कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पुराण

purāṇaक्ली · neut.

In 20 kośas: 31 synonym verses, 5 as a nānārtha head word, 10 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.252 · p. 15
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।वंशानुवंशचरितं पुराणं पञ्चलक्षणम् ॥ २५२ ॥
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.253 · p. 15
षडङ्गा वेदाश्चत्वारो मीमांसान्वीक्षिकी तथा ।धर्मशास्त्रं पुराणं च विद्या एताश्चतुर्दश ॥ २५३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दा (wrong syllable)
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.101 · p. 55
नवं नवीनं सद्यस्कं प्रत्यग्रं नूत्ननूतने ।नव्यं चाभिनवे जीर्णे पुरातनं चिरंतनम् ॥ १४४८ ॥पुराणं प्रतनं प्रत्नं जरन्मूर्तं तु मूर्तिमत् ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शब्दादिवर्गः Amarakośa 1.6.5
आख्यायिकोपलब्धार्था पुराणं पञ्चलक्षणम् ॥ ५ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.711 · p. 82
जीर्णं जरत्पुराणं प्रत्नं प्रतनं पुरातनं प्रोक्तम् ।नव्यं नवं नवीनं स्यान्नूतनमभिनवं नूत्नम् ॥ ७११ ॥
आर्या
genderविadj.
बालप्रबोधिका Bālaprabodhikā · नत्कीर पञ्चमोपदेशः Bālaprabodhikā 5.76 · p. 73
साधुवादः समख्या स्याच्छ्लोको व्याहरणं जनैः ।कथा त्वाख्यायिकाऽऽख्यानं पुराणं पञ्चलक्षणम् ॥ ७६ ॥
अनुष्टुप्
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर पञ्चमोपदेशः Bālaprabodhikā 5.83 · p. 73
मीमांसया पुराणेन गान्धर्वं नीतिशासनम् ।आयुर्वेदो वैद्यशास्त्रं दण्डनीत्यर्थशास्त्रकम् ॥ ८३ ॥
अनुष्टुप्
genderक्लीneut.
पुरातनं पुराणं स्यात् प्रतनं प्रत्नमुच्यते ।नवं नव्यं नवीनं च चिक्कण(णः?) चिक्वणः समौ ॥ २६० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण (wrong syllable)
genderविadj.
एकादिसंख्यासंज्ञाकोष Ekādisaṃkhyāsaṃjñākoṣa · अज्ञात पञ्चदश-षोडशसंख्यावाचकाः शब्दाः Ekādisaṃkhyāsaṃjñākoṣa 14.26 · p. 201
सप्तदश संयमाश्चाष्टादश विद्या-पुराणानि ।द्वीपाः स्मृतयो ज्ञाताध्ययनान्येकोनविंशतिगतानि ॥ २६ ॥
उद्गीतिः
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.136 · p. 229
प्रवृद्धं प्रतनं प्रत्नं पुराणं च पुरातनम् ।प्राणं चिरन्तनं चापि स्त्रीपुराणा पुराण्यपि ॥ १३६ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.38 · p. 443
आन्वीक्षिकी तर्कविद्या न्यायः स्यादर्थशास्त्रयोः ।पुराणमष्टादशधा तदेवं पञ्चलक्षणम् ॥ ३८ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.94 · p. 471
पिङ्गाणतीक्ष्णद्रविणपुराणानामृणस्य च ।घ्राणपर्याणहरिणलवणानां शणस्य च ॥ ९४ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.6 · p. 66
शास्त्रे दर्शनमप्यथाधिकरणं न्यायो नयः सम्मतोमीमांसा तु विचारणा विधिरिहाप्राप्तार्थसंप्रापणम् ।आन्वीक्षिक्युदितात्र तार्क्किकनयः सर्गादिभिः पञ्चभिःसंयुक्तं किल पञ्चलक्षणमिति प्रोक्तं पुराणं च तत् ॥ ६ ॥
शार्दूलविक्रीडितम्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.4 · p. 22
अयातयामं सद्यस्कं तरुणाभिनवे समे ।पुराणं प्रतनं प्रत्नं जरज्जीर्णं पुरातनम् ॥ ४ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.98 · p. 106
भाण्डाण्ड-तुण्डानि च चक्रवाडंगूढं च तीक्ष्ण-ग्रहणेरणानि ।द्राणं पुराणं द्रविणं शणेर्णेकल्याण-पल्याण-निरूपणा[228b]नि ॥ ९८ ॥
इन्द्रवज्राmetre not read in every line
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 156 · p. 75
प्रत्यग्रं साम्प्रतं नव्यं नवं नूतनमग्रिमम् ।पुराणं जठरं जीर्णं प्राक्तनं सुचिरन्तनम् ॥ १५६ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.170 · p. 26
अङ्गषट्कं तथा वेदा मीमांसान्वीक्षिकी तथा ।पुराणं धर्मशास्त्रं च विद्याश्चैताश्चतुर्दश ॥ १७० ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.3.90 · p. 222
पुराणं हिरणं क्षूणं घोरणोष्णोर्णमित्यपि ।श्रीपर्णघ्राणपर्याणप्रादेशान्तान्यृणं शणम् ॥ ९० ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त शब्दमरीचिः Pañcatattvaprakāśa 6.2.362 · p. 25
स्मृतिर्वेदार्थगुटिका मुनिवाक् धर्मसंहिता ।इतिहासः पुरावृत्तं पुराणं पञ्चलक्षणम् ॥ ३६२ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.145 · p. 33
षडङ्गा वेदाश्वत्वारो मीमांसान्विक्षिकी तथा ।धर्मशास्त्रं पुराणं च विद्या एताश्चतुर्दश ॥ १४५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दा (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.365 · p. 47
मन्वन्तराणि यत्र स्युः पुराणं पञ्चलक्षणम् ।षडङ्गसहिता वेदाः मीमांसाऽऽन्विक्षिकी तथा ॥ ३६५ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.366 · p. 47
त्रयोदशं धर्मशास्त्रं पुराणं च चतुर्दशम् ।चतुर्दशैताः विधाः स्युः लोकशास्त्रे हि उत्तमाः ॥ ३६६ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2632 · p. 424
जरत् जीर्णं पुराणञ्च पुरातनं चिरन्तनम् ।प्रत्नञ्च प्रतनमिति नामात्र संप्रयुज्यते ॥ २६३२ ॥
metre not recognised
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.358 · p. 25
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।वंशानुचरितञ्चेति पुराणं पञ्चलक्षणम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.173 · p. 149
विंशतिगण्डकामूल्यताम्रिके कार्षिके पणः ।कार्षापणः पुराणोऽस्त्री कार्षिकास्ते तु षोडशः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ति (wrong syllable)
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.47 · p. 253
नव्यवन्नूतनं नूत्नं, जीर्णं जरति जर्णवत् ।प्रणं प्रीणं पुराणं च प्रतनं च पुरातनम् ॥ ४७ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तिभेदाध्यायः Śabdaratnākara 2.7.916 · p. 115
इतिहासः पुरावृत्तं पुराणं पञ्चलक्षणम् ।ब्रह्माण्डपाद्मवैष्णवभागवताग्नेयशैवलैङ्गानि ॥ ९१६ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1628 · p. 196
नव्यो नवीनः प्रत्यग्रः पुराणस्तु पुरातनः ।प्राक्तनः प्रतनः प्रत्नः स्याच्चिरंतन इत्यपि ॥ १६२८ ॥
अनुष्टुप्
genderविadj.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव विशेष्यनिघ्नवर्गः Trikāṇḍaśeṣa 3.1.18 · p. 84
माशब्दिकः प्रतिषेद्धा जडमातृसुखौ समौ ।प्राणं पुराणं भिन्नं तु व्यवच्छिन्नं विशेषितम् ॥ १८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश शब्दाध्यायः Vaijayantī 2.4.38 · p. 34
कथा त्वाख्यायिकाख्यानं पुराणं पंचलक्षणम् ।इतिहासः पुरावृत्तमैतिह्यमितिहाव्ययम् ॥ ३८ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.29 · p. 85
मीमांसया पुराणेन स्मृत्या न्यायगणेन च ।आयुर्वेदो वैद्यशास्त्रं गांधर्वं गीतिशासनम् ॥ २९ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ णान्ताः Koṣakalpataru 6.15.48 · p. 201
जीर्णे वाच्यसमं पुराणमयुगे स्यात्पञ्चलक्ष्मण्यपिग्रन्थे भोगिकनायके क्षुरिणि ना ग्रामाधिपे ग्रामणीः ।श्रेष्ठे च त्रितये स्त्रियां तु गदिता नील्यां च वारस्त्रियांग्राम्यायां च घृणौ तु[284a] पुंसि किरणो विक्षेपणे त्वन्तिमे ।द्रुमभित्सेतुशालेषु वरणो नान्तिमे वृतौ ।गुणिन्यृजौ च प्रगुणो रवणः शब्दने खरे ॥ ४८ ॥
शार्दूलविक्रीडितम्two metres in one verse
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1186 · p. 151
षड्विंशतेः सर्पजातिभेदानां स्याद्द्वयोरयम् ।एकत्र भेदेऽथ क्लीबं पुराणं पञ्चलक्षणे ॥ ११८६ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1187 · p. 151
ग्रन्थभेदे पुमांस्तु स्यात् कार्षिके त्रिश्चिरन्तने ।यदा तत्र स्त्रियां वृत्तिः पुराणा च पुराण्यपि ॥ ११८७ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश णान्ताः Śabdaratnāvalī 7.15.50 · p. 210
पुराणस्तु पणे पुंसि त्रिषु स्याच्च पुरातने ।अस्त्री कार्षापणे क्लीबलिङ्गन्तु पञ्चलक्षणे ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्तु (wrong syllable)
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.134 · p. 137
ग्रन्थे कार्षापणे चास्त्री पुराणमनवे त्रिषु ।पाणिः पादे व्यूहपृष्ठे वाणी व्यूतिश्च भारती ॥ १३४ ॥
अनुष्टुप्

पुराण as a meaning in nānārtha verses