कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

नूतन

nūtanaवि · adj.

In 16 kośas: 13 synonym verses, 1 as a nānārtha head word, 5 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.101 · p. 55
नवं नवीनं सद्यस्कं प्रत्यग्रं नूत्ननूतने ।नव्यं चाभिनवे जीर्णे पुरातनं चिरंतनम् ॥ १४४८ ॥पुराणं प्रतनं प्रत्नं जरन्मूर्तं तु मूर्तिमत् ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.77
प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः ॥ ७७ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.711 · p. 82
जीर्णं जरत्पुराणं प्रत्नं प्रतनं पुरातनं प्रोक्तम् ।नव्यं नवं नवीनं स्यान्नूतनमभिनवं नूत्नम् ॥ ७११ ॥
आर्या
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.137 · p. 229
नवीनो नूतनो नव्यः प्रत्यग्रो नूतनो नवः ।अथ स्यात्सुकुमारं तु कोमलं मृदुलं मृदु ॥ १३७ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.3 · p. 22
विरलं पेलवं तच्च द्रवं( ? )तनु च संस्मृतम् ।नवं नवीनं नूत्नं च प्रत्यग्रं नव्य-नूतने ॥ ३ ॥
अनुष्टुप्
genderविadj.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 156 · p. 75
प्रत्यग्रं साम्प्रतं नव्यं नवं नूतनमग्रिमम् ।पुराणं जठरं जीर्णं प्राक्तनं सुचिरन्तनम् ॥ १५६ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.336 · p. 93
सद्यस्कं नूतने नूत्नं नवीनं नव्यनामकम् ।प्रत्यग्राभिनवे जीर्णं पुरातनचिरंतने ॥ ३३६ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.478 · p. 87
नवनीते च संप्रोक्तं नवनीतं नवोद्धृतम् ।दण्डाहतं कालशेयमरिष्टं नूतनं सनम् ॥ ४७८ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.700 · p. 118
प्रवृद्धं मूर्तिमन्मूर्तं कठोरं निष्ठुरं तथा ।नवे त्वभिनवो नव्यो नवीनो नूत्ननूतनो ॥ ७०० ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2631 · p. 424
अभिनवं नवं नव्यं नवीनं नूत्ननूतने ।प्रत्यग्रं चैव सद्यस्कं नामान्यष्टौ भवन्ति वै ॥ २६३१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.47 · p. 253
नव्यवन्नूतनं नूत्नं, जीर्णं जरति जर्णवत् ।प्रणं प्रीणं पुराणं च प्रतनं च पुरातनम् ॥ ४७ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1627 · p. 196
कर्कशे तु घनक्रूरकठोरदृढनिष्ठुराः ।जरठः कठिनो नूत्नो नूतनोऽभिनवो नवः ॥ १६२७ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.88 · p. 208
नूत्ने त्वभिनवो नव्यो नवीनो नूतनो नवः ।शाश्वते त्वमृतो नित्यः सनातनसदातनौ ॥ ८८ ॥
अनुष्टुप्
genderविadj.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1045 · p. 138
स्वान्नीलि-रि स त्रिस्तु नूतनं नववस्तुनि ।वृष्टिसर्जनरश्मीनां पुनः सूर्यस्य नूतनाः ॥ १०४५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 स्वा (syllables merged)

नूतन as a meaning in nānārtha verses

  • धरणिकोश तरुणकरुणः सदये वृक्षभेदे च करुणा दया । तरुणं विदुरेरण्डं तरुणौ युवनूतनौ ॥ Dharaṇikośa 14.2.23
  • नानार्थार्णवसंक्षेप मुग्धमाष्यं तु हिंस्ये माषीणे माषसाधौ च तद्धिते । म्लिष्टं म्लानेऽप्यविस्पष्टवाक्ये मुग्धं तु नूतने ॥ १९ ॥ Nānārthārṇavasaṃkṣepa 2.4.19
  • परमानन्दीयनाममाला तरुणतक्षको भुजगे तक्ष्णि तरणी रविबेडयोः । तरुणो नूतने यूनि तारकं नेत्रतारयोः ॥ २३० ॥ Paramānandīyanāmamālā 5.15.230
  • शब्दरत्नावली नवतर्कनिश्चितयोः क्लीबं नित्यनिश्चलयोस्त्रिषु । स्त्रियान्तु शालपर्ण्यां स्यात्तथा साध्वी स्त्रियामपि ॥ गीतभेदे च स्रुग्भेदे त्रिलिङ्ग्यामाह माधवः । नवस्त्रिषु नूतने स्यात्स्तुतिमात्रे पुमानयम् ॥ नीवी परिपणे स्त्री तु स्त्रीकट्यंशुकबन्धने । पक्वं विनाशाभिमुखे तथा परिणते त्रिषु ॥ प्लवो ना विहगे भेके निषादे भेलके कपौ । शलके प्रेरणे शत्रौ श्वपचे प्लवनेऽपि च ॥ Śabdaratnāvalī 7.29.13
  • त्रिकाण्डशेष नवध्रुवो वटे स्मरारौ च गीतिस्रुग्भेदयोर्ध्रुवा । धवो धूर्त्तेऽप्यथ नवो नूतने वासवे स्तुतौ ॥ ४१७ ॥ Trikāṇḍaśeṣa 3.3.417