कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nāmamālikā

नाममालिका Nāmamālikā

314 verses · 2,274 words tagged · 502 marked doubtful (dashed)

स्वर्गादिनामधेयप्रकरणम्

भोजसंगृहीता नाममालिका ।

शुभमस्तु

स्वर्गादिनामधेयप्रकरणम् ।

वागीशं वरलक्ष्मीशं गौरीशं गणनायकम् ।कुमारं च हृदि ध्यात्वा क्रियते नाममालिका ॥ १ ॥
1.1 · p. 1
अनुष्टुप्
स्वर्गे नाकत्रिलोकाग्र्यसुधावासबुधालयाः ।मन्दाकिनीधरो दिव्यः खपुरं तं नपुंसकम् ॥ २ ॥
1.2 · p. 1
अनुष्टुप्
मेरुशृङ्गाग्रनगरं धाराधरपथस्थितम् ।देवेष्वनिमिषामर्त्यनिलिम्पामृतभोजिनः ॥ ३ ॥
1.3 · p. 1
अनुष्टुप्
वैमानिका यज्ञभुजो जरामरणवर्जिताः ।अनिद्राः खचरा नित्याः कनकाचलवासिनः ॥ ४ ॥
1.4 · p. 1
अनुष्टुप्
इन्द्रे स्युः प्राग्दिशानाथमहेन्द्रदनुजारयः ।सर्वाङ्गनयनागारिचिन्तामणिवरासनाः ॥ ५ ॥
1.5 · p. 1
अनुष्टुप्
गोपः पुलोमजाकान्तो भोगी यागी महायशाः ।तत्पुरी लेखिनी तस्य सौधे च सुपताकिका ॥ ६ ॥
1.6 · p. 1
अनुष्टुप्
चिन्तामणौ महारत्नं श्यामोपल इतीर्यते ।कामधेनौ तु सुरभिः श्वेतगौरिति कथ्यते ॥ ७ ॥
1.7 · p. 1
अनुष्टुप्
आयुधं च शतारं स्याद्वनं शृङ्गारनामकम् ।पत्नी त्वस्य च पौलोमी देवेन्द्री दिविजेश्वरा ॥ ८ ॥
1.8 · p. 2
अनुष्टुप्
जयन्ते मोहनः स्वामी नलकूबरवल्लभः ।उच्चैःश्रवसि दिव्याश्वो नीलवालः स हंसकः ॥ ९ ॥
1.9 · p. 2
अनुष्टुप्
ऐरावते चतुर्दन्तो मन्दकः पीलुनामकः ।मधुरो मञ्जुलतरुर्मन्दारतरुपञ्चके ॥ १० ॥
1.10 · p. 2
अनुष्टुप्
तत्प्रदेशे सुपर्णः स्यात्तत्पुष्पे गन्धिलं स्मृतम् ।महामदस्तदामोदे तन्मूले रुचिरं स्मृतम् ॥ ११ ॥
1.11 · p. 2
अनुष्टुप्
तत्पर्णं विदलं प्राहुस्तत्फलं पुष्कलं विदुः ।सुगन्धिस्तद्वितरणे तच्छाया चन्द्रिका स्मृता ॥ १२ ॥
1.12 · p. 2
अनुष्टुप्
मन्दाकिन्यां हरिपदी कनकाम्बुजगन्धिला ।दिव्यकेलिसरश्चन्द्री सुकलेति निगद्यते ॥ १३ ॥
1.13 · p. 2
अनुष्टुप्
तत्सैकते वसुरुचुस्तत्तीरे सुभगोदरम् ।तदम्बुजानि हैमानि तन्मरन्दः करन्दकः ॥ १४ ॥
1.14 · p. 2
अनुष्टुप्
तदब्जगन्ध आनन्दस्तत्किञ्जल्कः करञ्जकः ।सुमेकस्तु सुधीरः स्याच्छिखरे तस्य बन्धुरः ॥ १५ ॥
1.15 · p. 2
अनुष्टुप्
ध्रुवावासो मणिशिलस्तदीयास्तरवः सुखाः ।तत्पादः स्यात्कनखलस्तन्नितम्बे विशालकः ॥ १६ ॥
1.16 · p. 2
अनुष्टुप्
अग्नौ पुरोहितः स्वैरी स्वाहानाथो मखी शिखी ।हरिश्च शमने तु स्युरद्रिजक्षुद्रमुद्रकाः ॥ १७ ॥
1.17 · p. 3
अनुष्टुप्
दण्डकः क्रूरदृष्टिश्च मुष्टिबन्धोऽसिताकृतिः ।तस्य प्रिया तु धूमोर्णा सुकर्णेति च कथ्यते ॥ १८ ॥
1.18 · p. 3
अनुष्टुप्
तत्पाणिदण्डे तुमुलस्तत्पाशे वलनं स्मृतम् ।तद्दूताः सूतकाः क्ष्वेलाः स्थाणवः प्राणिघातकाः ॥ १९ ॥
1.19 · p. 3
अनुष्टुप्
जीमूतनामकास्तस्य नगरी खरमालिनी ।वैतरण्यां त्वग्निधुनी पापभेदिन्यशीतला ॥ २० ॥
1.20 · p. 3
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्व (wrong syllable)
दुस्तरा दुर्मुखी भीमा तत्तटी त्वसिपत्रिका ।तदीयास्तरवः कुण्टाः सूचिकामुखनामकाः ॥ २१ ॥
1.21 · p. 3
अनुष्टुप्
कोणपे तु कलङ्कः स्यादुषाचरवरः खरः ।तस्य कान्ता दुरन्ता स्यान्निरन्ताद्याश्च वल्लभाः ॥ २२ ॥
1.22 · p. 3
अनुष्टुप्
वरुणे तु महासारकशाधरकुशालयाः ।तत्पुरं वरणं ज्ञेयं तस्य जाया जयेरिता ॥ २३ ॥
1.23 · p. 3
अनुष्टुप्
तत्पाशस्तु घनालीढस्तत्पुत्रो वरयूथपः ।तत्सैन्यं जालयादः स्यात्तन्मन्त्री भुवनाधिपः ॥ २४ ॥
1.24 · p. 3
अनुष्टुप्
वायुः प्राणिधृतः प्राणो जगत्प्राणस्तु धूसरः ।तद्वाहे तु महावेगः संवेगस्तु तमोग्रजः ॥ २५ ॥
1.25 · p. 3
अनुष्टुप्
राजराजः कुबेरः स्यात्तत्सुतो मणिकण्ठकः ।तत्सेवधिः सुभाग्यः स्यात्पुरं भ्रमरकाह्वयम् ॥ २६ ॥
1.26 · p. 4
अनुष्टुप्
ईशाने कङ्कटीकः स्याज्जटाटीरकठोरकौ ।रुम्बाकर्णः शम्बरारिभेदनः श्रीधरः सितः ॥ २७ ॥
1.27 · p. 4
अनुष्टुप्
तदास्थानं शुभकरं तदगारं सतारकम् ।तन्निष्कुटो घनकुटो भद्राख्यं तस्य वाहनम् ॥ २८ ॥
1.28 · p. 4
अनुष्टुप्
तद्गणा भीषणा घोणाः काणाः खञ्जाः करालकाः ।तस्य प्रिया तु कौत्केली कालिकालीकलाधराः ॥ २९ ॥
1.29 · p. 4
अनुष्टुप्
विनेता विघ्नराजे स्यान्मुदिरो मोदकाशनः ।सुवर्णाब्जसरःस्वामी गुहो वेलायुधः स्मृतः ॥ ३० ॥
1.30 · p. 4
अनुष्टुप्
भैरवो भीरवो भीरो वटुनाथः पिशाचराट् ।वेत्रिकर्णेजपहया नन्दिभृङ्गिऋडादयः ॥ ३१ ॥
1.31 · p. 4
अनुष्टुप्
शम्भुस्वयम्भूकविता मेषनामाष्टलोचनः ।प्रधानी मुखजानिः स्यान्मेधावी नाभिभूर्भवः ॥ ३२ ॥
1.32 · p. 4
अनुष्टुप्
तस्याङ्गना तु गीर्देवी शीर्षद्वारनिवासिनी ।विशदा नीलचिकुरा वीणा तस्यास्तु कच्छपी ॥ ३३ ॥
1.33 · p. 4
अनुष्टुप्
तद्वाहने तु मञ्जीरस्तदक्षसर ईक्षणम् ।वर्णोदरं तदीयं स्यात्पुस्तकं तद्गतिर्नयः ॥ ३४ ॥
1.34 · p. 5
अनुष्टुप्
विष्णुर्हरिर्वनचरो विवाहो विहगध्वजः ।श्रीपर्णनयनः शृङ्गी भारतीमालिकाधरः ॥ ३५ ॥
1.35 · p. 5
अनुष्टुप्
तत्कौस्तुभे सुधासारः सुरागः सुन्दरः स्मृतः ।श्रीवत्से तस्य शृङ्गारः सेव्या तु वनमालिका ॥ ३६ ॥
1.36 · p. 5
अनुष्टुप्
तच्चक्रं तु सहस्रारं वृत्तं शुभ्रमितीर्यते ।तत्पाञ्चजन्ये सुग्रीवः षोडशावर्त ईर्यते ॥ ३७ ॥
1.37 · p. 5
अनुष्टुप्
तत्कौमोदक्यविकला तत्खड्गो मकराननः ।तस्य शार्ङ्गं गुणनिधिस्तद्दूताः श्यामलाः स्मृताः ॥ ३८ ॥
1.38 · p. 5
अनुष्टुप्
तदासनं मृगमुखं भुवनं तस्य शंकरम् ।तत्केलीवनमाशास्यं तद्वेश्म नवमौक्तिकम् ॥ ३९ ॥
1.39 · p. 5
अनुष्टुप्
तदीयशयनं काशी वसनं तस्य काञ्चनम् ।लक्ष्मीस्तु लोकजननी सती सरसिजा मता ॥ ४० ॥
1.40 · p. 5
अनुष्टुप्
तत्कुमारस्तु कन्तः स्याददृश्यतनुरात्मजः ।केलिनी तस्य वनिता केतुस्तस्य चलाचलः ॥ ४१ ॥
1.41 · p. 5
अनुष्टुप्
कार्मुकं तस्य कान्तारः शरास्तस्य तु पल्लवाः ।रजको वाहनं तस्य रथो मलयजः स्मृतः ॥ ४२ ॥
1.42 · p. 5
अनुष्टुप्