कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सारमेय

sārameyaपुं · masc.

In 18 kośas: 16 synonym verses, 1 as a nānārtha head word, 8 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1280 · p. 49
युवाजो वर्करोऽवौ तु मेषोर्णायुहुडोरणाः ।उरभ्रो मेण्ढको वृष्णिरेडको रोमशो हुडुः ॥ १२७६ ॥संफालः शृङ्गिणो भेडो मेषी तु कुररी रुजा ।जालकिन्यविला वेण्यथेडिक्कः शिशुवाहकः ॥ १२७७ ॥पृष्ठशृङ्गो वनाजः स्यादविदुग्धे त्ववेः परम् ।सोढं दूसं मरीसं च कुक्कुरो वक्रवालधिः ॥ १२७८ ॥अस्थिभुग्भषणः सारमेयः कौलेयकः शुनः ।शुनिः श्वानो गृहमृगः कुर्कुरो रात्रिजागरः ॥ १२७९ ॥रसनालिड्रतपराः कीलशायिव्रणान्दुकाः ।शालावृको मृगदंशः श्वालर्कस्तु स रोगितः ॥ १२८० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ग (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शूद्रवर्गः Amarakośa 2.10.36
कौलेयकः सारमेयः कुक्कुरो मृगदंशकः ॥ २१ ॥शुनको भषकः श्वा स्यादलर्कस्तु स रोगितः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.281 · p. 34
कौलेयकः सारमेयो भषणः श्वा च कुर्कुरः ।शुनको मृगदंशश्च बुधैः शालावृको मतः ॥ २८१ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर पञ्चदशोपदेशः Bālaprabodhikā 15.315 · p. 94
महावेगो दधिमुखः शाखामृगवलीमुखौ ।श्वा सारमेयः शुनको भषको मृगदंशकः ॥ ३१५ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 59 · p. 6
कुक्कुरस्तु पुरोगामी रतिकीलितविग्रहः ।कृतज्ञः सरमापुत्रः सारमेय इतीर्यते ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.37 · p. 206
व्याधो मृगवधाजीवो मृगयुर्लुब्धकोऽपि सः ।कौलेयकः सारमेयः शुनको रात्रिजागरः ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.50 · p. 299
कौलेयकः सारमेयो मण्डली रात्रिजागरः ।रथ्यामृगश्च भषको रतशायी रतान्दुकः ॥ ५० ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.99 · p. 20
करभश्च मयस्तूष्ट्रो महाग्रीवस्तु वर्तकः ।भषकः सारमेयः स्याच्छ्वा शुनो मृगदंशकः ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 92 · p. 46
कौलेयकः सारमेयो मण्डलः श्वा पुरोगतिः ।जिह्वापो ग्रामशार्दूलः कुक्कुरो रात्रिजागरः ॥ ९२ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.183 · p. 74
मेषी जालकिनी चैव रुजा च कुररी समा ।कुर्कुरः सारमेयोऽस्थिभुक्कौलेयः पुनः शुनः ? ॥ १८३ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.593 · p. 102
सारमेयः कुर्कुरश्च कौलेयश्च कडङ्गकः ।मृगयाचतुरे विश्वकद्रुर्बम्भण इत्यपि ॥ ५९३ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.163 · p. 18
वराहः शूकरः कोलो गर्दभो रासभः खरः ।कुक्कुरः सारमेयः श्वा भषणः श्वानमण्डलः ॥ १६३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2307 · p. 374
श्वा श्वानः सारमेयश्च स्वजातिद्विट् शुनः शुनिः ।रतशायी रसापायी रसनालिट् रतान्दुकः ॥ २३०७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शूद्रवर्गप्रक्लाशः Śabdaratnāvalī 3.8.32 · p. 155
कुक्कुरः श्वानभषकशुनकामृगदंशकः ।कौलेयको रन्तिदेवः सारमेयो रतव्रणः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.748 · p. 95
शुनकः सारमेयः श्वा कौलेयो रतिकीलकः ।कुक्कुरो मण्डली योगादलर्कः सरमा शुनी ॥ ७४८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.68 · p. 70
करभाः स्युः शृंखलका दारवैः पादबन्धनैः ।श्वा सारमेयः शुनको भषणो मृगदंशकः ॥ ६८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शृं (wrong syllable)
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.659 · p. 83
श्ववृकक्रोष्टुषु ज्ञेयः सारमेयः पुनर्द्वयोः ।शुनके मूषिकायां च समासादीनि पूर्ववत् ॥ ६५९ ॥
अनुष्टुप्

सारमेय as a meaning in nānārtha verses

  • धरणिकोश कौलेयकसोमवल्कः कट्फले च धवले खदिरेऽपि च । कौलेयकः स्यात्कुलजः सारमेयश्च कथ्यते ॥ Dharaṇikośa 1.2.50
  • कोषकल्पतरु जकुटवार्ताकपुष्पे जकुटो यमोत्थे ऽस्त्री सारमेये त्रपुसीसयोस्तु । स्यात्पिच्चटो दृष्टिगदेऽथ वाट्यां क्षेत्रे कपाटे नरि निष्कुटः स्यात् [272a] ॥ २८ ॥ Koṣakalpataru 6.10.28
  • कोषकल्पतरु रुदथस्यात्सारमेये रुदथो बुधे तु योगिन्यपि स्याद्विदथो नृलिङ्गः । स्याल्लोकपाले भरथो धवेऽपि विश्वासहेतौ शपथः शयौ च ॥ ४ ॥ Koṣakalpataru 6.18.4
  • कोषकल्पतरु प्रखरस्यात्सारमेयेऽश्वतरे तुरङ्ग- सेनाहकेऽन्यत्र भृशं खरे च । शैलाग्रकेऽस्त्री शिखरो द्रुमाग्रे स्यात्कोटिकक्ष्यापुलकेषु तद्वत् ॥ ९१ ॥ Koṣakalpataru 6.27.91
  • नानार्थार्णवसंक्षेप दशेरदशेरः सारमेये च सर्पे चाथो नृभूमनि । मरुसंज्ञे जनपदे दशेरा दर्पकस्तु ना ॥ ९१५ ॥ Nānārthārṇavasaṃkṣepa 4.915
  • परमानन्दीयनाममाला कौलेयककरहाटः प्रसूने स्यात्पद्मकन्दे तरावपि । कौलेयकः कुलोत्पन्ने सारमेये तथाम्बुजे ॥ १३६ ॥ Paramānandīyanāmamālā 5.7.136
  • शब्दरत्नावली कौणेयकअदूरप्रेरिताक्षे च दाम्भिके कुटिको भवेत् । कुलीनो सारमेये च पुंसि कौणेयको मतः ॥ Śabdaratnāvalī 7.1.166
  • शब्दरत्नावली कुक्कुरकान्तारी नेक्षुभेदेऽस्त्री बिलदुर्गाधकानने । किशोरोऽश्वशावके स्यात्तरुणावस्थसूर्ययोः ॥ किर्मीरः कर्वुरे नागरङ्गे च कौणपान्तरे । किंशारुः शस्यशूके ना कङ्कपक्षिणि सायके ॥ कुहरः सर्पभेदेनो क्लीबं गह्वररन्ध्रयोः । कुक्कुरं ग्रन्थिपर्णे स्यात्सारमेये भवेत्पुमान् ॥ कर्पूरः कफोणौ पुंसि जानुन्यपि निगद्यते । कुञ्जरो ना कटे नागे धातक्यां पाटले स्त्रियाम् ॥ Śabdaratnāvalī 7.27.63