कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

जटाटीर

jaṭāṭīraपुं · masc.

In 4 kośas: 4 synonym verses.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.65 · p. 14
पञ्चास्येश्वर-शंकर-प्रमथपा-भालाङ्क-उड्डीश्वरो-ऽप्युग्रो धूर्जटिरिन्दुशेखर-जटाटीरौ कपाली मृडः ।रुद्र-त्र्यम्बक-वामदेव-शिपिविष्टा अष्टमूर्त्तिर्महा-देवो दिग्वसनः श्मशानसदनो भीमो गिरीशः शिवः ॥ ६५ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज स्वर्गादिनामधेयप्रकरणम् Nāmamālikā 1.27 · p. 4
ईशाने कङ्कटीकः स्याज्जटाटीरकठोरकौ ।रुम्बाकर्णः शम्बरारिभेदनः श्रीधरः सितः ॥ २७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.48 · p. 6
संध्यानटमहाकालकण्ठेकालकपालिनः ।कटाटङ्कजटा टीररेरिहाणमहाव्रताः ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.44 · p. 6
कटाटंको जटाटीरो जटाझाटो महानटः ।हिण्डीकान्तो रेरिहाणः सर्वज्ञो नंदिवर्धनः ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.