पञ्चास्य
pañcāsyaपुं · masc.In 9 kośas: 10 synonym verses, 2 as a meaning of another word.
अरण्यजेऽस्मिन्गवलः सिंहः कण्ठीरवो हरिः ॥ १२८३ ॥हर्यक्षः केसरीभारिः पञ्चास्यो नखरायुधः ।महानादः पञ्चशिखः पारीन्द्रः पत्यरी मृगात् ॥ १२८४ ॥श्वेतपिङ्गोऽप्यथ व्याघ्रो द्वीपी शार्दूलचित्रकौ ।चित्रकायः पुण्डरीकस्तरक्षुस्तु मृगादनः ॥ १२८५ ॥
अनुष्टुप्
genderपुंmasc.
सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः ।कण्ठीरवो मृगारिपुर्मृगदृष्टिर्मृगाशनः ॥पुण्डरीकः पञ्चनखचित्रकायमृगद्विषः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 रि (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
genderपुंmasc.
सिंहो मृगेन्द्रः पञ्चास्यः पारीन्द्रः श्वेतपिङ्गलः ।व्याकीर्णास्यो महानादो मृगपः केसरी हरिः ॥ ३०६ ॥
अनुष्टुप्
genderपुंmasc.
वनपर्वतयोरर्थान्निवासार्थोऽष्टपादपि ।उष्ट्राकृतिश्चाथ सिंहः पञ्चास्यः केसरी हरी ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चास्येश्वर-शंकर-प्रमथपा-भालाङ्क-उड्डीश्वरो-ऽप्युग्रो धूर्जटिरिन्दुशेखर-जटाटीरौ कपाली मृडः ।रुद्र-त्र्यम्बक-वामदेव-शिपिविष्टा अष्टमूर्त्तिर्महा-देवो दिग्वसनः श्मशानसदनो भीमो गिरीशः शिवः ॥ ६५ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
हर्यक्ष-पञ्चास्य-गभीरनादाः स्याच्छ्वेतपिङ्गश्च स केसरी च ।अष्टापदस्तूर्ध्वचतुष्पदः स्यादूर्ध्वेक्षणः स्याच्छरभो हरिद्विट् ॥ २ ॥
इन्द्रवज्रा
genderपुंmasc.
सिंहो हरिश्च हर्यक्षः शृङ्गोष्णीषः सुगन्धिकः ।पञ्चशिखश्च पञ्चास्यः पञ्चनखः पलङ्कषः ॥ २३१८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सिंहः पारीन्द्रः पञ्चास्यो मृगेन्द्रः श्वेतपिङ्गलः ।कण्ठीरवः पञ्चशिखः शैलाटी भीमविक्रमः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्द्रः (wrong syllable)
genderपुंmasc.
चतुर्मुखो ब्रह्मसंज्ञः पञ्चास्यस्तु हराह्वयः ।षण्मुखो गुहसंज्ञः स्यात् किंपाकः काकमर्दकः ॥ ४८० ॥
अनुष्टुप्
genderपुंmasc.
सिंहो मृगेन्द्रः पञ्चास्यः पारीन्द्रः श्वेतपिंगलः ।व्यादीर्णास्यो महानादः शार्दूलस्तुल्यविक्रमः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चास्य as a meaning in nānārtha verses
- कोषकल्पतरु मोरटस्यात्पञ्चास्ये मोरटस्त्विक्षुमूले- ऽङ्कोटोद्भूते च प्रसूने स्त्रियां तु । स्यात्सप्ताहानन्तरक्षीरके च स्त्री मूर्वा[272b]यां मोरटा संप्रदिष्टा ॥ २४ ॥ Koṣakalpataru 6.10.24
- कोषकल्पतरु सिंहसिंहः स्यात्पञ्चास्ये राशौ श्रेष्ठे स उत्तरपदगतः । स्त्री राहुमातृवासाबृहती द्वैद्वे( ? )बुधैः कथितः ॥ ४१ ॥ Koṣakalpataru 6.32.41