All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
पातालकाण्डः · आतङ्कवर्गः (3/3)
उज्ज्वलं विमलं वीध्रं निर्माल्यं निर्मलं शुचि ।अवदातं विशुद्धं च विशदं स्यादनाविलम् ॥ ७२ ॥
3.3.72 · p. 19
अनुष्टुप्
निर्णिक्तं शोधितं धौतं स[170b]मूढं क्षालितं तथा ।मृष्टं च पावितं चोक्षं निःशोध्यमनवस्करम् ॥ ७३ ॥
3.3.73 · p. 19
अनुष्टुप्metre not read in every line
असारं फल्गु सारं तु वरं क्लीबे ध्रुवं क्वचित् ।शून्यं शुन्यं रिक्तकं च वशिकं तुच्छमित्यपि ॥ ७४ ॥
3.3.74 · p. 19
अनुष्टुप्
तलिनं चाथ मोघं स्यादन्तर्गडु निरर्थकम् ।निष्प्रयोजन-वन्ध्ये च निष्फलं च मुधाव्ययम् ।प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु ॥ ७५ ॥
3.3.75 · p. 19
अनुष्टुप्
पुरुहं पुरु च स्फारं स्फिरं भूरि च पुष्कलम् ॥ ७५ ॥
3.3.75 · p. 19
बहोः स्फिरस्यातिशये बहुलस्य यथाक्रमम् ।भूयिष्ठ-भूयसी स्फेष्ठ-स्फेयसी च प्रकीर्तितः ॥ ७६ ॥
3.3.76 · p. 19
अनुष्टुप्
बंहिष्ठं चापि बंहीयो भावे भूमा न च स्त्रियाम् ।स्फेमा च बंहिमा चाथ स्तोकमल्पं कृशं तनु ॥ ७६ ॥
3.3.76 · p. 19
अनुष्टुप्
दभ्राणू तलिनं तुच्छं क्षुल्लकं क्षुद्रकं दरम् ।सूक्ष्मं श्लक्ष्णं पेलवं च लव-लेश-कणा नरि ॥ ७७ ॥
3.3.77 · p. 19
अनुष्टुप्
त्रुटिस्तुटिश्च मात्रा स्त्री ह्रस्वं तु लघु संस्मृतम् ।अत्यल्पेऽल्पिष्ठमल्पीयः कनीयोऽणीय इत्यपि ॥ ७८ ॥
3.3.78 · p. 19
अनुष्टुप्
कणीयश्च तनीयश्च लघीयस्तु[171a] लघिष्ठवत् ।ह्रसिष्ठं च ह्रसीयश्च [ ह्रस्व ] स्यातिशये भवेत् ॥ ७९ ॥
3.3.79 · p. 20
अनुष्टुप्metre not read in every line
क्रशिमा तनिमा भावे तानवं तनुता तथा ।लघिमा ह्रसिमा पुंसि लाघवं लघुता स्त्रियाम् ॥ ८० ॥
3.3.80 · p. 20
अनुष्टुप्
करालमायतं दीर्घं तुङ्गमुन्नतमुद्धुरम् ।उच्च-प्रांशूच्छ्रितोदग्राण्यथ दीर्घातिशायने ॥ ८१ ॥
3.3.81 · p. 20
अनुष्टुप्
द्राघीयः कथितं चापि द्राघिष्ठं च समार्थकम् ।द्राघिमा दीर्घता दैर्घ्यं क्रमाल्लिङ्गत्रये मताः ॥ ८२ ॥
3.3.82 · p. 20
अनुष्टुप्
ह्रस्वयल्लँघयन्द्राघयंश्च तत्तत्कराः स्मृताः ।खर्वं कुब्जं वामनं च न्यङ् नीचं मन्थरं तथा ॥ ८३ ॥
3.3.83 · p. 20
metre not recognised
अधोमुखमवाग्रं स्यादुभे चावनतानतम् ।विशङ्कटं विशालं स्याद्विकटं पृथुलं पृथु ॥ ८४ ॥
3.3.84 · p. 20
अनुष्टुप्
उरु व्यूढं च विपुलं स्फारं गुरु ततं बृहत् ।महद्बहु च विस्तीर्णं वरीयस्तु वरिष्ठवत् ॥ ८५ ॥
3.3.85 · p. 20
अनुष्टुप्
गरिष्ठं च गरीयश्च प्रथीयश्च प्रथिष्ठवत् ।वरिमा गरिमा भावे प्रथिमा पितृलिङ्गकः ॥ ८६ ॥
3.3.86 · p. 20
अनुष्टुप्
गरयन्प्रथयंश्च स्याद्वरयन्पृथुकारकः ।उच्चावचं नैकभेदं बन्धूरं ब[171b]न्धुरं समे ॥ ८७ ॥
3.3.87 · p. 20
अनुष्टुप्metre not read in every line
यदुन्नतं चानतं स्याद्विषमं स्थपुटं भवेत् ।वृत्तं तु वर्तुलं प्रोक्तं निस्तलं परिमण्डलम् ॥ ८८ ॥
3.3.88 · p. 20
अनुष्टुप्
वक्रं तु कुटिलं भुग्नं कुटिलं कुञ्चितं नतम् ।आविद्धाराल-जिह्मोर्मिमद्-वङ्क-वृजिनानि च ॥ ८९ ॥
3.3.89 · p. 20
अनुष्टुप्
भङ्गुरं वेल्लितं जैह्म्यं भावे कौटिल्यमित्यपि ।ऋजावजिह्म-प्रगुण-सरलाः परिकीर्तिताः ॥ ९० ॥
3.3.90 · p. 21
अनुष्टुप्
ऋजिष्ठश्च ऋजीयांश्च ऋजोः स्यादतिशायने ।ऋजिमा त्वार्जवं भावे तत्रैव ऋजुता स्त्रियाम् ॥ ९१ ॥
3.3.91 · p. 21
अनुष्टुप्
आकुलः स्यादप्रगुणो व्यस्तो लुभित इत्यपि ।विमोहितो लुभितवान्भावे त्वाकुलता स्त्रियाम् ॥
3.3.263 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द (wrong syllable)
अशेष-निःशेष-समस्त-सर्वेकृत्स्नाखिलाखण्ड-समग्र-विश्वे ।अन्यून-पूर्णे सकलं समं चन्यक्षं तथाक्ष्णे( ? )न्निखिलं सिमं च ॥ ९२ ॥
3.3.92 · p. 21
उपजातिः
द्वयोरेकस्य निर्द्धारप्रश्नार्थे कतरद्भवेत् ।कतमत्तु बहूनां चेत्कस्तु प्रश्नार्थको भवेत् ॥ ९३ ॥
3.3.93 · p. 21
अनुष्टुप्
निर्द्धारे स्वप्रकृत्यर्थवाचका यतरादयः ।त्वत्त्वमन्य[172a]च्चान्यतरदितरत्परमित्यपि ।एकं भिन्नं समार्थं स्यादैक्यभावे विनिर्दिशेत् ।परस्परस्तथान्योन्य इतरेतर इत्यपि ।कर्मणो व्यतिहारे स्यान्मिथ इत्यव्ययं तथा ॥ ९५ ॥
3.3.95 · p. 21
अनुष्टुप्metre not read in every line
स्त्रीषण्ढे तु विशेष्ये स्यादन्योन्यां च परस्पराम् ।तथेतरेतरां सर्वविभक्तिषु विकल्पतः ॥ ९६ ॥ ९४ ॥
3.3.96 · p. 21
अनुष्टुप्
पुंस्यादि-पूर्व-पौरस्त्य-प्रथमे चाद्य आदिमः ।अग्रं च मध्यमीयं तु मध्यमं माध्यमं तथा ॥ ९५ ॥
3.3.95 · p. 21
अनुष्टुप्
माध्यंदिनमथान्तोऽस्त्री जघन्यमवरान्तिमे ।पश्चिमापर-पाश्चात्त्याः पश्चात्तु चरमेऽव्ययम् ॥ ९६ ॥
3.3.96 · p. 21
अनुष्टुप्
उदीच्य उत्तरोऽनूर्ध्वस्त्वधरो विनिगद्यते ।अन्तरः परिधानीयस्त्य-इदौ बुद्धिगब्रुवौ ॥ ९७ ॥
3.3.97 · p. 21
अनुष्टुप्
यच्छब्दो विप्रकृष्टार्थेऽथेदमेतददोऽपि च ।बुद्धिस्थसंनिकृष्टार्थेऽथैकाकी ह्येक एककः ॥ ९८ ॥
3.3.98 · p. 22
अनुष्टुप्
असहायो भवद्युष्मच्छब्दौ संबोध्यवाचकौ ।अस्मत्संबोधकार्थः स्यादस्मीत्यव्ययमत्र च ॥ २०० ॥
3.3.200 · p. 22
अनुष्टुप्
सर्वाः स्युः सर्वसंज्ञा ये प्रियसर्वाः प्रिया[172b]खिलाः ।घनं निरन्तरं सान्द्रं नीरन्ध्रं बहलं दृढम् ॥ १ ॥
3.3.1 · p. 22
अनुष्टुप्metre not read in every line
निबिडं निबिरीसं च गाढं चाविरलं च तत् ।द्रढिष्ठं तु द्रढीयः स्याद्दार्ढ्यं तु द्रढिमा नरि ॥ २ ॥
3.3.2 · p. 22
अनुष्टुप्
विरलं पेलवं तच्च द्रवं( ? )तनु च संस्मृतम् ।नवं नवीनं नूत्नं च प्रत्यग्रं नव्य-नूतने ॥ ३ ॥
3.3.3 · p. 22
अनुष्टुप्
अयातयामं सद्यस्कं तरुणाभिनवे समे ।पुराणं प्रतनं प्रत्नं जरज्जीर्णं पुरातनम् ॥ ४ ॥
3.3.4 · p. 22
अनुष्टुप्
चिरंतनं यातयामं तत्पटच्चरमित्यपि ।अवशिष्टं च[शिष्टं]च तथोर्वरितमित्यपि ।अधिकं त्वतिरिक्तं स्यादूनं न्यूनं च हीनवत् ॥ ५ ॥
3.3.5 · p. 22
अनुष्टुप्metre not read in every line
समीपं सनीडं सवेशं सदेशंतथाभ्यर्णमभ्याशमभ्यासमुक्तम् ।समर्यादमासन्नमभ्यग्रमस्मिं-स्त[था]संनिकृष्टं भवेदन्तिकं च ॥ ६ ॥
3.3.6 · p. 22
भुजङ्गप्रयातम्
निकटं सविधमुपान्तं तथोपकण्ठं च संनिधानं च ।पार्श्वं च संनिकर्षः पुंसि तथा संनिधिश्चात्र ॥ ७१ ॥
3.3.71 · p. 22
आर्या
अविदूरं च नेदिष्ठं नेदीयोऽत्यन्तमन्तिकम् ।भवेदङ्गुलिषङ्गं तत्सक्तमङ्गुलिभिर्हि यत् ॥ ८ ॥
3.3.8 · p. 22
अनुष्टुप्
अनन्तरं स्यादपटान्तरं चसंसक्तमत्रा[173a]व्यवधानलग्ने ।स्याद्विप्रकृष्टं च परं च दूरंदवीय उक्तं च दविष्ठतुल्यम् ॥ ९ ॥
3.3.9 · p. 23
उपजातिःmetre not read in every line
स्याद्दूरान्तिकयोर्भावे दविमा नेदिमा क्रमात् ।स्फुटं स्पष्टं प्रकाशं च प्रकटं व्यक्तमुल्बणम् ॥ १० ॥
3.3.10 · p. 23
अनुष्टुप्
उद्धतं चोत्कटं च स्यादुद्रिक्तं स्पाशितं च तत् ।आविष्कृतं प्रकटितं दर्शितं च प्रकाशितम् ॥ ११ ॥
3.3.11 · p. 23
अनुष्टुप्
आवृतं संवृतं छन्नं संवीतमपवारितम् ।पिहितं स्थगितं चापिहितमन्तर्हितं तथा ॥ ११ ॥
3.3.11 · p. 23
अनुष्टुप्
तिरोहितं गूहितं च रुद्धमाच्छादितं च तत् ।अवकी[लित?]मुत्तालमुच्चण्डमवलम्बितम् ।अनश्वरं तु शाश्वतं सनातनं सदातनंध्रुवं च नित्यमक्षयं स्थिरं त्वकम्पमुच्यते ॥
3.3.285 · p. 23
अनुष्टुप्two metres in one verse
स्थाणुः स्थिरतरः स्थेयान्स्थविष्ठश्च निगद्यते ।स्थेमा तु स्थिरभावे स्यात्स्थापकः स्थैर्यकारकः ॥ १२ ॥
3.3.12 · p. 23
अनुष्टुप्
एकरूपतया कालव्यापी कूटस्थ उच्यते ।जङ्गमान्यत्स्थावरं स्याज्जङ्गमं तु त्रसं चरम् ॥ १३ ॥
3.3.13 · p. 23
अनुष्टुप्
चराचरं च[रि]ष्णु स्यादिङ्गं जगदपि स्मृतम् ।चपलं[173b] तरलं लोलं चञ्चलं [च] चलाचलम् ॥ १४ ॥
3.3.14 · p. 23
अनुष्टुप्metre not read in every line
चलनं चञ्चलं कम्प्रं कम्पनं चटुलास्थिरे ।एजनं वेपनं वेपि पारिप्लव-परिप्लवे ॥ १५ ॥
3.3.15 · p. 23
अनुष्टुप्
ईषत्करं तु सुकरं दुष्करं दुर्विधं च तत् ।दुष्प्रापं दुर्लभं तुल्ये सुप्रापं सुलभं समे ॥ १६ ॥
3.3.16 · p. 24
अनुष्टुप्
स्याद्दुराढ्यंभवं च्व्यर्थे दुराढ्यंकरमित्यपि ।ईषदाढ्यंकरं तु स्यात्तथा स्वाढ्यंकरं भवेत् ॥ १७ ॥
3.3.17 · p. 24
अनुष्टुप्
उपस्थितं तूपनतमुपसंपन्नमित्यपि ।संहतं दृढसंधि स्याच्छ्लथं तु शिथिलं मतम् ॥ १६ ॥
3.3.16 · p. 24
अनुष्टुप्
मूर्तिमत्तु भवेन्मूर्तं प्रवृद्धं प्रौढमेधितम् ।अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम् ॥ १७ ॥
3.3.17 · p. 24
अनुष्टुप्
एकतानोऽ[न]न्यवृत्तिरेकाग्रैकायनावपि ।अप्येकसर्ग ऐकाग्रोऽप्येकायनगतोऽपि सः ॥ १८ ॥
3.3.18 · p. 24
अनुष्टुप्
निरर्गलं त्वबाधं स्यादुद्दामोच्छृङ्खले अपि ।अयन्त्रितानङ्कुशे चानुकूलं त्वनुलोमवत् ॥ १९ ॥
3.3.19 · p. 24
अनुष्टुप्
प्रसव्यं प्रतिकूलं स्यात्प्रतिलोममपष्ठुरम् ।विलोममपसव्यं च प्रतीपं वाममित्य[174a]पि ॥ २० ॥
3.3.20 · p. 24
अनुष्टुप्metre not read in every line
अपष्ठ्वव्ययमत्राथ सव्यं स्याद्वाममङ्गकम् ।दक्षिणं त्वपसव्यं स्यात्संबाधः पुंसि संकटम् ॥ २१ ॥
3.3.21 · p. 24
अनुष्टुप्
विसंष्ठुलं संकुचितं कलिलं गहनं समे ।करम्बः कबरो मिश्रः संपृक्तः खचितश्च सः ॥ २२ ॥
3.3.22 · p. 24
अनुष्टुप्
संकीर्णं कीर्णमाकीर्णमाकुलं च प्रकीर्णवत् ।पूनं विनष्टमाबर्हितं तून्मूलितमुद्धृतम् ॥ २३ ॥
3.3.23 · p. 24
अनुष्टुप्
उत्पाटितमथ च्छिन्नं छितं छातं च खण्डितम् ।दातं दितं च त्रुटितं छेदितं वृक्णमित्यपि ॥ २४ ॥
3.3.24 · p. 24
अनुष्टुप्
कृत्तं चावर्जितं तु स्याद्यत्करादिभिरानतम् ।अवदीर्णं विलीनं स्याद् द्रुतं विद्रुतमित्यपि ॥ २५ ॥
3.3.25 · p. 25
अनुष्टुप्
अभिश्यानं चाभिशीनं शीनं प्रस्तीममित्यपि ।प्रस्तीतं च द्रवद्रव्यकठिनीभाव ईरितम् ॥ २६ ॥
3.3.26 · p. 25
अनुष्टुप्
व्युष्टं विवर्तितं वृत्तं वृतं चावृत्तमित्यपि ।निष्पन्नं सिद्ध निर्वृत्ते संपन्नं राद्धमित्यपि ॥ २७ ॥
3.3.27 · p. 25
अनुष्टुप्
ग्रन्थितं ग्रथितं दृब्धं गुम्फितं संदितं च तत् ।संगूढं स्यात्संकलितं विसृतं विस्तृतं ततम् ॥ २८ ॥
3.3.28 · p. 25
अनुष्टुप्
अ[174b]न्तर्गतं विस्मृतं स्यात्प्राप्त-प्रणिहिते समे ।प्रेङ्खोलितं प्रेङ्खितं च धुतं धूतं च कम्पितम् ॥ २९ ॥
3.3.29 · p. 25
metre not recognisednearly अनुष्टुप्
आन्दोलितं तरलितं लुलितं वेल्लितं तथा ।न्यञ्चितं स्यादधः क्षिप्त[मूर्ध्वक्षिप्त]मुदञ्चितम् ॥ ३० ॥
3.3.30 · p. 25
अनुष्टुप्
परिक्षिप्तं वलयितं निवीतं परिवेष्टितम् ।निवृतं स्यात्संवलितं वलितं च समार्थकम् ।परिष्कृतं परीतं च त्यक्तं तूत्सृ[ष्ट]मुज्झितम् ॥ ३१ ॥
3.3.31 · p. 25
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्सं (wrong syllable)
धूतं हीनं विधूतं च मुक्तं हापितमित्यपि ।करम्बितं तूत्खचितमाच्छिन्नं तु बलाद्धृतम् ॥ ३२ ॥
3.3.32 · p. 25
अनुष्टुप्
प्रतारितं वञ्चितं स्यादतिसंहितमित्यपि ।नुन्न-नुत्तास्त-निष्ठ्यूताविद्ध-क्षिप्तेरिताः समाः ॥ ३३ ॥
3.3.33 · p. 25
अनुष्टुप्
मुषितं मूषितं च स्यात्स्तेनितं चोरितं च तत् ।प्रवृद्धं प्रसृतं स्फीतं न्यस्तं निहितमाहितम् ॥ ३४ ॥
3.3.34 · p. 25
अनुष्टुप्
निसृष्टं स्थापितं चाथ पिण्डितं गुणिताहते ।पुष्टे निदिग्धोपचिते[पू]षितं छुरितं पुनः ।लिप्तं दिग्धं चाभ्रलिप्ती त्वेकदेशेन तादृशी ॥ ३५ ॥
3.3.35 · p. 25
अनुष्टुप्metre not read in every line
गूढं गु[175a]प्तं तेजितं तु निशातं निशितं शितम् ।क्ष्णुतं शातं कुण्ठितं तु कुण्ठं च स्यादतेजितम् ॥ ३७ ॥
3.3.37 · p. 26
metre not recognised
शिक्ये धृतं काचितं स्याच्छिक्यितं चोद्धृतं पुनः ।समुदक्तं च निःसारितं च निष्काशितं च तत् ॥ ३८ ॥
3.3.38 · p. 26
अनुष्टुप्
रुग्णं भुग्नं च वङ्क्यं च पक्वं नाशोन्मुखं समे ।निष्पक्वं क्वथितं पाके क्षीराज्यहविषी शृतम् ॥ ३५ ॥
3.3.35 · p. 26
अनुष्टुप्
श्राणं तु श्रपितं चान्यत्संयोजितमुपाहितम् ।आरोपितं च मिलितं ध्मातं तु धमितं समम् ॥ ४० ॥
3.3.40 · p. 26
अनुष्टुप्
घ्राणं घ्रातं निष्कुषितं पुनर्निष्कुषितवत् समम् ।अवकीर्णं त्ववध्वस्तमपध्वस्तं विचूर्णितम् ॥ ४० ॥
3.3.40 · p. 26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
छिद्रितं वेधितं विद्धं तष्ट-त्वष्टे तनूकृते ।पाटितं दारितं भिन्नं भेदितं तु समार्थकम् ॥ ४१ ॥
3.3.41 · p. 26
अनुष्टुप्
भिन्नकं त्वेकदेशे तदूतं तु प्रोतमुच्यते ।दान्तं तु दमितं तुल्ये क्षुभितं तु विलोडिते ।ऊतं स्यूतमुतं चेति त्रितयं तन्तुसंतते ॥ ४२ ॥
3.3.42 · p. 26
अनुष्टुप्
पन्नं पतितं गलितं स्रस्तं ध्वस्तं च्युतं भ्रष्टम् ।स्कन्नं स्यन्नं तु भवेत्स्रुतं स्नुतं तत्र[175b]रीणं च ॥ ४३ ॥
3.3.43 · p. 26
metre not recognised
आर्द्रं सार्द्रं क्लिन्नं तिमितं स्तिमितं समुन्नमुत्तं च ।ज्ञप्तं ज्ञपितं शान्तं शमितं क्षान्तं तु मर्षितं सोढम् ॥ ४४ ॥
3.3.44 · p. 26
गीतिः
पूर्णं तु पूरितं स्याद्भरितं निचितं तथोभितं व्याप्तम् ।आचितमप्याच्छन्नं स्यात्पुनरुद्वान्तमुद्गतं तुल्यम् ॥ ४५ ॥
3.3.45 · p. 26
गीतिः
अस्तमितो निर्वाणो निर्वातः स्याद्गते वाते ।दस्तं दासितमुदितं प्रार्थितमर्दितं च तत्तुल्ये ॥ ४६ ॥
3.3.46 · p. 27
उपगीतिःmetre not read in every line
संघुषितं संघुष्टं स्वनितं ध्वनितं तथा स्वान्तम् ।आस्वनितमुक्तमुदितं व्याहृतमाख्यातमीरितं गदितम् ॥ ४७ ॥
3.3.47 · p. 27
उद्गीतिः
लपितं भणितं कथितं जल्पित-रणिते तथाभिहितम् ।बुद्धं बुधितं विदितं मनितं प्रतिपन्नमवसितावगते ॥ ४८ ॥
3.3.48 · p. 27
उद्गीतिः
कलितं ज्ञातं चाथ प्राप्यं गम्यं समासाद्यम् ।पाक्यं स्यात्पचनीयं त्ववश्यपाच्यं त्ववश्यपाकार्हे ॥ ४९ ॥
3.3.49 · p. 27
उद्गीतिः
वृष्यं वर्ष्यं शस्यं शस्यं मृज्यं तु मार्ग्यं स्यात् ।मृग्यं गवेषणीयं गुह्यं गोह्यं च गोप्यं च ॥ ५० ॥
3.3.50 · p. 27
उपगीतिः
विन्नं विचारितं स्याद्विभावितं[176a] तत्र वित्तं च ।क्लिशितं क्लिष्टं न्यर्णं समर्णके प्रोषितं प्रुष्टम् ॥ ५१ ॥
3.3.51 · p. 27
metre not recognised
प्लुष्टं दग्धं लब्धं त्वधिगतमासादितं च विन्नं च ।प्राप्तं भावित-भूते अन्विष्टं मार्गितं मृगितम् ॥ ५२ ॥
3.3.52 · p. 27
आर्या
अन्वेषितं गवेषितमथ हृष्टः प्रमुदितः प्रीतः ।प्रह्लन्न-तृप्त-मत्तानन्दित-संतुष्ट-निर्वृतास्तुल्याः ॥ ५३ ॥
3.3.53 · p. 27
उद्गीतिः
संतापितस्तु तप्तो धूपितमवमतमवहेलितं च परिभूतम् ।अवगणितमनादृतवच्चावज्ञातापहस्तिते चात्र ॥ ५५ ॥
3.3.55 · p. 27
metre not recognised
ऊरीकृतमुररीकृतमुरीकृतं चाश्रुतं प्रतिज्ञातम् ।अङ्गीकृतमभ्युपगतमुपश्रुतं संश्रुतोपगते ॥ ५६ ॥
3.3.56 · p. 27
आर्या
संगीर्ण-विदित-समाहित-संस्कृतवाच्यव्ययं त्वाम्स्यात् ।दृष्टं वीक्षितमालोकित-रूपित-निभालिता[नि] स्युः ॥ ५७ ॥
3.3.57 · p. 28
metre not recognised
श्रुतमाकर्णितवसिता( ? )दूर्णुतच्छादितानि संदिग्धम् ।प्रहितं प्रस्थापितकं प्रतिशिष्टं प्रेषितं चात्र ॥ ५८ ॥
3.3.58 · p. 28
आर्याmetre not read in every line
गूनं हन्नं च समं मीढं स्यान्मूत्रितं तुल्यम् ।विरतं सितमवसि[176b]तं प्रत्तं दत्तं वितीर्णं च ॥ ५९ ॥
3.3.59 · p. 28
metre not recognised
सूत्तं तु साधु दत्तं पीतं धीतं च लिप्तं तु ।भक्षित-चर्वित लीढ-प्रत्यवसित-गिलित-खादित-प्सातम् ॥ ६० ॥
3.3.60 · p. 28
उद्गीतिः
अभ्यवहृतान्न-जग्ध-ग्रस्त ग्लस्ताशितं भुक्तम् ।उदितमुदीतं तुल्यं द्युतितं द्योतितमप्यभिन्नार्थम् ॥ ६१ ॥
3.3.61 · p. 28
उद्गीतिःmetre not read in every line
स्तुतं पणितमीलितं पनितमीडितं वर्णितंपणायित-पनायित-प्रणुतमप्युपश्लोकितम् ।प्रशंसितमभिष्टुतं भवति कीर्तितं गीर्णवत्पतत्तु यदिहावृतं भवति तत्प्रतीष्टं भवेत् ॥ ६२ ॥
3.3.62 · p. 28
पृथ्वी
नमसितं तु नमस्यितमर्चितं महित-मर्हित-पूजित-वन्दितम् ।अपचितं ह्यपचायितं भवति तु श्रित सेवित शी[लि]तम् ॥ ६३ ॥
3.3.63 · p. 28
द्रुतविलम्बितम्metre not read in every line
वरिवसितं वरिवस्यितमुपासितं चोपचरितं च ।ध्यातं चिन्तितमुक्तं निदर्शितं स्यादुदाहृ***त् ॥ ६४ ॥
3.3.64 · p. 28
metre not recognised
समः समानः सदृशः सदृक्षःसदृक् सधर्मापि सरूप-तुल्यौ ।सवर्ण-साधारण-संनिभाश्चतथानुरूपश्च समार्थकाः[177a] स्युः ॥ ६५ ॥
3.3.65 · p. 28
उपेन्द्रवज्राmetre not read in every line
प्रख्य-प्रतीकाश-निभोपमानो-पमा-प्रकार-प्रतिम-प्रकाशाः ।संकाश-नीकाश-सनाभि-भूतरूपादयश्चोत्तरगाः समार्थाः ॥ ६६ ॥
3.3.66 · p. 29
उपजातिः
धर्मासाधारणा अन्ते स्थिताः सादृश्यबोधकाः ।घनश्यामः स्वर्णगौरः सुधांशुधवलो यथा ॥ ६७ ॥
3.3.67 · p. 29
अनुष्टुप्
व्यंसकाद्यास्त्वभेदेन सादृश्यप्रतिपादकाः ।मयूरव्यंसको विप्रबको यतिवृको यथा ॥ ६८ ॥
3.3.68 · p. 29
अनुष्टुप्
औपम्यबोधकः क्वापि प्रत्ययोऽप्युत्तरस्थितः ।वास्तेयं स्याद्वस्तिरिव शाख्यं शाखेव यद्गुरु ॥ ६९ ॥
3.3.69 · p. 29
अनुष्टुप्
तद्वच्छ्वेतपौण्डरिकं शार्करं शर्करेव यत् ।तथाङ्गुलिकमङ्गुल्या समं कार्कीकमित्यपि ॥ ७० ॥
3.3.70 · p. 29
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त (wrong syllable)
सीतेव प्रतिमा सीता पूजार्थे चित्रकेतुगा ।एवं रामः शिवोऽपण्ये पण्यो भवति रामकः ॥देवपथप्रतिकृतौ भवेद्देवपथस्तथा ।द्रव्यं भवेत्क्लीबमेव यथा द्रव्यमसौ द्विजः ॥ ७२ ॥
3.3.72 · p. 29
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 प (wrong syllable)
लपन्पिक इव प्रोक्तः पिकलापीत्यथाच[177b]रन् ।शिष्यं पुत्रमिवासौ स्यात्पुत्रीय( ? )थयंस्तथा ॥ ७३ ॥
3.3.73 · p. 29
metre not recognised
आचरेत्स च पुत्रायमाणो यस्त्वजवत्क्षणात् ।विनश्यत्यजनाशं स विनष्टः परिकीर्तितः ॥ ७४ ॥
3.3.74 · p. 29
अनुष्टुप्
सहरि स्याद्धरेः साम्यं ससखीत्यमुना समः ।इत्यादावव्ययीभावो णमुलन्तं तथाव्ययम् ॥ ७६ ॥
3.3.76 · p. 29
अनुष्टुप्
नानारूपं विविधं पृथग्विधं स्यात्तथा बहुविधं च ।अन्यादृशं विलक्षणमन्यादृक्षं तथान्यादृक् ॥ ७७ ॥
3.3.77 · p. 29
आर्या