कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnākara

शब्दरत्नाकर Śabdaratnākara

2,335 verses · 19,015 words tagged · 2,063 marked doubtful (dashed)

प्रथमः काण्डः · आदिदेवाध्यायः

ब्रह्मा विश्वसृडात्मभूः शतधृतिर्धाता विधाता विधि-र्वेधा हंसरथो विरिञ्चिरमरज्येष्ठो विरिञ्चोऽब्जभूः ।वागीशश्चतुराननः सरसिजावासः स्वयंभूरजःकः स्रष्टा द्रुहिणः प्रजापतिशतानन्दौ स्वभूर्नाभिजः ॥ १० ॥
1.2.10 · p. 2
शार्दूलविक्रीडितम्
हिरण्यगर्भो लोकेशः परमेष्ठी पितामहः ।विरिञ्चनो विश्वरेता विश्वशिल्प्यथ शारदा ॥ ११ ॥
1.2.11 · p. 2
अनुष्टुप्
भृगुरत्रिर्वसिष्ठश्च नव ब्रह्माण इत्यमी ।स्युः संभूतिः स्मृतिः प्रीतिः क्षमा ख्यातिश्च संततिः ॥ १३ ॥
1.2.13 · p. 2
अनुष्टुप्
अनसूयारुन्धती च तेषां दक्षादृते स्त्रियः ।जाया त्वसिक्नी दक्षस्य दाक्षायण्योऽस्य कन्यकाः ॥ १४ ॥
1.2.14 · p. 2
अनुष्टुप्
ओंकारः प्रणवो ब्रह्मच्छन्दसी तु श्रुतिस्त्रयी ।निगमो वेद आम्नाय आगमानुश्रवावपि ॥ १५ ॥
1.2.15 · p. 3
अनुष्टुप्
ऋक् तु स्त्रियां यजुःसाम्नी इति वेदास्त्रयस्त्रयी ।ऋक् च साम च ऋक्सामं तथर्ग्यजुषमित्यपि ॥ १६ ॥
1.2.16 · p. 3
अनुष्टुप्
उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः ।ज्योतिषं व्याकृतिः शिक्षा कल्पश्छन्दो निरुक्तकम् ॥ १७ ॥
1.2.17 · p. 3
अनुष्टुप्
अङ्गान्येतानि वेदानां धर्मः स्याद्वैदिको विधिः ॥ १८ ॥
1.2.18 · p. 3
विष्णुः श्रीपतिरच्युतोऽसुररिपुर्विश्वंभरः केशवोवैकुण्ठः पुरुषोत्तमो मधुरिपुर्नारायणो माधवः ।शार्ङ्गी तार्क्ष्यरथः समुद्रशयनः पीताम्बरः श्रीधर-श्चक्री कैटभजित्सरोजनयनोऽनन्तो मुकुन्दो हरिः ॥ १९ ॥
1.2.19 · p. 3
शार्दूलविक्रीडितम्
श्रीवत्सलक्षणो बभ्रुस्त्रिविक्रम उरुक्रमः ।विष्वक्सेनो बलिध्वंसी विधुः परमपूरुषः ॥ २० ॥
1.2.20 · p. 3
अनुष्टुप्
पद्मनाभः स्वभूरादिपुरुषो यज्ञपूरुषः ।जनार्दनो वासुदेवस्त्रिधामा विष्टरश्रवाः ॥ २१ ॥
1.2.21 · p. 3
अनुष्टुप्
दामोदरो हृषीकेशो वनमाली गदाधरः ।गोविन्दोऽधोक्षजः कृष्णो विश्वरूपश्चतुर्भुजः ॥ २२ ॥
1.2.22 · p. 3
अनुष्टुप्
उपेन्द्र इन्द्रावरजो ब्रह्मनाभो वृषाकपिः ।तस्य शङ्खश्च चक्रं च पाञ्चजन्यसुदर्शने ॥ २३ ॥
1.2.23 · p. 3
अनुष्टुप्
गदा कौमोदकी चापः शार्ङ्गं खड्गस्तु नन्दकः ॥ २४ ॥
1.2.24 · p. 4
वनमाला वैजयन्ती वक्षोरत्नं तु कौस्तुभम् ।इन्दिरा मा रमा लक्ष्मीः कमला कमलालया ॥ २५ ॥
1.2.25 · p. 4
अनुष्टुप्
पद्मा पयोजकन्या श्रीर्भार्गवी पङ्कजाह्वया ।जीवनी मोहनी सूक्ष्मा लक्ष्मीः पुष्टिर्निरञ्जना ॥ २६ ॥
1.2.26 · p. 4
अनुष्टुप्
आचारा वैष्णवी माया नवैता विष्णुशक्तयः ।तस्यावतारा मत्स्याद्याः सर्वे तत्तत्समाह्वयाः ॥ २७ ॥
1.2.27 · p. 4
अनुष्टुप्
हिरण्याक्षरिपुस्त्वादिवराहो यज्ञसूकरः ।श्रीवराहो नृसिंहस्तु हिरण्यकशिपुद्विषत् ॥ २८ ॥
1.2.28 · p. 4
अनुष्टुप्
रामः परशुरामश्च जामदग्न्योऽथ राघवः ।रामो दाशरथिः सीतावल्लभो रावणान्तकः ॥ २९ ॥
1.2.29 · p. 4
अनुष्टुप्
बलभद्रो बलः सीरी बलदेवो हलायुधः ।कामपालः प्रलम्बघ्नः कालिन्दीकर्षणो बली ॥ ३० ॥
1.2.30 · p. 4
अनुष्टुप्
रामो नीलाम्बरः शेषो रौहिणेयोऽच्युताग्रजः ।संकर्षणः सालकेतुर्मुसली रेवतीपतिः ॥ ३१ ॥
1.2.31 · p. 4
अनुष्टुप्
संवर्तकं हलं तस्य सौनन्दं मुसलायुधम् ।वसुदेवसुतः शौरिः कंसारिर्नरकान्तकः ॥ ३२ ॥
1.2.32 · p. 4
अनुष्टुप्
देवकीनन्दनः कृष्णो यदुराट् पार्थसारथिः ।बलानुजन्मा दाशार्हो रुक्मिणीजानिरस्य तु ॥ ३३ ॥
1.2.33 · p. 4
अनुष्टुप्
रथाश्वाः सैन्य(शैब्य?)सुग्रीवमेघपुष्पबलाहकाः ।सत्यभामा जाम्बवती रुक्मिणी रोहिणी तथा ॥ ३४ ॥
1.2.34 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 जा (wrong syllable)
कालिन्दी लक्ष्मणा मित्रविन्दा सत्याष्टयोषितः ।वसुदेवः पिता तस्य स एवानकदुन्दुभिः ॥ ३५ ॥
1.2.35 · p. 5
अनुष्टुप्
सर्परिपुवैनतेयौ सौपर्णेयोऽरुणानुजस्तार्क्ष्यः ।विष्णुरथपन्नगभुजौ गरुडगरुत्मत्सुपर्णपक्षीन्द्राः ॥ ३६ ॥
1.2.36 · p. 5
गीतिः
कन्दर्पः कुसुमायुधो रतिपतिः कामः स्मरो मन्मथःप्रद्युम्नो मकरध्वजो मनसिजः शृङ्गारजो दर्पकः ।मारः शम्बरशासनो मधुसखः संकल्पभूरात्मभूःपञ्चेषुः प्रसवध्वजो हृदिशयो रागाधिपोऽनन्यजः ॥ ३७ ॥
1.2.37 · p. 5
शार्दूलविक्रीडितम्
अनङ्गो मदनः पुष्पकार्मुको मीनकेतनः ।ब्रह्मसूस्त्वनिरुद्धः स्यादृश्यकेतुरुषापतिः ॥ ३८ ॥
1.2.38 · p. 5
अनुष्टुप्
सर्वज्ञसुगतदशवलषडभिज्ञमुनीन्द्रशाक्यशास्तारः ।मारजिदद्वयवादिश्रीघनमुनिबुद्धबोधिसत्त्वजिनाः ॥ ३९ ॥
1.2.39 · p. 5
गीतिः
समन्तभद्रो भगवान्धर्मराजस्तथागतः ।अथ शौद्धोदनिः शाक्यसिंहः सर्वार्थसिद्धकः ॥ ४० ॥
1.2.40 · p. 5
अनुष्टुप्
गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः ।दिगम्बरस्तु नग्नाटः क्षपणः श्रमणो जिनः ॥ ४१ ॥
1.2.41 · p. 5
अनुष्टुप्
केवली वीतरागोऽर्हन्निर्गन्धो मलधारकः ।अथैहिकः स्याच्चार्वाको लोकायतिकनास्तिकौ ॥ ४२ ॥
1.2.42 · p. 6
अनुष्टुप्
शंभुः शंकर ईश्वरः पशुपतिः शर्वः शिवस्त्र्यम्बकोभूतेशः परमेश्वरः पुररिपुः शूली हरो धूर्जटिः ।ईशानः शशिशेखरस्त्रिनयनो भीमः पिनाकी मृडोरुद्रः स्थाणुरुमापतिः स्मरहरो भर्गः कपर्दी भवः ॥ ४३ ॥
1.2.43 · p. 6
शार्दूलविक्रीडितम्
महेश्वरो महादेवो वामदेवो महानटः ।मृत्युंजयो विरूपाक्षो मेरुधन्वा वृषध्वजः ॥ ४४ ॥
1.2.44 · p. 6
अनुष्टुप्
कृशानुरेता गिरिशो गिरीशो नीललोहितः ।श्रीकण्ठः खण्डपरशुः कालकण्ठो दशाव्ययः ॥ ४५ ॥
1.2.45 · p. 6
अनुष्टुप्
गङ्गाधरः क्रतुध्वंसी कृत्तिवासाः कृतान्तजित् ।अष्टमूर्तिरहिर्बुध्न्य आदिभिक्षुर्दिगम्बरः ॥ ४६ ॥
1.2.46 · p. 6
अनुष्टुप्
दृगस्त्रः प्रमथाधीश ईश उग्रोऽसमेक्षणः ।व्योमकेशो दशभुजः सर्वज्ञोऽन्धकसूदनः ॥ ४७ ॥
1.2.47 · p. 6
अनुष्टुप्
संध्यानटमहाकालकण्ठेकालकपालिनः ।कटाटङ्कजटा टीररेरिहाणमहाव्रताः ॥ ४८ ॥
1.2.48 · p. 6
अनुष्टुप्
कङ्कटीकार्धमुकुटजोटिङ्गोरगभूषणाः ।स्थालोड्डीशजटा झाटषाण्डषण्डाकुतश्चनाः ॥ ४९ ॥
1.2.49 · p. 7
अनुष्टुप्
शर्वभवेशकपालिस्थाणुभगाजैकपादहिर्बुध्न्याः ।कृत्तिवसनः पिनाकी मृगलुब्धक इत्यमी रुद्राः ॥ ५० ॥
1.2.50 · p. 7
आर्या
ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः ।स्रष्टृता चात्मसंवित्तिरप्यधिष्ठातृतेत्यमी ॥ ५१ ॥
1.2.51 · p. 7
अनुष्टुप्
अव्ययाः स्युः सुखा ज्येष्ठा चित्तोन्मादकरी शिवा ।वामा कलेवरा रौद्री कालिका भूतमादिनी ॥ ५२ ॥
1.2.52 · p. 7
अनुष्टुप्
नवैताः शक्तयः शंभोर्जटाजूटः कपर्दकः ।चापः पिनाकोऽजगवमजगावमजीगवम् ॥ ५३ ॥
1.2.53 · p. 7
अनुष्टुप्
खुङ्खुणः पुंसि खट्वाङ्गमथ भूताः स्युरस्त्रियाम् ।प्रमथास्ते पारिषदा भृङ्गी भृङ्गिरिटिस्त्रिपात् ॥ ५४ ॥
1.2.54 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
समानास्तण्डुशैलादिनन्दिकेश्वरनन्दिनः ।वीरभद्रस्तु देवाजः क्षेत्रपालस्तु भैरवः ॥ ५५ ॥
1.2.55 · p. 7
अनुष्टुप्
क्षारस्तु भस्म भसितं रक्षाभूतिविभूतयः ।अणिमा महिमा लघिमा गरिमेशित्वं वशित्वं च ॥ ५६ ॥
1.2.56 · p. 8
अनुष्टुप्metre not read in every line
प्राप्तिरपि प्राकाम्यं भाषितमैश्वर्यमष्टविधम् ।उमा भवानी रुद्राणी शर्वाणी पार्वती सती ॥ ५७ ॥
1.2.57 · p. 8
अनुष्टुप्metre not read in every line
भद्रकाली महाकाली भ्रामरी परमेष्ठिनी ।ब्राह्मीमाहेश्वर्यौ कौमारी वैष्णवी च वाराही ॥ ६० ॥
1.2.60 · p. 8
अनुष्टुप्metre not read in every line
इन्द्राणीचामुण्डे इत्येताः सप्त मातरः क्रमतः ।लम्बोदराखुरथदन्तिमुखैकदन्त-दन्तावलेश्वरविनायकविघ्नराजाः ॥ ६१ ॥
1.2.61 · p. 8
वसन्ततिलकाmetre not read in every line
हेरम्बपञ्चकरषण्मुखपूर्वजन्म-द्वैमातुराः परशुभृद्रणनायकश्च ।कार्तिकेयशरजन्मवह्निभूस्कन्दषण्मुखकलापिवाहनाः ॥ ६२ ॥
1.2.62 · p. 8
वसन्ततिलकाtwo metres in one verse
बाहुलेयगुहकुक्कुटध्वजस्वामिशक्तिधरतारकारयः ।षाण्मातुरमहासेनगाङ्गेयक्रौञ्चभेदनाः ॥ ६३ ॥
1.2.63 · p. 8
रथोद्धताtwo metres in one verse
सेनानीर्द्वादशकरः कुमारः पार्वतीसुतः ।सुब्रह्मण्यो नीलदंष्ट्रो विशाखो वैजयन्तकः ॥ ६४ ॥
1.2.64 · p. 9
अनुष्टुप्
त्रय एवादिदेवाः स्युर्ब्रह्मविष्णुमहेश्वराः ॥ ६५ ॥
1.2.65 · p. 9