कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

जिह्वाप

jihvāpaपुं · masc.

In 3 kośas: 1 synonym verse, 2 as a nānārtha head word.

नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 92 · p. 46
कौलेयकः सारमेयो मण्डलः श्वा पुरोगतिः ।जिह्वापो ग्रामशार्दूलः कुक्कुरो रात्रिजागरः ॥ ९२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश पान्ताः Śabdaratnāvalī 7.21.18 · p. 249
कुतपोऽस्त्री कुशे वाद्ये दौहित्रे छागकम्बले ।दिवसस्याष्टमांशे च भवेद्दिनकरे पुमान् ॥कुणपः पूतिगन्धौ स्याच्छवे स्त्री शारिकादिषे ।जिह्वापः कुक्कुरे व्याघ्रे मार्जारे भल्लुकेऽपि च ॥प्रतापः पुंसि तापे स्याच् शौर्ये तीक्ष्णांशुतेजसि ।रक्तपा स्त्री जलोकायां डाकिन्यां राक्षसे पुमान् ॥विटपोऽस्त्री वृक्षशाखाविस्तारे पल्लवेषु च ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.276 · p. 186
गुणवृक्षेऽपि कूपो विट्सार्य्यां स्त्री कुणपः शवे ।जिह्वापः शुनि मार्ज्जारे त्रपुसीसकरङ्गयोः ॥ २७६ ॥
अनुष्टुप्