भल्लुक
bhallukaपुं · masc.In 15 kośas: 16 synonym verses, 5 as a meaning of another word.
भाल्लूकभालूकर्क्षाच्छभल्लभल्लूकभल्लुकाः ।
अनुष्टुप्
genderपुंmasc.
कपिप्लवङ्गप्लवगशाखामृगवलीमुखाः ।मर्कटो वानरः कीशो वनौका अथ भल्लुके ॥ ३ ॥ऋक्षाच्छभल्लभल्लूका गण्डके खड्गखड्गिनौ ।
अनुष्टुप्
genderपुंmasc.
मृगमत्तः स्वभीरुः स्याज्जम्बुको ग्रन्धिलोऽपि च ।वानरो मर्कटः कीशः कुरङ्गो भल्लुकोलिगुः ॥ ३१४ ॥
अनुष्टुप्
genderपुंmasc.
वनरो वानरोऽपि स्यात् भाल्लूको भल्लुकस्तथा ।भालूको भाल्कोऽपि स्याद्भल्बूको भल्वुकस्तथा ॥ १४९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 भा (syllables merged)
genderपुंmasc.
चित्रकश्चित्रकायः स्यादुपव्याघ्रो मृगान्तकः ।व्याघ्र्यां चित्रेण संजातः कलव्याघ्रोऽथ भल्लुकः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
दुर्घोषो भल्लुको भल्लो भालुकः पृष्ठदृष्टिकः ।द्राघिष्ठायुर्दीर्घकेशो भाल्लूको भल्लकोऽपि च ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
श्वेताह्वा श्वेतकुम्भीका कुवेराक्षी फलेरुहा ।स्यात्काष्ठपाटलाऽथ स्यादिटुकष्टिन्दु-भल्लुकौ ॥ ६६ ॥
अनुष्टुप्
genderपुंmasc.
अक्षान्तकः केसरिजो भास्करच्छात्र इत्यपि ।कपिस्वभावः कापेयमथ भल्लूक-भल्लुकौ ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
श्वभीरुः सृगालो भेरुः क्रोष्टा च मृगमत्तकः ।मर्कटः स्यान्महावेगः कुरङ्गो भल्लुकः पृथुः ॥ ८३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 गा (wrong syllable)
genderपुंmasc.
शूकरो विड्वरो ग्राम्यो गर्ताशूकर इत्यपि ।भालूकर्क्षाच्छभल्लूकभल्लभाल्लूकभल्लुकाः ॥ १९४ ॥
अनुष्टुप्
genderपुंmasc.
खड्गी गण्डी गण्डकः स्यादृक्षभालूकभल्लुकाः ॥ १७ ॥
genderपुंmasc.
ऋक्षस्तथाऽच्छभल्लश्च भल्लूको भल्लुकः पुनः ।भालूकश्चापि भाल्लूकश्चेति नामानि सन्ति वै ॥ २३२९ ॥
अनुष्टुप्
genderपुंmasc.
कीशो नगाटनो झम्पी झम्पारुः स्यात् कलिप्रियः ।भल्लूकभल्लभालूकभल्लुका भालुकोऽपि च ॥
अनुष्टुप्
genderपुंmasc.
दन्त्यतालव्यान्तः कोले शूकरः सूकरः किरिः ।किरः ऋक्षे तु भल्लूको भाल्लूको भल्लुकस्तथा ॥ ३२१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व्या (wrong syllable)
genderपुंmasc.
ऋक्षोऽच्छभल्लो भल्लूको भल्लुकोऽप्यथ गण्डकः ।खड्गी वाध्रीणसः खड्गस्तच्छृङ्गे खड्गमस्त्रियाम् ॥ ६७९ ॥
अनुष्टुप्
genderपुंmasc.
महावेगो दधिमुखः कुरंगो भल्लुकः पृथुः ।वलीमुखो वनौकास्स गोलांगूलोऽसिताननः ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
भल्लुक as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् अच्छप्रसन्ने भल्लुकेऽप्यच्छो गुच्छः स्तबकहारयोः । Amarakośa 3.3.58
- धरणिकोश ऋक्षलक्षं छद्मनि विख्यातं लक्षं संख्याशरव्ययोः । ऋक्षाणि तारका ऋक्षो भल्लुकाद्रिप्रमेदयोः ॥ Dharaṇikośa 33.2.1
- कोषकल्पतरु अच्छअच्छः सितग्रावणि भल्लुके ना भेद्यानुगो निर्मलवाचकश्च ॥ १६ ॥ Koṣakalpataru 6.6.16
- शब्दरत्नावली जिह्वापकुतपोऽस्त्री कुशे वाद्ये दौहित्रे छागकम्बले । दिवसस्याष्टमांशे च भवेद्दिनकरे पुमान् ॥ कुणपः पूतिगन्धौ स्याच्छवे स्त्री शारिकादिषे । जिह्वापः कुक्कुरे व्याघ्रे मार्जारे भल्लुकेऽपि च ॥ प्रतापः पुंसि तापे स्याच् शौर्ये तीक्ष्णांशुतेजसि । रक्तपा स्त्री जलोकायां डाकिन्यां राक्षसे पुमान् ॥ विटपोऽस्त्री वृक्षशाखाविस्तारे पल्लवेषु च ॥ Śabdaratnāvalī 7.21.18
- शब्दरत्नावली भल्लवेला स्त्री कालसीमाब्धिकूलेष्वीश्वरभोजने । भल्लः स्यात्पुंसि भल्लुके भल्लातकास्त्रयोर्द्वयोः ॥ Śabdaratnāvalī 7.28.29