महादेव
mahādevaपुं · masc.In 14 kośas: 12 synonym verses, 1 as a nānārtha head word, 24 as a meaning of another word.
शंभुः शर्वः स्थाणुरीशान ईशो रुद्रोड्डीशौ वामदेवो वृषाङ्कः ।कण्ठेकालः शंकरो नीलकण्ठः श्रीकण्ठोग्रौ धूर्जटिर्भीमभर्गौ ॥ १९५ ॥मृत्युंजयः पञ्चमुखोऽष्टमूर्तिः श्मशानवेश्मा गिरिशो गिरीशः ।षण्ढः कपर्दीश्वर ऊर्ध्वलिङ्ग एकत्रिदृग्भालदृगेकपादः ॥ १९६ ॥मृडोऽट्टहासी घनवाहनोऽहिर्बुध्नो विरूपाक्षविषान्तकौ च ।महाव्रती वह्निहिरण्यरेताः शिवोऽस्थिधन्वा पुरुषास्थिमाली ॥ १९७ ॥स्याव्द्योमकेशः शिपिविष्टभैरवौ दिक्कृत्तिवासा भवनीललोहितौ ।सर्वज्ञनाट्यप्रियखण्डपर्शवो महापरा देवनटेश्वरा हरः ॥ १९८ ॥पशुप्रमथभूतोमापतिः पिङ्गजटेक्षणः ।पिनाकशूलखट्वाङ्गगङ्गाहीन्दुकपालभृत् ॥ १९९ ॥गजपूषपुरानङ्गकालान्धकमखासुहृत् ।
शालिनी
शम्भुपुंशर्वपुंस्थाणुपुंईशानपुंईशपुंरुद्रपुंउड्डीशपुंवामदेवपुंवृषाङ्कपुंकण्ठेकालपुंशंकरपुंनीलकण्ठपुंश्रीकण्ठपुंउग्रपुंधूर्जटिपुंभीमपुंभर्गपुंमृत्युंजयपुंपञ्चमुखपुंअष्टमूर्तिपुंश्मशानवेश्मन्पुंगिरिशपुंगिरीशपुंषण्ढपुंकपर्दिन्पुंईश्वरपुंऊर्ध्वलिङ्गपुंएकदृश्पुंत्रिदृश्पुंभालदृश्पुंएकपादपुंमृडपुंअट्टहासिन्पुंघनवाहनपुंअहिर्बुध्नपुंविरूपाक्षपुंविषान्तकपुंमहाव्रतिन्पुंवह्निरेतस्पुंहिरण्यरेतस्पुंशिवपुंअस्थिधन्वन्पुंपुरुषास्थिमालिन्पुंव्योमकेशपुंशिपिविष्ठपुंभैरवपुंदिग्वासस्पुंकृत्तिवासस्पुंभवपुंनीललोहितपुंसर्वज्ञपुंनाट्यप्रियपुंखण्डपर्शुपुंमहादेवपुंमहानटपुंमहेश्वरपुंहरपुंपशुपतिपुंप्रमथपतिपुंभूतपतिपुंउमापतिपुंपिङ्गजटपुंपिङ्गेक्षणपुंपिनाकभृत्पुंशूलभृत्पुंखट्वाङ्गभृत्पुंगङ्गाभृत्पुंअहिभृत्पुंइन्दुभृत्पुंकपालभृत्पुंगजासुहृद्पुंपूषासुहृद्पुंपुरासुहृद्पुंअनङ्गासुहृद्पुंकालासुहृद्पुंअन्धकासुहृद्पुंमखासुहृद्पुं
genderपुंmasc.doubtful
शम्भुरीशः पशुपतिः शिवः शूली महेश्वरः ।ईश्वरः शर्व ईशानः शङ्करश्चन्द्रशेखरः ॥ ३० ॥भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः ।मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः ॥ ३१ ॥उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् ।वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः ॥ ३२ ॥कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः ।हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः ॥ ३३ ॥गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः ।व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः ।अहिर्बुध्न्योऽष्टमूर्तिश्च गजारिश्च महानटः ॥ ३४ ॥
अनुष्टुप्
शम्भुपुंईशपुंपशुपतिपुंशिवपुंशूलिन्पुंमहेश्वरपुंईश्वरपुंशर्वपुंईशानपुंशङ्करपुंचन्द्रशेखरपुंभूतेशपुंखण्डपरशुपुंगिरीशपुंगिरिशपुंमृडपुंमृत्युञ्जयपुंकृत्तिवासस्पुंपिनाकिन्पुंप्रमथाधिपपुंउग्रपुंकपर्दिन्पुंश्रीकण्ठपुंशितिकण्ठपुंकपालभृत्पुंवामदेवपुंमहादेवपुंविरूपाक्षपुंत्रिलोचनपुंकृशानुरेतस्पुंसर्वज्ञपुंधूर्जटिपुंनीललोहितपुंहरपुंस्मरहरपुंभर्गपुंत्र्यम्बकपुंत्रिपुरान्तकपुंगङ्गाधरपुंअन्धकरिपुपुंक्रतुध्वंसिन्पुंवृषध्वजपुंव्योमकेशपुंभवपुंभीमपुंस्थाणुपुंरुद्रपुंउमापतिपुंअहिर्बुध्न्यपुंअष्टमूर्तिपुंगजारिपुंमहानटपुं
genderपुंmasc.
अहिर्बुध्नो विरूपाक्षः शिपिविष्टो गणाधिपः ।गङ्गाधरो महादेवो मृडः स्यान्नीललोहितः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
महादेवः कङ्कटीकः कूटकृच्चाब्दवाहनः ।बहुरूपो देवमणिर्दिगम्बरवृषाकपी ॥ ८७ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 दे (wrong syllable)
genderपुंmasc.
पञ्चास्येश्वर-शंकर-प्रमथपा-भालाङ्क-उड्डीश्वरो-ऽप्युग्रो धूर्जटिरिन्दुशेखर-जटाटीरौ कपाली मृडः ।रुद्र-त्र्यम्बक-वामदेव-शिपिविष्टा अष्टमूर्त्तिर्महा-देवो दिग्वसनः श्मशानसदनो भीमो गिरीशः शिवः ॥ ६५ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.doubtful
[6] ईश्वरः शंभुरीशानो महादेवो महानटः ।महेश्वरमृडौ शर्वः स्थाणुः शंकरधूर्जटी ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
अपर्णोमा हैमवती शिवाऽम्बा गिरिशप्रिया ।शिवः शम्भुर्महादेवो रेरिहाणोऽन्धकद्विषत् ॥ ३८८ ॥
अनुष्टुप्
genderपुंmasc.
महेश्वरो महादेवः श्रीकण्ठः शंकरः शिवः ।उग्रः शूली मृडः शंभुस्त्र्यम्बकश्चन्द्रशेखरः ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
शैलधन्वा विशालाक्षो महादेवो महेश्वरः ।शूल खट्वाङ्गगङ्गाऽहीन्दुकपालपिनाकभृत् ॥ २३४ ॥
अनुष्टुप्
genderपुंmasc.
भगाली खण्डपरशुः खण्डपर्शुर्वृषध्वजः ।पञ्चाननो महादेवः कण्ठेकालो दिगम्बरः ॥
अनुष्टुप्
genderपुंmasc.
महेश्वरो महादेवो वामदेवो महानटः ।मृत्युंजयो विरूपाक्षो मेरुधन्वा वृषध्वजः ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
व्योमकेशो महादेवः प्रमथाधिपतिः शिवः ।शूली दक्षाध्वरारातिः कामारिः परमेश्वरः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
भोक्तव्यादौ महादेवः पुनर्ना परमेश्वरे ।पार्वत्यां तु महादेवी स्त्रियां राज्ञश्च योषिति ॥ ४४५ ॥
अनुष्टुप्
meaningsपरमेश्वर
महादेव as a meaning in nānārtha verses
- धरणिकोश श्रीकण्ठश्रीकण्ठः स्यान्महादेवे श्रीकण्ठः कुरुजाङ्गले । नीलकण्ठः शिवो बर्ही चाटकैरश्च खञ्जनः ॥ Dharaṇikośa 11.2.9
- नानार्थार्णवसंक्षेप उग्रक्ली तु वह्निगुणे त्रिस्तु तद्युक्ते चतुरेऽपि च । उग्रः पुंसि महादेवे मर्त्यजात्यन्तरे पुनः ॥ ९२ ॥ Nānārthārṇavasaṃkṣepa 2.5.92
- नानार्थार्णवसंक्षेप कालमृत्यौ चापि महादेवे कार्ष्ण्ये त्रिषु तु तद्वति । काष्ठा स्त्री कालभेदे स्यादष्टादशनिमेषके ॥ १८४ ॥ Nānārthārṇavasaṃkṣepa 2.5.184
- नानार्थार्णवसंक्षेप तिष्यमहादेवे कलियुगे वह्नौ पुष्याख्यतारके । तद्युक्ते कालसामान्ये तज्जाते तु त्र्यथ स्त्रियाम् ॥ ५३७ ॥ Nānārthārṇavasaṃkṣepa 2.5.537
- नानार्थार्णवसंक्षेप धूर्त्तध्रुवा तु स्त्री सालपर्ण्यां गीतिस्रुग्भेदयोर्भुवि । धूर्त्तः पुंसि महादेवे नीपे कुरवकेऽपि च ॥ ६५० ॥ Nānārthārṇavasaṃkṣepa 2.5.650
- नानार्थार्णवसंक्षेप स्थालस्थालं भोजनपात्रे क्ली स्यादुखायां तु सा स्त्रियाम् । स्थाली ना तु महादेवे स्थितिकर्मणि चाप्यथ ॥ १४८८ ॥ Nānārthārṇavasaṃkṣepa 2.5.1488
- नानार्थार्णवसंक्षेप वृषाङ्कभवेत् प्रकरणे चाथ भल्लाते स्याद्वृषाङ्कवाक् । महादेवेऽथ वेशन्तः पल्वलाकाशयोरथ ॥ २०७ ॥ Nānārthārṇavasaṃkṣepa 3.2.207
- नानार्थार्णवसंक्षेप ईश्वरईषको गन्तृहिंसित्रोर्द्रष्टरि स्यात् तु मन्मथे । ईश्वरो ना महादेव स्यात् तथा शण्डगोपतौ ॥ २३३ ॥ Nānārthārṇavasaṃkṣepa 4.233
- नानार्थार्णवसंक्षेप ईशानईशानो ना महादेवे पार्वत्यां त्वाह यादवः । ईशानीति स्त्रियां त्रिस्तु प्रभौ तत्र यदा स्त्रियाम् ॥ २३५ ॥ Nānārthārṇavasaṃkṣepa 4.235
- नानार्थार्णवसंक्षेप कटप्रूवशावेदयाकर्णिकारे कशेरू रभसः स्त्रियाम् । कटप्रूर्ना महादेवे स्त्री तु खेलगता स्मृता ॥ ४२६ ॥ Nānārthārṇavasaṃkṣepa 4.426
- नानार्थार्णवसंक्षेप कलापिन्सौविदल्ले तु ना त्रिस्तु कञ्चुकेन समन्विते । कलापी ना महादेवे पर्कट्याख्ये च पादपे ॥ ४२९ ॥ Nānārthārṇavasaṃkṣepa 4.429
- नानार्थार्णवसंक्षेप गिरीशउत्तमेऽपि भवत्येष गिरीशस्तु पुमानयम् । महादेवे गिरेस्त्वीशे त्रिषु स्याद्गिरिजा पुनः ॥ ६७६ ॥ Nānārthārṇavasaṃkṣepa 4.676
- नानार्थार्णवसंक्षेप शर्वरकाकुत्स्थस्य सुमित्राजे त्रिस्तु शत्रोर्निहन्तरि । शर्वरो ना महादेवे चन्द्रे च तमसि त्वदः ॥ १७९२ ॥ Nānārthārṇavasaṃkṣepa 4.1792
- नानार्थार्णवसंक्षेप सर्वज्ञभेद्यवत् तु क्रतुहृतषष्ठाहभववस्तुनि । सर्वज्ञो ना महादेवे बुद्धेऽप्येकेऽथ भेद्यवत् ॥ १८७० ॥ Nānārthārṇavasaṃkṣepa 4.1870
- नानार्थार्णवसंक्षेप बहुरूपबहुरूपो महादेवे पुंस्यराल इति श्रुते । स्यान्निर्यासविशेषे च समासाद्यत्र पूर्ववत् ॥ ४१९ ॥ Nānārthārṇavasaṃkṣepa 6.419
- नानार्थार्णवसंक्षेप महावीरमहावीरो महादेवे पावके गरुडे च ना । सोमवंशसमुद्भूते वृहद्रथसुते नृपे ॥ ४४९ ॥ Nānārthārṇavasaṃkṣepa 6.449
- नानार्थार्णवसंक्षेप विश्वरूपविश्वम्भरा पृथिव्यां स्त्री ना तु विष्णौ हुताशने । विश्वरूपो महादेवे वासुदेवे बृहस्पतौ ॥ ५६१ ॥ Nānārthārṇavasaṃkṣepa 6.561
- परमानन्दीयनाममाला खण्डपर्शुखञ्जरीटः पक्षिभेदे कृपाणव्रतचारिणि । खण्डपर्शुर्महादेवे राहावौषधरामयोः ॥ १४८ ॥ Paramānandīyanāmamālā 5.8.148
- शब्दरत्नावली कपर्दकमहादेवः जटाजूटे वराटे च कपर्दकः । नागभेदे बिल्वतरौ भवेत् कर्कटकोऽपि च ॥ Śabdaratnāvalī 7.1.161
- शब्दरत्नावली कालकण्ठमयूरे च महादेवे पीतिसारे च पुंस्यपि ॥ Śabdaratnāvalī 7.12.17
- शब्दरत्नावली लेलिहानलेलिहानो महादेवे भक्षके दनुजेऽपि च । लघुकर्णश्छागले स्यादङ्कोठे राक्षसे द्विपे ॥ Śabdaratnāvalī 7.15.89
- शब्दरत्नावली भूरिकट्फलायामनन्तायां तथा तिथिभिदि स्त्रियाम् । त्रिषु साधुश्रेष्ठयोः स्यान्नपुंसि करणान्तरे ॥ भारी हरौ वीवधे स्यात्पलानां द्विसहस्रके । भीरुस्त्रिलिङ्ग आगर्ते स्यात् स्त्रियां मेववस्त्रिषु (?) ॥ भूरि क्लीबं काञ्चने स्यात्प्रचुरेऽपि च वाच्यवत् । पुमान् विष्णौ महादेवे परमेष्ठिनि वासवे ॥ Śabdaratnāvalī 7.27.27
- शब्दरत्नावली महाकालभद्रकाली च गन्धोल्यां कात्यायन्यामपि स्त्रियाम् । महाकालो महादेवे किम्पाके प्रथमान्तरे ॥ भवेन्मदकलो पचगजेऽव्यक्तप्रलापिनि । महाबलो बृहद्वीर्ये सीसकेऽपि च न द्वयोः ॥ महानीलो भृङ्गराजे मणिनागविशेषयोः । मणिमाला स्त्रियां हारे लक्ष्म्यां दन्तक्षतान्तरे ॥ मुक्ताफलञ्च कर्पूरे मौक्तिके लवलीफले । भवेद्यवफलो मांसकूटजप्लक्षवेणुषु ॥ रजस्वला पुष्पवत्यां महिषे तु रजस्वलः ॥ Śabdaratnāvalī 7.28.112
- शब्दरत्नावली ईशअंशुः प्रभायां किरणे आशा तृष्णादिशोः स्त्रियाम् । आशीर्हिताशंसवे स्त्री सर्पदत्ते विषान्तरे ॥ आशुर्धान्यान्तरे पुंसि शीघ्रेऽपि च नपुंसकम् । ईशः प्रभौ महादेवे ईशा लाङ्गलदण्डके ॥ काशः कासे क्षते पुंसि वाराणस्यामपि स्त्रियाम् । अस्त्रियां तृणभेदेऽपि कण्ठकण्डूयणेऽपि च ॥ Śabdaratnāvalī 7.30.2