कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शिव

śivaपुं · masc.

In 26 kośas: 76 synonym verses, 15 as a nānārtha head word, 81 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवाधिदेवकाण्डः Abhidhānacintāmaṇi 1.76 · p. 6
महानन्दोऽमृतं सिद्धिः कैवल्यमपुनर्भवः ।शिवं निःश्रेयसं श्रेयो निर्वाणं ब्रह्म निर्वृतिः ॥ ७४ ॥महोदयः सर्वदुःखक्षयो निर्याणमक्षरम् ।मुक्तिर्मोक्षोऽपवर्गोऽथ मुमुक्षुः श्रमणो यतिः ॥ ७५ ॥वाचंयमो व्रती साधुरनगार ऋषिर्मुनिः ।निर्ग्रन्थो भिक्षुरस्य स्वं तपोयोगशमादयः ॥ ७६ ॥
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवाधिदेवकाण्डः Abhidhānacintāmaṇi 1.86 · p. 7
श्वःश्रेयसं शुभशिवे कल्याणं श्वोवसीयसं श्रेयः ।क्षेमं भावुकभविककुशलमङ्गलभद्रमद्रशस्तानि ॥ ८६ ॥
गीतिः
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.119 · p. 12
शंभुः शर्वः स्थाणुरीशान ईशो रुद्रोड्डीशौ वामदेवो वृषाङ्कः ।कण्ठेकालः शंकरो नीलकण्ठः श्रीकण्ठोग्रौ धूर्जटिर्भीमभर्गौ ॥ १९५ ॥मृत्युंजयः पञ्चमुखोऽष्टमूर्तिः श्मशानवेश्मा गिरिशो गिरीशः ।षण्ढः कपर्दीश्वर ऊर्ध्वलिङ्ग एकत्रिदृग्भालदृगेकपादः ॥ १९६ ॥मृडोऽट्टहासी घनवाहनोऽहिर्बुध्नो विरूपाक्षविषान्तकौ च ।महाव्रती वह्निहिरण्यरेताः शिवोऽस्थिधन्वा पुरुषास्थिमाली ॥ १९७ ॥स्याव्द्योमकेशः शिपिविष्टभैरवौ दिक्कृत्तिवासा भवनीललोहितौ ।सर्वज्ञनाट्यप्रियखण्डपर्शवो महापरा देवनटेश्वरा हरः ॥ १९८ ॥पशुप्रमथभूतोमापतिः पिङ्गजटेक्षणः ।पिनाकशूलखट्वाङ्गगङ्गाहीन्दुकपालभृत् ॥ १९९ ॥गजपूषपुरानङ्गकालान्धकमखासुहृत् ।
शालिनी
शम्भुपुंशर्वपुंस्थाणुपुंईशानपुंईशपुंरुद्रपुंउड्डीशपुंवामदेवपुंवृषाङ्कपुंकण्ठेकालपुंशंकरपुंनीलकण्ठपुंश्रीकण्ठपुंउग्रपुंधूर्जटिपुंभीमपुंभर्गपुंमृत्युंजयपुंपञ्चमुखपुंअष्टमूर्तिपुंश्मशानवेश्मन्पुंगिरिशपुंगिरीशपुंषण्ढपुंकपर्दिन्पुंईश्वरपुंऊर्ध्वलिङ्गपुंएकदृश्पुंत्रिदृश्पुंभालदृश्पुंएकपादपुंमृडपुंअट्टहासिन्पुंघनवाहनपुंअहिर्बुध्नपुंविरूपाक्षपुंविषान्तकपुंमहाव्रतिन्पुंवह्निरेतस्पुंहिरण्यरेतस्पुंशिवपुंअस्थिधन्वन्पुंपुरुषास्थिमालिन्पुंव्योमकेशपुंशिपिविष्ठपुंभैरवपुंदिग्वासस्पुंकृत्तिवासस्पुंभवपुंनीललोहितपुंसर्वज्ञपुंनाट्यप्रियपुंखण्डपर्शुपुंमहादेवपुंमहानटपुंमहेश्वरपुंहरपुंपशुपतिपुंप्रमथपतिपुंभूतपतिपुंउमापतिपुंपिङ्गजटपुंपिङ्गेक्षणपुंपिनाकभृत्पुंशूलभृत्पुंखट्वाङ्गभृत्पुंगङ्गाभृत्पुंअहिभृत्पुंइन्दुभृत्पुंकपालभृत्पुंगजासुहृद्पुंपूषासुहृद्पुंपुरासुहृद्पुंअनङ्गासुहृद्पुंकालासुहृद्पुंअन्धकासुहृद्पुंमखासुहृद्पुं
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.94 · p. 49
प्रजने स्यादुपसरः कीलः पुष्पलकः शिवः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.34
शम्भुरीशः पशुपतिः शिवः शूली महेश्वरः ।ईश्वरः शर्व ईशानः शङ्करश्चन्द्रशेखरः ॥ ३० ॥भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः ।मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः ॥ ३१ ॥उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् ।वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः ॥ ३२ ॥कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः ।हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः ॥ ३३ ॥गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः ।व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः ।अहिर्बुध्न्योऽष्टमूर्तिश्च गजारिश्च महानटः ॥ ३४ ॥
अनुष्टुप्
शम्भुपुंईशपुंपशुपतिपुंशिवपुंशूलिन्पुंमहेश्वरपुंईश्वरपुंशर्वपुंईशानपुंशङ्करपुंचन्द्रशेखरपुंभूतेशपुंखण्डपरशुपुंगिरीशपुंगिरिशपुंमृडपुंमृत्युञ्जयपुंकृत्तिवासस्पुंपिनाकिन्पुंप्रमथाधिपपुंउग्रपुंकपर्दिन्पुंश्रीकण्ठपुंशितिकण्ठपुंकपालभृत्पुंवामदेवपुंमहादेवपुंविरूपाक्षपुंत्रिलोचनपुंकृशानुरेतस्पुंसर्वज्ञपुंधूर्जटिपुंनीललोहितपुंहरपुंस्मरहरपुंभर्गपुंत्र्यम्बकपुंत्रिपुरान्तकपुंगङ्गाधरपुंअन्धकरिपुपुंक्रतुध्वंसिन्पुंवृषध्वजपुंव्योमकेशपुंभवपुंभीमपुंस्थाणुपुंरुद्रपुंउमापतिपुंअहिर्बुध्न्यपुंअष्टमूर्तिपुंगजारिपुंमहानटपुं
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह कालवर्गः Amarakośa 1.4.26
श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम् ॥ २५ ॥भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम् ।शस्तं चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च ॥ २६ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.11 · p. 2
ईशानः शशिशेखरः पशुपतिः शूली शिवः शङ्करः,शर्वः शम्भुरुमापतिश्च गिरिशः श्रीकण्ठ उग्रो हरः ।सर्वज्ञस्त्रिपुरान्तकस्त्रिनयनो रुद्रः कपर्दी भवो,भूतेशः परमेश्वरोऽन्धकरिपुर्दक्षाध्वरध्वंसकृत् ॥ ११ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.122 · p. 15
श्वः श्रेयसं स्यात्कल्याणं श्वोवसीयं शिवं शुभम् ।भविकं भावुकं श्रेयो भव्यं भद्रं च मङ्गलम् ॥ १२२ ॥
अनुष्टुप्
genderक्लीneut.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 6 · p. 1
विष्णुः सुदर्शनः शंभुर्बन्धुर्भानुरितीर्यते ।सुग्रीवो मन्मथः स्वामी विष्णुपुत्रो भवः शिवः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त नक्षत्रनामानि Gaṇitanāmamālā 1.5 · p. 1
ऐंदवं चन्द्रशशिभमिंदुं चंद्रभमुच्यते ।आर्द्री शिवं शिवर्क्षं च शिवभं रौद्रमीश्वरम् ॥ ५ ॥
अनुष्टुप्
genderक्लीneut.
गणितनाममाला Gaṇitanāmamālā · हरदत्त एकाद्यङ्कानां सञ्ज्ञा Gaṇitanāmamālā 3.28 · p. 2
शिवैकादश रुद्राश्च सर्वेशाभवशंकरा ।यत्रेश्वरस्य नामानि तत्रैकादश कीर्तिताः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.412 · p. 66
मरुदेश्यो रूक्षगन्धा वातघ्नो महिषाक्षकः ।देवेष्टोऽपि च रक्षोहा दित्यो दुर्गः शिवोप्यथ ॥ ४१२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.179 · p. 152
पटूत्तमं वरं शुद्धं धौतेयं च शिलात्मजम् ।विमलं मणिमन्थं स्याच्छिवं भाष्यं पचा स्त्रियाम् ॥ १७९ ॥
अनुष्टुप्
genderक्लीneut.doubtful
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.183 · p. 153
पृथ्वीजं गण्डलवणमथान्यल्लवणाब्धिजम् ।शिवं वशिरमक्षीवं सामुद्रमथ वार्मयम् ॥ १८३ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.410 · p. 178
वर्त्तुलः कणकः क्षारश्चाथन्यच्छ्वेतटङ्कणम् ।मालतीतीरसम्भूतं शिवो द्रावकरश्च सः ॥ ४१० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.466 · p. 184
शुष्के तत्र करीषोऽस्त्री त्रिषु गव्यं गवामिदम् ।शिवः पुष्यलकः कीलोऽस्त्रियां संदानबन्धने ॥ ४६६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.14 · p. 345
इरा जडं जीवनीयं चलोदे संवरं कुशम् ।शिवं शवं शरं क्लीबे वा स्त्रियां स्यादुडूरुडुः ॥ १४ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव भूस्थदेवप्रकाण्डः Kalpadrukośa 2.2.1 · p. 376
धनंजयोऽग्निर्ज्वलनो वीतिहोत्रोऽञ्चतिः शिवः ।जुहुराणः शुष्म घासिर्हव्यवाड्दमुना वसुः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.79 · p. 388
ईशः शम्भुः पशुपतिरट्टहासो बकः शिवः ।अजो मः प्रहसः शूली भोगः संजश्च शङ्करः ॥ ७९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.9 · p. 406
गण्डो वृद्धिर्ध्रुवश्चापि व्याघातश्चापि हर्षणः ।वज्रं सिद्धिर्व्यतीपातो वरीयान्परिघः शिवः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.89 · p. 415
शातं सातमथो भद्रं भगं मद्रं च भावुकम् ।भविकं मङ्गलं वा ना भव्यं द्रव्यं शिवं शुभम् ॥ ८९ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.154 · p. 434
महानन्दोऽपवर्गः स्त्री निवृत्तिर्मुक्तिरित्यपि ।सिद्धिः क्लीबे ब्रह्म शिवं श्रेयो निःश्रेयसामृते ॥ १५४ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.62 · p. 468
कुद्दालस्य निचोलस्य वारुलपत्रवालयोः ।स्याद्बाहुलदेवलयोर्जटिलस्य शिवस्य च ॥ ६२ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable); pāda 3, syllable 4 ल (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ परमात्मवर्गः Koṣakalpataru 1.1.33 · p. 4
मोक्षः स्यादपुनर्भवोऽपि च महानन्दोऽपवर्गस्तथादुःखौघप्रलयो महोदयद्रहः स्त्री निर्वृतिः सिद्धिवत् ।मुक्तिर्ब्रह्म नपुंसकेऽमृतशिवश्रेयांसि निःश्रेयसम्निर्वाणं सुखमक्षरं च कथितं कैवल्यमुच्चैःपदम् ॥ ३३ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 2, syllable 10 य (wrong syllable)
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.65 · p. 14
पञ्चास्येश्वर-शंकर-प्रमथपा-भालाङ्क-उड्डीश्वरो-ऽप्युग्रो धूर्जटिरिन्दुशेखर-जटाटीरौ कपाली मृडः ।रुद्र-त्र्यम्बक-वामदेव-शिपिविष्टा अष्टमूर्त्तिर्महा-देवो दिग्वसनः श्मशानसदनो भीमो गिरीशः शिवः ॥ ६५ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.4 · p. 152
नक्तंचरः शिवो दुर्गो देवधूप-ज[33b]टायुषौ ।सर्वंसह-मरुद्भाव-महिषाक्ष-जटायवः ॥ ४ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.17 · p. 153
मल्लिगन्धि तु मङ्गल्यमस्त्री भूर्जः स्थिरच्छदः ।चित्रपत्रो मृदुत्वक्को भूजो भूतहरः शिवः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.50 · p. 286
गवां मले गोमयोऽस्त्री भूमिलेपनमित्यपि ।साढो गोग्रन्थिरुपलोत्पले न स्त्री करीषवत् ॥पिष्टकं छगणं छाणं शुष्के गोमूत्र-गोजले ।आपीनोऽस्त्री क्लीबमूधः कीलः पुष्पलकः शिवः ॥तिष्ठद्गु त्वव्ययं दोहसमयः क[137a]थितो गवाम् ।स्यादायतीगवं तद्वद्यत्रागच्छन्ति धेनवः ॥ ५० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.14 · p. 10
धाराकदम्बे त्वरणिर्विश्वरूपमहौजसौ ।नीपे तु दीपनो धूर्तो नर्त्तो धूवारकः शिवः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.76 · p. 43
नक्तंचरः शिवधूपः कुम्भोलूखलकः शिवः ।पारिभद्रे निम्बतरुर्मन्दारः पारिजातकः ॥ ७६ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable); pāda 3, syllable 5 नि (wrong syllable)
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.118 · p. 23
परमाप्तो गुरुर्ब्रह्म आत्मलाभकरः शिवः ।वरूथः प्रवरो ज्ञानी ब्राह्मणो ज्योतिरात्मवान् ॥ ११८ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 68 · p. 35
तत्पिता शङ्करः शम्भुः शिवः स्थाणुर्महेश्वरः ।त्र्यम्बको धूर्जटिः शर्वः पिनाकी प्रमथाधिपः ॥ ६८ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 198 · p. 91
क्षेमं कल्याणमुभयं श्रेयो भद्रं च मङ्गलम् ।भावुकं भविकं भव्यं श्वोवसीयं शिवं तथा ॥ १९८ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.33 · p. 10
नाट्यप्रियोऽस्थिधन्वापि हर्ता पिङ्गेक्षणः शिवः ।शिपिविष्टोऽपि सर्वज्ञभवौ पञ्चमुखोऽपि च ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.195 · p. 76
शृगालो घोरवासी च गोमायुः शिवफेरघौ ।फेरण्डो हूरवः क्रोष्टा जम्बुको मृगधूर्तकः ॥ १९५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.266 · p. 85
कैवल्यममृतं सिद्धिर्महानन्दोऽपुनर्भवः ।मुक्तिर्ब्रह्म शिवं मोक्षो निर्वृतिः श्रेयसा सह ॥ २६६ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.272 · p. 86
श्वःश्रेयसं शिवं शस्तं शुभं कल्याणनाम च ।शुभावहो विधिर्ना यः प्रधानं प्रकृतिः स्त्रियाम् ॥ २७२ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंलिङ्गसंग्रहः Paramānandīyanāmamālā 6.1.26 · p. 214
शिवावयवकोटीशवंशोड्डीशवृषाः कुशः ।पुरेडाशवरासी च निर्यूहर्षी घृणिध्वनी ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.70 · p. 10
तत्प्रासादो वैजयन्तो भास्वरं कामदं शिवम् ।तत्सभा सुरसा धर्मा सुधर्मा नाटकी झरा ॥ ७० ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.146 · p. 20
भावुकं कुशलं क्षेमं भव्यं भाव्यं शिवं शुभम् ।शस्तं चाथ जनुर्जन्म जनिर्जनन इष्यते ॥ १४६ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.683 · p. 115
शिवं पुण्यं पवित्रे स्यान्मलिने कच्चरं मतम् ।विमले शोधितं वि(वी?)ध्रं निर्णिक्तं मृष्टमित्यपि ॥ ६८३ ॥
अनुष्टुप्
genderविadj.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त अण्डजमरीचिः Pañcatattvaprakāśa 6.3.388 · p. 27
अपर्णोमा हैमवती शिवाऽम्बा गिरिशप्रिया ।शिवः शम्भुर्महादेवो रेरिहाणोऽन्धकद्विषत् ॥ ३८८ ॥
अनुष्टुप्
genderपुंmasc.
संसारावर्त Saṃsārāvarta · विक्रमादित्य Saṃsārāvarta 3 · p. 466
हीरः कपर्दी च शिवो दक्षयज्ञहरो हरः ॥ ३ ॥
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण ब्राह्मणप्रकरणम् Śabdacandrikā 5.1.6 · p. 42
अगस्तिः कलशीपुत्रोऽगस्त्यो वातापिसूदनः ।तपनः पीतजलधिः प्रमाणपुरुषः शिवः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.19 · p. 3
महेश्वरो महादेवः श्रीकण्ठः शंकरः शिवः ।उग्रः शूली मृडः शंभुस्त्र्यम्बकश्चन्द्रशेखरः ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.148 · p. 34
मोक्षोऽपवर्गो निर्वाणं मुक्तिर्निःश्रेयसं शिवः ।महोदयोऽमृतं सिद्धिः कैवल्यमपुनर्भवः ॥ १४८ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.149 · p. 34
कुशलं मङ्गलं भद्रं कल्याणं भावुकं शुभम् ।क्षेमं भव्यं शिवं श्रेयः शस्तं स्वःश्रेयसं स्मृतम् ॥ १४९ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवाधिदेवविभागः Suśīlanāmamālā 2.49 · p. 8
निर्वाणं निर्वृतिः शान्तिः सर्वदुःखक्षयः शिवः ।निर्याणमपवर्गश्चाऽक्षरं चेति शिवाभिधाः ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवाधिदेवविभागः Suśīlanāmamālā 2.64 · p. 10
प्रशस्तं सुकृतं शस्तं सूनृतं च ततः परम् ।कल्याणं मङ्गलं चैव भद्रं काम्यं तथा शिवम् ॥ ६४ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.230 · p. 31
शिवः शम्भुः वृषाङ्कश्च रुद्रः शर्वश्च शङ्करः ॥ २३० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2299 · p. 373
प्रजनः स्यादुपसरो गर्भं गृह्ह्लाति सा यदा ।शिवः पुष्पलकः कीलः शङ्कुर्गोबन्धनाय यः ॥ २२९९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2330 · p. 377
शृगालश्च सृगालो वै शकुनावेदनी शिवः ।फेरण्डः फेरवः फेरुः जम्बूकः जम्बुकः पुनः ॥ २३३० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.70 · p. 6
शिवः पशुपतिः शम्भुरीश ईशान ईश्वरः ।शूली च ईश्वरः शर्वः शितिकण्ठस्त्रिलोचनः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.305 · p. 21
मङ्गलं भावुकं भव्यं कल्याणं भविकं शुभम् ।अस्त्री क्षेमं प्रशस्तञ्च भद्रं श्वश्रेयसं शिवम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि प्रथमः काण्डः Śabdaratnākara 1.11 · p. 176
संवरो दन्त्यसादिः स्यात्, भद्रकृद्भद्र उच्यते ।मोक्षे श्रेयः शिवं तालव्यादी, निःश्रेयसं पुनः ॥ ११ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि प्रथमः काण्डः Śabdaratnākara 1.16 · p. 176
भावुकं भविकं भव्यं शिवं च श्वोवसीयसम् ।श्रेयः स्वःश्रेयसं तालव्यादयः कुशलं पुनः ॥ १६ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.92 · p. 225
शम्बरं दन्त-तालव्यादिमं स्याच्छवरः शिवम् ।कृपीटं कृषीटमलं कमलं च शरं सरः ॥ ९२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 कृ (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.312 · p. 244
गोधनं धनं कीलस्तु पुंस्त्रियोः पुष्पलान्विता ।पुष्पलकः शिवकश्च शिवोऽपि ध्रुवको ध्रुवः ॥ ३१२ ॥
metre not recognised
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.43 · p. 6
शंभुः शंकर ईश्वरः पशुपतिः शर्वः शिवस्त्र्यम्बकोभूतेशः परमेश्वरः पुररिपुः शूली हरो धूर्जटिः ।ईशानः शशिशेखरस्त्रिनयनो भीमः पिनाकी मृडोरुद्रः स्थाणुरुमापतिः स्मरहरो भर्गः कपर्दी भवः ॥ ४३ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.281 · p. 38
भाग्यं दिष्टं भागधेयं दैवं च नियतिर्विधिः ।श्वःश्रेयसं तु कल्याणं श्वोवसीयं शिवं शुभम् ॥ २८१ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1500 · p. 181
ते चत्वारोऽस्त्रियां प्रस्थ आढकस्तच्चतुष्टयम् ।तौ द्वौ शिवस्तौ द्रोणस्तौ खारी वाहो निकुञ्चकः ॥ १५०० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1800 · p. 218
निद्रालुस्तु शिवः शान्तः स्वस्तिकस्तु निषण्णकः ।अगस्त्यः शुकनासोऽथ महेन्द्री तु बृहत्फला ॥ १८०० ॥
अनुष्टुप्
genderपुंmasc.
उः शङ्करो वर्त्तुलाक्षी भूतः कल्याणवाचकः ।अमरेशो दक्षकर्णः षड्वक्त्रो मोहनः शिवः ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मध्वाचार्यविरचितमातृकानिघण्टु Tantrābhidhāna 6.1 · p. 41
ध्रुवस्तारस्तथौङ्कारो मूलज्योतिः शिवोऽव्ययः ।वेदाद्यस्तारकोऽव्यक्तः शाखादिः प्रणवः स्मृतः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
घः संहर्ता दक्षकरः काम(ल)रूपी शिवोत्तमः ।खड्गी सव्यो घोरनामा मेधा गौश्च घ-कारकः ।शिवाख्यो लाङ्गली मूलं दन्तुरो घुर्घुरोऽपि च ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
-----------------------------------नागलोकोऽमलाख्यश्च शिवः शान्तिदसंज्ञकः ॥ ५८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
प्रणवस्तारकोऽव्यक्तो वेदादिश्च शिवोऽव्ययः ।आदिमश्च ध्रुवोङ्कारौ मूलज्योतिः शिवादिकः ।त्रिवृद्ब्रह्मा त्रिमात्रश्च शब्दाः प्रणववाचकाः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव स्वर्गवर्गः Trikāṇḍaśeṣa 1.1.47 · p. 10
एकपाद्भौतिको भद्रोर्वरेताः पांशुचन्दनः ।अस्थिमाली शिवश्चाऽस्य खट्वाङ्गतु सुखंघुणः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव कालवर्गः Trikāṇḍaśeṣa 1.4.32 · p. 19
शल्यं तूस्तं च कल्कोऽथ भद्रं भल्लं शिवं तथा ।शं शुभं चाव्यये प्राणी सत्त्वो रूपं चतुष्पदः ॥ ३२ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.41 · p. 6
व्योमकेशो महादेवः प्रमथाधिपतिः शिवः ।शूली दक्षाध्वरारातिः कामारिः परमेश्वरः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.149 · p. 57
कलंब्यां शतपर्वा स्यात् कलंबूर्वायसी वधा ।पटुञ्चिकायां तु शिवः शान्तः स्वस्तिककुक्कुटौ ॥ १४९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.155 · p. 57
हरिपर्णे मूलकोऽस्त्री सेकिमं बुस्तिका न षण् ।नीलकण्ठोऽथ मरुजे शिवं चाणक्यमूलकम् ॥ १५५ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.16 · p. 66
रौहिषो गर्दभाभासो रोहितः श्वेतराजिमान् ।वातायुः स्याद्वातमृगो जवी वातप्रमीः शिवः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.96 · p. 131
वालुकं चाथ शैलेयं वृद्धं गिरिशिलाह्वयम् ।कालानुसार्यं पाषाणपुष्पं शितशिवं शिवम् ॥ ९६ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.47 · p. 139
पक्वैस्त्विक्षुरसैरस्त्री शीधुः पंकरसः शिवः ।शीतपंको रूक्षणीयोऽप्यपक्वैरसिकासवौ ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.143 · p. 212
श्वः श्रेयसं शिवं भद्रं कुशलं सूनृतं शुभम् ।श्रेयश्चैते समीपाद्या धर्मे क्ली तद्वति त्रिषु ॥ १४३ ॥
अनुष्टुप्
genderविadj.
धरणिकोश Dharaṇikośa · धरणिदास वश्लोकः Dharaṇikośa 28.3.1 · p. 208
शिवं भद्रं शिवः शम्भुः शिवो मुक्तिः… ।शिवः कीलः शिवो वेदो ग्रहयोगः शिवः स्मृतः ॥
अनुष्टुप्metre not read in every line
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वान्ताः Koṣakalpataru 6.29.95 · p. 358
शिवस्तु शंभौ नरि गुग्गुलौ चवेदे च योगान्तरके च कीले ।स्यात्पुण्डरीकद्रुमवालुके चस्त्रियां तु झाटामलकौषधौ स्यात् ॥ ९५ ॥
उपजातिः
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वान्ताः Koṣakalpataru 6.29.96 · p. 358
शम्यामलक्योरभयाशृगाल्यो-र्गौर्यां द्वयोनस्तु शुभे सुखे च ।मोक्षे जले चाथ दिवं च नाकेजीवः पुमान्प्राणिनि वृक्षभेदे ॥ ९६ ॥
इन्द्रवज्रा
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1358 · p. 158
शार्ङ्गी तु पुंसि गोविन्दे तथा शार्ङ्गवति त्रिषु ।शिवः शम्भौ पद्मरागे गोरसे शीथुकीलयोः ॥ १३५८ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1359 · p. 158
सुनिषण्णाख्यशाके च नाथ वातमृगे द्वयोः ।अथो शिवा स्त्री पार्वत्यां शम्भोर्नवसु शक्तिषु ॥ १३५९ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1361 · p. 159
तुलस्यां क्रोष्टुभेदे च दीप्तजिह्वाह्वयेऽथ तत् ।क्लीबं वारिणि कल्याणे स्थौणेये मूलकान्तरे ॥ १३६१ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1362 · p. 159
चाणक्यमूलकाभिख्ये व्योम्नि त्रि तु शुभान्विते ।शिला त्वश्मनि पेषण्यां द्वाराधःस्थितदारुणि ॥ १३६२ ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास शकारादयः Paramānandīyanāmamālā 5.25.355 · p. 206
शिवं भद्रे सुखे नीरे शिवो जम्बुकरुद्रयोः ।गुग्गुले कीलके योगे शिवा कात्यायिनी स्मृता ॥ ३५५ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र वद्विः Śivakoṣa 24.1.501 · p. 46
क्लीबं गन्धरसे चोपविषाशङ्खाह्वयोः स्त्रियाम् ।शिवः पुरे पुण्डरीके बकुले सैन्धवे शिवम् ॥ ५०१ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वान्ताः Śabdaratnāvalī 7.29.21 · p. 286
शिवः स्वरे हरे योगे कीलके ग्रहवालयोः ।मोक्षगुग्गुलयोः पुंसि शिवं भद्रसुखाप्सु च ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2008 · p. 244
शिवो महेश्वरे शङ्कौ पुमान् क्लीबे तु मङ्गले ।शुद्धे त्रिषु शिवा क्रोष्टाभया शम्यामलक्युमा ॥ २००८ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.423 · p. 242
अश्वौघे वाडवं न स्त्री पाताले ना द्विजौर्वयोः ।वडवाऽश्वाकुम्भदास्योर्योगे कील हरे शिवः ॥ ४२३ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.424 · p. 243
सुखं क्षेमं शिवं शम्यामलकी चाभया शिवा ।षाडवस्तु रसे रागे सैन्धको लवणाश्वयोः ॥ ४२४ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.84 · p. 237
शिवा हरीतकी क्रोष्टा शमी नद्यामलक्युमा ।शिवो घोले पद्मरागे हरे कीले शिवं जले ॥ ८४ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.85 · p. 237
भद्रे चाथोपधा शुद्धसचिवेऽग्नौ हरौ शुचिः ।चन्द्रेऽर्के च त्रिषु त्वेष शुद्धेऽनुपहते सिते ॥ ८५ ॥
अनुष्टुप्
meaningsभद्र
doubtful

शिव as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् नीलकण्ठकष्टे तु कृच्छ्रगहने दक्षामन्दागदेषु तु ॥ ३९ ॥ पटुर्द्वौ वाच्यलिङ्गौ च नीलकण्ठः शिवेऽपि च । Amarakośa 3.3.78
  • धरणिकोश शिपिविष्टसंसृष्टं संगते विद्याच्छुद्धे च वसनादिना । शिपिविष्टः शिवे ख्यातो दुश्चर्मा खलतिस्तथा ॥ Dharaṇikośa 10.2.15
  • धरणिकोश नीलकण्ठश्रीकण्ठः स्यान्महादेवे श्रीकण्ठः कुरुजाङ्गले । नीलकण्ठः शिवो बर्ही चाटकैरश्च खञ्जनः ॥ Dharaṇikośa 11.2.9
  • धरणिकोश स्थाणुस्थाणुः शिवे [स्थि]रे कीले वृष्णिर्यादवमेषयोः । रणः स्यात्संयुगे क्काणे शाणः कषमाषचतुष्कयोः ॥ Dharaṇikośa 14.1.4
  • धरणिकोश सूनृतसूनृतं प्रियसत्यर्थे भाषणे सूनृतं शिवे । प्रार्थितं शत्रुणा रुद्धे याचिते प्रार्थितं विदुः ॥ Dharaṇikośa 15.2.25
  • धरणिकोश गणाधिपति[43] गणाधिपतिरित्येष शिवे विनायकेऽपि च । उपधूपित आसन्नमरणे परिधूपिते । स्यावलोकितं दृष्टं जिनः स्यादवलोकितः ॥ Dharaṇikośa 15.2.87
  • धरणिकोश ध्रुवध्रुवः शिवे स्याद्वसुयोगभेदयो- र्नित्ये च कीले च वटद्रुमे च । स्रुग्गीतिभेदावपि ? सालपर्णिका ध्रुबा स्मृता निश्चिततर्कयोर्ध्रुबम् ॥ Dharaṇikośa 22.3.2
  • धरणिकोश शम्भुशुभो योगे शुभं क्षेमे डिम्भः शिशौ च बालिशे । शम्भुरर्हच्छिवो ब्रह्मा स्तम्भः स्थूणाजडत्वयोः ॥ Dharaṇikośa 23.1.2
  • धरणिकोश ममः शिवो मा तु लक्ष्मीः स्यान्मा निषेधेऽव्ययं स्मृतम् । किंशब्द इष्यते क्षेपे प्रश्ने कुत्सावितर्कयोः ॥ Dharaṇikośa 24.2.1
  • धरणिकोश केदारकेदारः क्षेत्रकोष्ठीषु ? केदारौ शिवपर्वतौ । खर्जुरं रूप्यके विद्याद्वृश्चिकद्रुमभेदयोः ॥ Dharaṇikośa 26.2.60
  • धरणिकोश महाकालमहाकालश्च कथितः किंपाके प्रमथे शिवे । लोकालोके चक्रवालश्चक्रवालं तु मण्डलम् ॥ Dharaṇikośa 27.2.46
  • धरणिकोश अद्रीशपक्षीशो गरुडे विष्णावद्रीशोऽद्रिपती शिवे । अम्बरीशं रणे भ्राष्ट्रे जीवितेशो यमे प्रिये ॥ Dharaṇikośa 29.1.4
  • धरणिकोश निःश्रेयसवायसी काकमाची स्यादभ्यासो निकटेऽपि च । उदर्चिरुत्प्रभे वह्नौ दिवौकाश्चातके सुरे । निःश्रेयसं शिवो मोक्षः श्वःश्रेयसं शिवं सुखम् ॥ Dharaṇikośa 31.1.9
  • धरणिकोश हह स्यात्संबोधने पादपूरणेऽनव्ययं शिवे । हा शोके [च] विषादे च दुःखार्थे च स्मृतो बुधैः ॥ Dharaṇikośa 34.21.2
  • कोषकल्पतरु ऋषभध्वजऽथो मुनिभेषजं तु । अभोजनागस्तिहरीतकी पुं जिने शिवे स्यादृषभध्वजोऽपि ॥ ४५ ॥ Koṣakalpataru 6.7.45
  • कोषकल्पतरु शिपिविष्टदुश्चर्मणि स्यात्खलतौ शिवे च कोषप्रवीणैः शिपिविष्ट उक्तः । संप्रेषिते किंच निराकृते च विशेष्यनिघ्नः प्रतिसृष्ट उक्तः ॥ ५० ॥ Koṣakalpataru 6.10.50
  • कोषकल्पतरु देवमणिदर्दराम्रे खञ्जरीटे मीना[285a]म्रीणो नृलिङ्गकः । शिवे देवमणिर्वाजिकण्ठावर्ते च कौस्तुभे ॥ ६० ॥ Koṣakalpataru 6.15.60
  • कोषकल्पतरु गोपतिचापे स्यात्तृणताथ गोपतिरपि क्ष्मापे च शण्डे शिवे सूर्ये[296b]श्रीपतिरच्युते स्मरहरेऽथो शिल्पिभेदे नरि । जीवेऽथ स्थपतिश्च यष्टरि भवेत् सूते तथा सौविदे । कालेन्द्वोरमतिः स्मरे तु रमतिः कान्तेऽपि काले दिवि ॥ २९ ॥ Koṣakalpataru 6.16.29
  • कोषकल्पतरु विभुकस्तूरिकायां गदिता स्त्रियां च विभुः शिवे व्यापिनि तु त्रिषु स्यात् । नित्ये प्रभौ ब्रह्मणि तु स्वभूः स्यात् विष्णौ च शंभुस्तु हरे हरौ च ॥ ४५ ॥ Koṣakalpataru 6.24.45
  • कोषकल्पतरु ममश्चन्द्रे च शिवे च वेधसि मतो मा मातृलक्ष्म्योर्भवेत् Koṣakalpataru 6.25.1
  • कोषकल्पतरु ध्रुवनवः स्तवे ना तरुणेऽन्यवत्स्याद्- ध्रुवः शिवे भान्तरयोगयोश्च । मुनौ वसौ स्याद्वटशङ्कुकीले स्त्री शालिपर्ण्यां स्रुचि गीतिभेदे ॥ ९३ ॥ Koṣakalpataru 6.29.93
  • कोषकल्पतरु गिरिशस्यात्कर्कशोऽस्त्री कठिने दयोने क्रूरे दृढे च त्रिषु पुंसि चेक्षौ । कम्पिल्लके कासकमर्दकेऽथ गिरीश उक्तो धिषणे शिवे च ॥ २३ ॥ Koṣakalpataru 6.30.23
  • कोषकल्पतरु तुङ्गांशहिमाचलेऽथ स्मरवैरिणि स्या- दुड्डीश उक्तोऽपि निबन्धभेदे । तुङ्गांश इन्दौ च शिवे प्रदिष्टः पक्षीश उक्तो गरुडे च कृष्णे ॥ २४ ॥ Koṣakalpataru 6.30.24
  • नानार्थार्णवसंक्षेप रुद्रचतुष्पाज्जातिभेदे च स्यादश्वावेसरोद्भवे । रुद्राणी त्वद्रिजायां स्त्री ना तु रुद्रः शिवेऽनले ॥ १११४ ॥ Nānārthārṇavasaṃkṣepa 2.5.1114
  • नानार्थार्णवसंक्षेप शर्वदशानां दशके चाथ शंस्यः शंस्ये त्रि ना पुनः । अग्नावाहवनीयाख्ये शर्वस्तु स्याच्छिवे पुमान् ॥ १३२१ ॥ Nānārthārṇavasaṃkṣepa 2.5.1321
  • नानार्थार्णवसंक्षेप हीरत्रिरूनगर्ह्ययोर्ना तु नागकेसरपादपे । हीरः पुंसि शिवे द्वे तु सर्पे सिंहे च स त्रि तु ॥ १५९७ ॥ Nānārthārṇavasaṃkṣepa 2.5.1597
  • नानार्थार्णवसंक्षेप गोपतिगोपतिस्तु रवौ शण्डे शिवे च रभसः पुनः । नमे वन्दिनि गोरङ्कुरित्याह घुटिकः पुनः ॥ ८४ ॥ Nānārthārṇavasaṃkṣepa 3.2.84
  • नानार्थार्णवसंक्षेप भालाङ्कवचने नबुपालम्भवाचि तु स्त्री हि भाषणी । भालाङ्कस्तु शिवे शाकभेदेऽपि करपत्रके ॥ १२९० ॥ Nānārthārṇavasaṃkṣepa 4.1290
  • परमानन्दीयनाममाला ममः शिवे चन्द्रविध्योश्च मा लक्ष्म्यां मातृमानयोः । निषेधे माव्ययं ख्यातं मा निशाकरमासयोः ॥ ३४ ॥ Paramānandīyanāmamālā 1.34
  • परमानन्दीयनाममाला अक्षरअनन्तस्तु हरौ शेषबलयोरक्षरं शिवे । परब्रह्मणि धर्मे चाध्वरवर्णनभःस्वपि ॥ २१ ॥ Paramānandīyanāmamālā 5.1.21
  • परमानन्दीयनाममाला अपवर्गआदित्यस्त्रिदशे सूर्येऽथानको जलदस्वने । मर्दले पटहे भेर्यामपवर्गः शिवे स्मृतः ॥ ३९ ॥ Paramānandīyanāmamālā 5.1.39
  • परमानन्दीयनाममाला निर्वाणनिर्वाणं तु शिवे दन्तिमज्जने च विनाशने । नर्तको द्विरदे मत्स्ये नृत्यकर्तरि सम्मतः ॥ २७४ ॥ Paramānandīyanāmamālā 5.18.274
  • परमानन्दीयनाममाला सोमदिव्यौषध्यां कपौ विष्णौ शक्रसूर्यशिवेषु च । सिद्धिर्मोक्षे च योगस्य निष्पत्तावपि कथ्यते ॥ ३६७ ॥ Paramānandīyanāmamālā 5.27.367
  • शिवकोष शलाटुचन्दने कदलीगर्भे शलाटुः शिवबिल्वयोः । शार्ङ्गष्टा काकणन्त्यां च काकमाचीकरञ्जयोः ॥ १३६ ॥ Śivakoṣa 8.2.136
  • शिवकोष दिव्यदिव्यं कोले लवे सूते शिवे ब्राह्म्यां तु योषिति । दीप्यो यवान्यां मोदायां धन्या धात्र्यां वितुन्नके ॥ ३४२ ॥ Śivakoṣa 21.1.342
  • शिवकोष वज्रमुरा महासहायां स्याद्गन्धकुट्यामपि स्त्रियाम् । वज्रः सिहुण्डे वज्रं तु शिवहीरकवालके ॥ ३८७ ॥ Śivakoṣa 22.2.387
  • शब्दरत्नावली वसुकवसुकं वौमके ना तु शिवमल्ल्यर्कपर्णयोः । कर्णिका काञ्चनोत्कर्षे वर्णको मण्डले पुमान् ॥ Śabdaratnāvalī 7.1.136
  • शब्दरत्नावली वृषाङ्कवृश्चिको राशिभेदे स्याद् द्रूणे कीटौषधीभिदोः । वृषाङ्कः साधुशिवयोः भल्लातकमहल्लयोः ॥ Śabdaratnāvalī 7.1.142
  • शब्दरत्नावली विरिञ्चिस्याद्विपञ्ची तु वीणायां क्रीडायामपि कीर्तिता । विरिञ्चिः स्याद्विरिञ्चोऽपि शिवे विष्णौ विधातरि ॥ Śabdaratnāvalī 7.6.16
  • शब्दरत्नावली ठशिवे ठश्च बृहद्धनौ शून्ये शीतांशुमण्डले । Śabdaratnāvalī 7.12.1
  • शब्दरत्नावली दण्डातथा षट्क्षणकाले च चण्डांशु पारिपार्श्विके । स्याद्धण्ड(?) दूर्वाशिवयोश्चर्यायां गहनादिभिः ॥ Śabdaratnāvalī 7.13.17
  • शब्दरत्नावली रैवतरसितं क्लीबलिङ्गं स्याद् रुते जलदगर्जिते । त्रिषु स्वर्णादिखचिते रसयुक्ते च कुत्रचित् ॥ रेवती तारकामातृभिदोश्च रामयोषिति । रैवतः स्यात्सुवर्णालुवृक्षे शैलान्तरे शिवे ॥ रोहितो मीनमृगभिद् रोहितकद्रुमेषु च ॥ Śabdaratnāvalī 7.16.128
  • शब्दरत्नावली आत्मयोनिआत्मयोनिः शिवे कामे हरौ च परमेष्ठिनि । उद्वर्त्तनमुत्पतने विलेपे घर्षणेऽपि च ॥ उद्वाहनी भवेद्रज्वां द्विसीत्ये तु नपुंसकम् । उपासनं शराभ्यासे सेवनासनयोरपि ॥ कपीतनश्चलदले गर्दभाण्डे शिरीषके । आम्रातके च पूगे च मालूरेऽपि च कुत्रचित् ॥ कलापी स्यान्मयूरे च प्लक्षभूमिरुहे पुमान् । क्षौमं(?) शुद्धार्द्धजरती विधवादुर्गयोः स्त्रियाम् ॥ कुम्भयोनिर्वशिष्ठे स्याद् द्रोणेऽगस्त्ये पुमानयम् । कुचन्दनं वृक्षभेदे कुङ्कुमे रक्तचन्दने ॥ कुण्डली कुण्डलवति व्याले बर्हिप्रचेतसोः । केशरी सिंहपुन्नागनागकेशरवाजिषु ॥ Śabdaratnāvalī 7.20.105
  • शब्दरत्नावली पञ्चावनपञ्चावनः शिवे सिंहे भवेदत्युग्रकेऽपि च । प्रहसनं परिहासे प्रहासे रूपकान्तरे ॥ Śabdaratnāvalī 7.20.114
  • शब्दरत्नावली नन्दिवर्द्धनअमेरुद्रुमभिदो(?)र्ना जम्बुमाली निगद्यते । स्यात्क्लीबं दन्तशुद्धौ ना खदिरे दन्तधावनः ॥ केतुग्रहे हुताशे च स्यात्पुमान् धूमकेतनः । शिवे सुते च पक्षान्ते मित्रे ना नन्दिवर्द्धनः ॥ दाने च प्रतिपत्तौ च बोधने प्रतिपादनम् । भुजङ्गे च मयूरे च प्रचलाकी भवेत्पुमान् ॥ धनदे भास्करे विष्णौ विधौ च पद्मलाञ्छनः । वाग्देवतायां तारायां पद्मायां पद्मलाञ्छना ॥ कालीयके हरिद्रायां न द्वयोः पीतचन्दनम् । भीमे षेष्ठे च महिष पृष्ठशृङ्गी भवेत्पुमान् ॥ देवदारुणि कालीये न द्वयोर्वरचन्दनम् । स्त्रीरत्नरोचनालाक्षाहरिद्राफलिनीषु च ॥ साध्व्यां गौरीसरस्वत्योः पद्यायां वरवर्णिनी । वासुदेवे मधुकरे स्यात्पुंसि मधुसूदनः ॥ Śabdaratnāvalī 7.20.134
  • शब्दरत्नावली बहुरूपपिण्डपुष्पं सरोजे स्याज्जवातगरवञ्जुले । बहुरूपी(?) स्मरे विष्णौ शिवे च केशबुद्धयोः ॥ मेघपुष्पः शक्रह्ये क्लीबं पिण्डाभ्रवारिणोः । विप्रलापोऽपार्थवाक्ये विरोधवचनेऽपि च ॥ Śabdaratnāvalī 7.21.22
  • शब्दरत्नावली वृषाकपिबीजपुष्पञ्च मदने क्लीबं मरुवकेऽपि च । वृषाकपिः पुंसि कृष्यो वीतिहोत्रे शिवेऽपि च ॥ हेमपुष्पं जवापुष्पेऽप्यशोके च नपुंसकम् । Śabdaratnāvalī 7.21.23
  • शब्दरत्नावली ममो ब्रह्मणि शिवे चन्द्रे मा लक्ष्मीमानमातृषु । मूर्बन्धने स्त्रियामेव मा निषेधे बदव्ययम् ॥ Śabdaratnāvalī 7.25.1
  • शब्दरत्नावली भीमभीष्मो घोरतरेऽपि स्याद् गाङ्गेयेऽपि च पुंस्ययम् । भीमो घोरे शिवे मध्यपाण्डवे चाम्लवेतसे ॥ अथ भूमिः स्थानमात्रे पृथिव्यामपि च स्त्रियाम् । भौमस्त्रिषु भूमिभवे पुंसि स्यान्नरके कुजे ॥ यमः शत्रौ च शमने काके ना यमजेऽन्यवत् । ना देहसाधनापेक्षनित्यकर्मणि संयमे ॥ यामस्तु प्रहरे पुंसि संयमावसयोरपि (?) ॥ Śabdaratnāvalī 7.25.16
  • शब्दरत्नावली उग्रआरुर्वराहे पुंसि स्यात्तरुभेदे च कर्कटे । इन्द्रः शक्रे योगभेदे सूर्यभेदेऽन्तरात्माने ॥ इन्द्रा फणिज्झके स्त्री स्यादिन्द्रान्यामपि कुत्रचित् । उग्रस्त्रिषूत्कटे पुंसि क्षत्राच्छूद्रासुते शिवे ॥ Śabdaratnāvalī 7.27.5
  • शब्दरत्नावली भरुभरुर्ना स्वर्णशिवयोर्भरौर्भावितिवेणयोः (?) । भद्रो हस्तिजातिभेदे खञ्जने गिरिशे वृषे ॥ Śabdaratnāvalī 7.27.25
  • शब्दरत्नावली हरिहंसकोकिलसिंहाश्वकपिभेदेशुकाहिषु । लोकान्तराग्निकृष्णेषु शिवे ना पिङ्गले त्रिषु ॥ हारः पुमानुरोभूषायुद्धमुक्तावलीषु च । हारि युद्धादि भङ्गेषु स्त्री पान्यसन्ततिवन्धयोः ॥ Śabdaratnāvalī 7.27.50
  • शब्दरत्नावली केदारपुमान् सिंहशटानागपुन्नागवकुलेषु । केदारः क्षेत्रभूभेदं शिवाद्रिष्वालबालके ॥ Śabdaratnāvalī 7.27.67
  • शब्दरत्नावली कालञ्जरकालञ्जरो योगिचक्रमेलकाद्रिशिवेषु च । कृष्णसारो मृगस्नुह्योः शिंशपायामपि स्त्रियाम् ॥ गिरिसारस्तु मलये लोहे बङ्गे च कीर्त्यते । चराचरं भवेत्क्लीबं जगति त्रिषु जङ्गमे ॥ चक्रधरो ग्रामजालिभुजङ्गमहरिष्वपि । तोयधरो मेघमुस्तासुनिषम्रौषधीष्वपि ॥ Śabdaratnāvalī 7.27.124
  • शब्दरत्नावली दिगम्बरदिगम्बरः शिवे नग्ने क्षपणे च तमस्यपि । दुरोदरो द्यूतभेदे द्यूतकारे पणेऽपि च ॥ Śabdaratnāvalī 7.27.126
  • शब्दरत्नावली कीलकाली गौर्या क्षीरकीटे कालिकामातृभेदयोः । कीलः सर्पे शिवे ज्वालाशङ्कुलेषेषु पुंस्ययम् ॥ Śabdaratnāvalī 7.28.7
  • शब्दरत्नावली उअः स्यात्कृष्णे आ विधौ स्याद् इः कामे ईः श्रियामपि । उः शिवे ऊ विधौ ऋः स्याद्देवमातरि ऋर्दिवि ॥ Śabdaratnāvalī 8.1
  • शब्दरत्नाकर भूतनाथबाहुलेयो वृषे स्कन्दे भूतनाथः शिवे नृपे । महाकालो हरे हालाहले बाणासुरेऽपि च ॥ २२२० ॥ Śabdaratnākara 4.1.2220
  • तन्त्राभिधान उउः शिवः प्रणवं विष्णुर्दक्षकर्णोऽमरेश्वरः । ऊ-रर्घीशो वामकर्णः कथितो मधुसूदनः ॥ ४ ॥ Tantrābhidhāna 1.4
  • तन्त्राभिधान जछ-कारो मुषली ज्ञेय एकनेत्रश्च शैलजे! । जः शिवोऽर्चिर्महेशानि! शूली च चतुराननः ॥ १६ ॥ Tantrābhidhāna 1.16
  • तन्त्राभिधान ळ्----------------------------------- ळ-कारो विमलो जीवः शिवो भूमिर्वरानने! । क्ष-कारो नरसिंहश्च मेरुः संवर्तकोऽपि च ॥ ३० ॥ Tantrābhidhāna 1.30
  • तन्त्राभिधान हौंक्लीं कामो ग्लौञ्च भूबीजं श्रौं विश्वः क्ष्रौं नृकेशरी । हौं प्रासादं शिवो गञ्च विघ्नराज उदाहृतः ॥ ३४ ॥ Tantrābhidhāna 1.34
  • तन्त्राभिधान अंपरं शशी प्रमाणीशः सोमो बिन्दुः कलानिधिः । अक्रूरश्चेतना नादः पूर्णा दुःखहरः शिवः ॥ ५० ॥ Tantrābhidhāna 2.16.50
  • तन्त्राभिधान नगिरिनायक-नीलौ च शिवोऽनादिर्महामतिः ॥ १२० ॥ Tantrābhidhāna 2.37.120
  • तन्त्राभिधान मविषं शिवो महावीरः शशिपुत्रो जनेश्वरः । प्रमत्तः प्रियसू रुद्रः सर्वाङ्गं वह्निमण्डलम् ॥ १३७ ॥ Tantrābhidhāna 2.42.137
  • तन्त्राभिधान षलम्बोदरो यमोऽजेशः कामधुक् काम(ल)धूमकः । सुश्रीरुष्मा वृषो लज्जा मरुद्भक्ष्यः प्रियः शिवः ॥ १५७ ॥ Tantrābhidhāna 2.48.157
  • तन्त्राभिधान हहः शिवो गगनं हंसो नागलोकोऽम्बिकापतिः । नकुलीशो जगत्प्राणः प्राणेशः कपिलाऽमलः ॥ १६३ ॥ Tantrābhidhāna 2.50.163
  • तन्त्राभिधान मभा दीप्तिरपि भूर्भूमिर्भीर्भयं कथिता बुधैः । मः शिवश्चन्द्रमा वेधा मा च लक्ष्मीः प्रकीर्त्तिता ॥ २७ ॥ Tantrābhidhāna 3.27
  • तन्त्राभिधान फवामपार्श्वोऽथ वैकुण्ठः शिवोऽनलस्त्रिपत्रकः । कान्तोरगौ सरित् फुल्लः फट्कारः फा-र्णको मतः ॥ ३९ ॥ Tantrābhidhāna 6.39
  • तन्त्राभिधान वमेधा धियो जलान्तस्थः खड्गीशो हंस-वारिदौ । वरुणश्च शिवो रौद्रो मृतेशो वा-र्णकः स्मृतः ॥ ४५ ॥ Tantrābhidhāna 6.45
  • तन्त्राभिधान हआदौ प्रसादबीजस्य मन्त्रार्थं शृणु पार्वति । शिववाची हकारस्तु औकारः स्यात् सदाशिवः ॥ Tantrābhidhāna 11.2
  • तन्त्राभिधान हहकारः शिववाची स्यात् रेफः प्रकृतिरुच्यते । महामायार्थ ई-शब्दो नादो विश्वप्रसूः स्मृतः ॥ Tantrābhidhāna 11.8
  • तन्त्राभिधान हहः शिवः कथितो देवि ऊ भैरव इहोच्यते । परार्थो नादशब्दस्तु बिन्दुर्दुःखहरार्थकः ॥ Tantrābhidhāna 11.15
  • त्रिकाण्डशेष बकपिञ्जे ना सिकताकर्णभूषाकन्यासु बालिका । शिवमल्ल्यां बकः कह्वे राज्ञि भट्टारकः सुरे ॥ ३५ ॥ Trikāṇḍaśeṣa 3.3.35
  • त्रिकाण्डशेष वृषाङ्कगुरावनाथे गरुडे जिने विघ्ने विनायकः । वृषाङ्कौ शिवभल्लातौ वञ्चकौ धूर्तफेरवौ ॥ ४१ ॥ Trikāṇḍaśeṣa 3.3.41
  • त्रिकाण्डशेष कालकण्ठदात्यूहे कालकण्ठः स्याच्छिवखञ्जनयोरपि । ज्येष्ठो मासि च वृद्धे च ज्येष्ठा च गृहगोधिका ॥ १०७ ॥ Trikāṇḍaśeṣa 3.3.107
  • त्रिकाण्डशेष स्थाणुस्थाणू शङ्कुशिवौ विष्णौ सुषेणः करमर्दके । कपिवैद्यौ चाथऽहृतौ हरणं यौतकेऽपि च ॥ १४२ ॥ Trikāṇḍaśeṣa 3.3.142
  • त्रिकाण्डशेष वृषपर्वन्खर्व्वश्चाऽथ फले शुष्के वानं स्यूते कटे गतौ । वृषपर्वा शिवे दैत्यै वेष्टनं मुकुटे वृतौ ॥ २६० ॥ Trikāṇḍaśeṣa 3.3.260
  • त्रिकाण्डशेष ईश्वरगौरीश्वरी शिवस्वामिकन्दर्पेष्वीश्वरः पुमान् । उदारौ दक्षिणस्थूलौ द्रुमे मेढ्रेऽप्युदुम्बरः ॥ ३३२ ॥ Trikāṇḍaśeṣa 3.3.332
  • त्रिकाण्डशेष उग्रउग्रोत्यजे शिवेऽत्युच्चे उस्रो दीप्तौ गवि स्त्रियाम् । सिंहजटासु पुन्नागे बकुले नागकेशरे ॥ ३३३ ॥ Trikāṇḍaśeṣa 3.3.333
  • त्रिकाण्डशेष शवरशक्करी मेखलाछन्दः शवरः सलिले शिवे । स्थिरा महीशालपर्ण्योः शम्बरं संयमे जले ॥ ३७८ ॥ Trikāṇḍaśeṣa 3.3.378