सद्यस्कं तरुणाभिनवे समे ।पुराणं प्रतनं प्रत्नं जरज्जीर्णं पुरातनम् ॥ ४ ॥
अनुष्टुप्
genderविadj.
प्रत्यग्रं साम्प्रतं नव्यं नवं नूतनमग्रिमम् ।पुराणं जठरं जीर्णं प्राक्तनं सुचिरन्तनम् ॥ १५६ ॥
अनुष्टुप्
genderविadj.
क्षामं शान्तं कृशं क्षीणं हीनं जीर्णं च वैरिणाम् ।शीर्णावसानं दूनं च धैर्यं शौर्यं च पौरुषे ॥ १७१ ॥
अनुष्टुप्
genderविadj.
सद्यस्कं नूतने नूत्नं नवीनं नव्यनामकम् ।प्रत्यग्राभिनवे जीर्णं पुरातनचिरंतने ॥ ३३६ ॥
अनुष्टुप्
genderविadj.
जी[56]नो जीर्णो जरी यातयामो वृद्धत्ववार्द्धके ।विस्रसा स्थाविरं ज्यायान्वर्षीयान्दशमी पुनः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
अप्युत्तानशयो डिम्बः स्तनपाश्च स्तनंधयी ।वृद्धे जिनो जिरो(जरी?) जीर्णः प्रवयाः प्रकचः कवः ॥ १०५ ॥
अनुष्टुप्
genderपुंmasc.
वृद्धश्च स्थबिरो जीर्णो जीनो जरी जरन् तथा ।प्रवयाः यातयामश्च कथ्यते विबुधैरिति ॥ ५०० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ज (wrong syllable)
genderपुंmasc.
शाखी च शिखरी स्कन्धी क्षितिरुहश्च वह्निभूः ।अंह्रिपश्चाङ्घ्रिपो जन्तुर्जीर्णश्चरणपः कुजः ॥ १९५५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 रु (wrong syllable)
genderपुंmasc.
जरत् जीर्णं पुराणञ्च पुरातनं चिरन्तनम् ।प्रत्नञ्च प्रतनमिति नामात्र संप्रयुज्यते ॥ २६३२ ॥
metre not recognised
genderविadj.
वयस्थश्च वयःस्थोपि तरुणस्तलुनो युवा ।स्थविरः प्रवया वृद्धो जीर्णो जीनो जरन्नपि ॥
अनुष्टुप्
genderपुंmasc.
यौवनिकापि तारुण्ये स्थविरे तु जरन् जरी ।जरन्तश्च जीन-जीर्णावतिवृद्धे दश्म्ययम् ॥ ४ ॥
metre not recognised
genderपुंmasc.
नव्यवन्नूतनं नूत्नं, जीर्णं जरति जर्णवत् ।प्रणं प्रीणं पुराणं च प्रतनं च पुरातनम् ॥ ४७ ॥
अनुष्टुप्
genderविadj.
ज्यायान् जीर्णश्च वर्षीयान् वृद्धसंघे तु वार्धकम् ।पूर्वजस्त्वग्रियो ज्येष्ठो ज्यायानग्रज इत्यपि ॥ ११४३ ॥
अनुष्टुप्
genderपुंmasc.
वटुर्माणवकोऽथ स्याद्वयः स्थस्तरुणो युवा ।जीनो जीर्णो वृद्धवयाः प्रवयाः स्थविरो जरन् ॥ ३ ॥
अनुष्टुप्
genderविadj.
जीर्ण as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् यातयामजीर्णं च परिभुक्तं च यातयाममिदं द्वयम् ॥ १४५ ॥ Amarakośa 3.3.145
- धरणिकोश यातयामयातयाममिदं ज्ञेयं जीर्णे भुक्तोज्झिते तथा । अभ्युपगमः स्वीकारे समीपागमनेऽपि च ॥ Dharaṇikośa 24.2.23
- कोषकल्पतरु जर्जरीकना कोशकारेऽग्निहरिद्गजे च व्याघ्रेऽथ जीर्णे त्रिषु जर्जरीकः । क्लीबे पुनः स्याद्बहुरन्ध्रकेऽथो वक्रे कचे स्यादपि बर्बरीकः ॥ ५६ ॥ Koṣakalpataru 6.1.56
- कोषकल्पतरु पुराणजीर्णे वाच्यसमं पुराणमयुगे स्यात्पञ्चलक्ष्मण्यपि ग्रन्थे भोगिकनायके क्षुरिणि ना ग्रामाधिपे ग्रामणीः । श्रेष्ठे च त्रितये स्त्रियां तु गदिता नील्यां च वारस्त्रियां ग्राम्यायां च घृणौ तु[284a] पुंसि किरणो विक्षेपणे त्वन्तिमे । द्रुमभित्सेतुशालेषु वरणो नान्तिमे वृतौ । गुणिन्यृजौ च प्रगुणो रवणः शब्दने खरे ॥ ४८ ॥ Koṣakalpataru 6.15.48
- कोषकल्पतरु वृद्धवृद्धं शिलाजे परवत्तु जीर्णे रूढे तथा सूरिणि संप्रदिष्टम् । स्याद्वेधिते विद्धमिदं सदृक्त्वे बुद्धस्तु पुंसि प्रथितो जिनार्थः ॥ ५५ ॥ Koṣakalpataru 6.20.55
- कोषकल्पतरु यातयामकान्ते चानुपमो विशेष्यसदृशः स्त्री सुप्रतीकस्त्रियां अभ्यर्णे च हतौ विरोधरणयोरभ्युद्गमेऽभ्यागमः । जीर्णे भुक्तसमुज्झिते च गदितो ना यातयामस्तथा कीनाशे दिवसे घटोद्भवमुनौ स्याद्दण्डयामोऽपि च ॥ ९३ ॥ Koṣakalpataru 6.25.93
- कोषकल्पतरु कलभुक्तौ प्रभूणामथ कन्यकायां झाला तथोर्मौ च झुलुक्विकायाम् ( ? ) । अव्यक्तशब्दे मधुरे क[68a]लः स्या- ज्जीर्णे मनोज्ञे च विशेष्यलिङ्गः ॥ ८३ ॥ Koṣakalpataru 6.28.83
- नानार्थार्णवसंक्षेप जठरजठरः कठिने जीर्णे कुक्षौ च ज्वलितं पुनः । दीप्ते च ज्वलिते चाथ डिङ्गरो क्षेप्यगङ्गरौ ॥ २३ ॥ Nānārthārṇavasaṃkṣepa 3.4.23
- नानार्थार्णवसंक्षेप आशयसङ्घे चेतसि चेत्याह सज्जनो विभवे त्वमुम् । अजयः प्राह रूपेण पुनर्जीर्णे च भेद्यवत् ॥ १८४ ॥ Nānārthārṇavasaṃkṣepa 4.184
- नानार्थार्णवसंक्षेप जरणकात्यायन्यामिन्द्रपुत्र्यां तर्कार्यां तिथिभेदके । त्रिस्तु जेतर्यथो जीर्णे जरणं क्ली च हिङ्गुनि ॥ ७७१ ॥ Nānārthārṇavasaṃkṣepa 4.771
- नानार्थार्णवसंक्षेप जर्जरदण्डिकासंज्ञके द्वे तु कोकिले भेद्यवत् पुनः । जीर्णे भिन्ने परे ना तु जगलं पिष्टमद्यके ॥ ७७४ ॥ Nānārthārṇavasaṃkṣepa 4.774
- नानार्थार्णवसंक्षेप यातयाममत्तनागे मदकलो मदेनाव्यक्तवाचि च । यातयामं तु जीर्णे स्यात् परिभुक्तोज्झितेऽपि च ॥ २४ ॥ Nānārthārṇavasaṃkṣepa 6.24
- शब्दरत्नावली जरठअम्बष्ठा यूथिका केशी पाठाम्ललीनिकासु च । कमठः कच्छपे वंशे क्लीबं भाण्डविशेषके ॥ कनिष्टाङ्गुलिभेदेऽतियुवात्यल्पानुजेषु ना । जरठः कठिने पाण्डौ जीर्णे तु वाच्यलिङ्गकः ॥ Śabdaratnāvalī 7.12.10
- शब्दरत्नावली जरणजरणो जीरके जीर्णे कृष्णे सौवर्चलेऽपि च । जरणं हिङ्गुनि ख्यातं क्लीबं स्यादोषधीभिदि ॥ Śabdaratnāvalī 7.15.36
- शब्दरत्नावली वृद्धवृद्धः प्रवृद्धे जीर्णे ज्ञे त्रिषु क्लीबञ्च शैलजे । वृद्धिर्योगे वर्द्धने स्यादष्टवर्गौषधिभिदि ॥ Śabdaratnāvalī 7.19.14
- शब्दरत्नावली यातयामसंख्याभेदे निधौ नागे महापद्मो भवेत्पुमान् । परिभुक्तोज्झिते जीर्णे यातयामोऽपि वाच्यवत् ॥ Śabdaratnāvalī 7.25.49
- शब्दरत्नाकर जर्जरश्रमणे जीवयितरि वृद्धिजीविनि जीवकः । जर्जरस्त्रिषु जीर्णेऽपि जनकोऽपि नृपान्तरे ॥ २०९२ ॥ Śabdaratnākara 4.1.2092
- वैजयन्ती जरठजरठः कठिने जीर्णे तलिनो विरलाल्पयोः । पशुः कालेऽपि निश्शृंगो नरोऽश्मश्रुश्च तूपरौ ॥ १२ ॥ Vaijayantī 7.4.12
- वैजयन्ती आशयकोट्टारे कृपणे जीर्णे स्थानेऽभिप्राय आशयः । शर्करायां दृषत्पुत्रे स्त्र्यस्त्र्यश्मन्युपलो मणौ ॥ १७ ॥ Vaijayantī 7.5.17
- वैजयन्ती जर्जरजर्जरस्त्रिषु जीर्णे स्यात् पुमानिन्द्रध्वजे पिके । टगरष्टंगनक्षारे नाकेकरदृशि त्रिषु ॥ ४१ ॥ Vaijayantī 7.5.41
- वैजयन्ती यातयामयातयामं यातयामे जीर्णे भुक्तोज्झितेऽपि च । लालाटिकः प्रभोश्छन्ददर्शी कार्याक्षमश्च यः ॥ ११ ॥ Vaijayantī 8.4.11