All kośas › Nāmamālā (Dhanañjaya)
नाममाला Nāmamālā (Dhanañjaya)
203 verses · 1,936 words tagged · 3,187 marked doubtful (dashed)
Part 1 (1/2)
धनञ्जयनाममाला
तन्नमामि परं ज्योतिरवाङ्मनसगोचरम् ।उन्मूलयत्यविद्यां यद् विद्यामुन्मीलयत्यपि ॥ १ ॥
1 · p. 1
अनुष्टुप्
द्वयं द्वितयमुभयं यमलं युगलं युगम् ।युग्मं द्वन्द्वं यमं द्वैतं पादयोः पातु जैनयोः ॥ २ ॥
2 · p. 2
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त (wrong syllable)
ऋषिर्मुनिर्यतिर्भिक्षुस्तापसः संशितो व्रती ।तपस्वी संयमी योगी वर्णी साधुश्च पातु वः ॥ ३ ॥
3 · p. 2
अनुष्टुप्
दीक्षितं मौण्ड्यं शिष्यं तमन्तेवासिनं विदुः ।कृतान्तागमसिद्धान्ताः ग्रन्थः शास्त्रमतः परम् ॥ ४ ॥
4 · p. 3
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 मौ (syllables merged)
भूमिर्भूः पृथिवी पृथ्वी गह्वरी मेदिनी मही ।धरा वसुमती धात्री क्षमा विश्वम्भराऽवनिः ॥ ५ ॥
5 · p. 3
अनुष्टुप्
वसुधा धरणी क्षोणी क्ष्मा धरित्री क्षितिश्च कुः ।कुम्भिनीलोर्वरा चोर्वी जगती गौर्वसुन्धरा ॥ ६ ॥
6 · p. 3
अनुष्टुप्
तत्पर्य्यायधरः शैलस्तत्पर्य्यायपतिर्नृपः ।तत्पर्य्यायरुहो वृक्षः शब्दमन्यं च योजयेत् ॥ ७ ॥
7 · p. 4
अनुष्टुप्
दरीभृदचलः शृङ्गी पर्वतः सानुमान् गिरिः ।नगः शिलोच्चयोऽद्रिश्च शिखरी त्रिककुन्मरुत् ॥ ८ ॥
8 · p. 4
अनुष्टुप्
प्रस्थं पार्श्वं तटं सानुर्मेखलोपत्यका तटी ।नितम्बमन्तो दन्तश्च तद्वानपि गिरिः स्मृतः ॥ ९ ॥
9 · p. 4
अनुष्टुप्
राजाधिपः पतिः स्वामी नाथः परिवृढः प्रभुः ।ईश्वरो विभुरीशानो भर्तेन्द्र इन ईशिता ॥ १० ॥
10 · p. 5
अनुष्टुप्
अनोकहस्तरुः शाखी विटपी फलिनो नगः ।द्रुमोऽङ्घ्रिपः फलेग्राही पादपोऽगो वनस्पतिः ॥ ११ ॥
11 · p. 5
अनुष्टुप्
तत्पर्य्यायचरो ज्ञेयो हरिर्वलिमुखः कपिः ।वानरः प्लवगश्चैव गोलाङ्गूलोऽथ मर्कटः ॥ १२ ॥
12 · p. 6
अनुष्टुप्
विपिनं गहनं कक्षमरण्यं काननं वनम् ।कान्तारमटवी दुर्गम् तच्चरः स्याद्वनेचरः ॥ १३ ॥
13 · p. 6
अनुष्टुप्
पुलिन्दः शवरो दस्युर्निषादो व्याधलुब्धकौ ।धानुष्कोऽथ किरातश्च सोऽरण्यानीचरः स्मृतः ॥ १४ ॥
14 · p. 7
अनुष्टुप्
वार्वारि कं पयोऽम्भोऽम्बु पाथोऽर्णः सलिलं जलम् ।सरं वनं कुशं नीरं तोयं जीवनमब्विषम् ॥ १५ ॥
15 · p. 7
अनुष्टुप्
तत्पर्य्यायचरो मत्स्यस्तत्पर्य्यायप्रदो घनः ।तत्पर्य्यायोद्भवं पद्मं तत्पर्य्यायधिरम्बुधिः ॥ १६ ॥
16 · p. 8
अनुष्टुप्
पृथुरोमा षडक्षीणो यादो वैसारिणो झषः ।विसारी शफरी मीनः पाठीनोऽनिमिषस्तिमिः ॥ १७ ॥
17 · p. 8
अनुष्टुप्
अम्बुदघनाघनो घनो मेघो जीमूतोऽभ्रं बलाहकः ।पर्जन्यो मिहिरो नभ्राट् शम्पा सौदामिनी तडित् ॥ १८ ॥
18 · p. 8
अनुष्टुप्metre not read in every line
आकालिकी क्षणरुचिर्विद्युत् तत्पतिरम्बुदः ।निर्घातमशनिर्वज्रमुल्काशब्दं च योजयेत् ॥ १९ ॥
19 · p. 9
अनुष्टुप्
परिषत्कर्दमः पङ्कः तज्जम् तामरसं विदुः ।कमलं नलिनं पदम् सरोजं सरसीरुहम् ॥ २० ॥
20 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 प (wrong syllable)
खरदण्डं कोकनदं पुण्डरीकं महोत्पलम् ।इन्दीवरं चारविन्दं शतपत्रं च पुष्करम् ॥ २१ ॥
21 · p. 10
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 को (wrong syllable)
स्यादुत्पलं कुवलयम् अथ नीलाम्बुजन्म च ।इन्दीवरं च नीलेऽस्मिन् सिते कुमुदकैरवे ॥ २२ ॥
22 · p. 11
अनुष्टुप्
तद्वती विसिनी ज्ञेया व्रततीर्वल्लरी लता ।वल्लीनामानि योज्यानि वारिधिर्वर्ण्यतेऽधुना ॥ २३ ॥
23 · p. 11
अनुष्टुप्
स्रोतस्विनी धुनी सिन्धुः स्रवन्ती निम्नगाऽपगा ।नदी नदो द्विरेफश्च सरिन्नामा तरङ्गिणी ॥ २४ ॥
24 · p. 12
अनुष्टुप्
तत्पतिश्च भवत्यब्धिः पारावारोऽमृतोद्भवः ।अपारवारकूपारौ रत्नमीनाऽभिधाऽकरः ॥ २५ ॥
25 · p. 12
अनुष्टुप्
समुद्रो वारिराशिश्च सरस्वान् सागरोऽर्णवः ।सीमोपकण्ठं तीरञ्च पारं रोधोऽवधिस्तटम् ॥ २६ ॥
26 · p. 12
अनुष्टुप्
भङ्गस्तरङ्गः कल्लोलो वीचिरुत्कलिकाऽवलिः ।पाली वेला तटोच्छ्वासौ विभ्रमोऽयमुदन्वतः ॥ २७ ॥
27 · p. 13
अनुष्टुप्
मनुष्यो मानुषो मर्त्यो मनुजो मानवो नरः ।ना पुमान् पुरुषो गोधा धवः स्यात्तत्पतिर्नृपः ॥ २८ ॥
28 · p. 13
अनुष्टुप्
भृत्योऽथ भृतकः पत्तिः पदातिः पदगोऽनुगः ।भटोऽनुजीव्यनुचरः शस्त्रजीवी च किङ्करः ॥ २९ ॥
29 · p. 14
अनुष्टुप्
स्त्री नारी वनिता मुग्धा भामिनी भीरुरङ्गना ।ललना कामिनी योषिद् योषा सीमन्तिनीति च ॥ ३० ॥
30 · p. 14
अनुष्टुप्
भार्या जाया जनिः कुल्या कलत्रं गेहिनी गृहम् ।महिला मानिनी पत्नी तथा दाराः पुरन्ध्रयः ॥ ३२ ॥
32 · p. 16
अनुष्टुप्
वल्लभा प्रेयसी प्रेष्ठा रमणी दयिता प्रिया ।इष्टा च प्रमदा कान्ता चण्डी प्रणयिनी तथा ॥ ३३ ॥
33 · p. 16
अनुष्टुप्
सती पतिव्रता साध्वी पतिवत्येकपत्यपि ।मनस्विनी भवत्यार्या विपरीता निरूप्यते ॥ ३४ ॥
34 · p. 17
अनुष्टुप्
बन्धकी कुलटा मुक्ता पुनर्भूः पुंश्चली खला ।स्पर्शाऽभिसारिका दूती स्वैरिणी शम्फली तथा ॥ ३५ ॥
35 · p. 17
अनुष्टुप्
गणिका लञ्जिका वेश्या रूपाजीवा विलासिनी ।पण्यस्त्री दारिका दासी कामुकी सर्ववल्लभा ॥ ३६ ॥
36 · p. 17
अनुष्टुप्
कान्तेष्टौ दयितः प्रीतः प्रियः कामी च कामुकः ।वल्लभोऽसुपतिः प्रेयान् विटश्च रमणो वरः ॥ ३७ ॥
37 · p. 18
अनुष्टुप्
कलेवरं शरीरं च मूर्तिः अस्मिन् भवः सुतः ।पुत्रः सूनुरपत्यं च तुक् तोकं चात्मजः प्रजा ॥ ३९ ॥
39 · p. 19
अनुष्टुप्
उद्वहस्तनयः पोतो दारको नन्दनोऽर्भकः ।स्तनन्धयोत्तानशयौ स्त्री चेद्दुहितरं विदुः ॥ ४० ॥
40 · p. 20
अनुष्टुप्
वयस्याऽली सहचरी सध्रीची सवयाः सखी ।आलीविवर्जितं मित्रं सम्बन्धो मित्रयुक् सुहृत् ॥ ४१ ॥
41 · p. 20
अनुष्टुप्
सहकृत्वा सहकारी सहायः सामवायिकः ।सनाभिः सगोत्रो बन्धुश्च सोदर्यः अवरजोऽनुजः ॥ ४२ ॥
42 · p. 21
metre not recognised
कनीयान् अग्रजो ज्येष्ठः भ्रातृजानी स्वसाऽनुजा ।भर्त्तुः स्वसा ननान्दा स्यात् मातुलानी प्रियाम्बिका ॥ ४३ ॥
43 · p. 21
अनुष्टुप्
वैर्यारातिरमित्रोऽरिर्द्विट् सपत्नो द्विषद्रिपुः ।भ्रातृव्यो दुर्जनः शत्रुर्दुष्टो द्वेषी खलोऽहितः ॥ ४४ ॥
44 · p. 22
अनुष्टुप्
दीधितिर्भानुरुस्रोंऽशुर्गभस्तिः किरणः करः ।पादो रुचिर्मरीचिर्भास्तेजोऽर्चिर्गौर्द्युतिः प्रभा ॥ ४५ ॥
45 · p. 23
अनुष्टुप्
दीप्तिर्ज्योतिर्महो धाम रश्मिरूर्जो विभावसुः ।शीतोष्णप्रायपूर्वाञ्चौ तदन्ताविन्दुभास्करौ ॥ ४६ ॥
46 · p. 23
अनुष्टुप्
शशी विधुः सुधासूतिः कौमुदीकुमुदप्रियः ।कलाभृच्चन्द्रमाश्चन्द्रः कान्तिमानोषधीश्वरः ॥ ४७ ॥
47 · p. 24
अनुष्टुप्
उडूनि भानि तारर्क्षं नक्षत्रम् तत्पतिः निशा ।क्षणदा रजनी नक्तं दोषा श्यामा क्षिपाकरः ॥ ४८ ॥
48 · p. 25
अनुष्टुप्
तरणिस्तपनो भानुर्ब्रध्नः पूषाऽर्यमा रविः ।तिग्मः पतङ्गो द्युमणिर्मार्तण्डोऽर्को ग्रहाधिपः ॥ ४९ ॥
49 · p. 26
अनुष्टुप्
इनः सूर्यस्तमोध्वान्ततिमिरारिर्विरोचनः ।दिनं दिवाऽहर्दिवसो वासरः तत्करश्च सः ॥ ५० ॥
50 · p. 26
अनुष्टुप्
वाहोऽश्वस्तुरगो वाजी हयो धुर्यस्तुरङ्गमःसप्तिरर्वा हरी रथ्यः सप्ताद्यश्वो मयूखवान् ॥ ५२ ॥
52 · p. 27
अनुष्टुप्
खं विहायो वियद्व्योम गगनाकाशमम्बरम् ।द्यौर्नभोऽभ्रोऽन्तरीक्षं च मेघवायुपथोऽप्यथ ॥ ५३ ॥
53 · p. 28
अनुष्टुप्
तच्चरः खेचरः तद्गः पक्षी पत्री पतत्र्यपि ।शकुन्तिः शकुनिर्विश्च पतङ्गो विष्किरोऽन्यथा ॥ ५४ ॥
54 · p. 28
अनुष्टुप्
जाङ्गलं पिशितं मांसं पलं पेशी च तत्प्रियः ।यातुधानस्तथा रक्षो रात्र्यादिचर इष्यते ॥ ५५ ॥
55 · p. 29
अनुष्टुप्
सुतोऽदितेस्तडिद्धन्वा सेन्द्रो देवः सुरोऽमरः ।स्वर्द्यौः स्वर्गोऽथ नाकश्च तद्वासस्त्रिदशो मतः ॥ ५६ ॥
56 · p. 30
अनुष्टुप्
तत्पतिः शक्र इन्द्रश्च शुनासीरः शतक्रतुः ।प्राचीनबर्हिः सुत्रामा वज्री चाखण्डलो हरिः ॥ ५७ ॥
57 · p. 30
अनुष्टुप्
शत्रुर्बलस्य गोत्रस्य पाकस्य नमुचेरपि ।वृत्रहा च सहस्राक्षो गीर्वाणेशः पुरन्दरः ॥ ५८ ॥
58 · p. 30
अनुष्टुप्
विडौजाश्चाप्सरोनाथो वासवो हरिवाहनः ।मरुतश्च मरुत्वाँश्च वृषा चैरावणाधिपः ॥ ५९ ॥
59 · p. 30
अनुष्टुप्
शतमन्युस्तुराषाट् च पुरुहूतश्च कौशिकः ।संक्रन्दनोऽथ मघवान् पुलोमारिर्मरुत्सखः ॥ ६० ॥
60 · p. 30
अनुष्टुप्
काष्ठा ककुब्दिगाशा च दक्षकन्या तथा हरित् ।तत्पर्यायपरं योज्यं प्राज्ञैः पालगजाम्बरम् ॥ ६१ ॥
61 · p. 32
अनुष्टुप्
नभस्वान् मातरिश्वा च चरण्युर्जवनस्तथा ।प्रभञ्जनः अस्य पर्यायपुत्रौ भीमाञ्जनात्मजौ ॥ ६३ ॥
63 · p. 32
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
तत्सखाऽग्निः शिखी वह्निः पावकश्चाशुशुक्षणिः ।हिरण्यरेता सप्तार्चिर्जातवेदास्तनूनपात् ॥ ६४ ॥
64 · p. 33
अनुष्टुप्
स्वाहापतिर्हुताशश्च ज्वलनो दहनोऽनलः ।वैश्वानरः कृशानुश्च रोहिताश्वो विभावसुः ॥ ६५ ॥
65 · p. 33
अनुष्टुप्
वृषाकपिः समीगर्भो हव्यवाहो हुताशनः ।तदादिसूनुः सेनानीः स्कन्दश्च शिखिवाहनः ॥ ६६ ॥
66 · p. 33
अनुष्टुप्
कार्तिकेयो विशाखश्च कुमारः षण्मुखो गुहः ।शक्तिमान् क्रौञ्चभेदी च स्वामी शरवणोद्भवः ॥ ६७ ॥
67 · p. 34
अनुष्टुप्
तत्पिता शङ्करः शम्भुः शिवः स्थाणुर्महेश्वरः ।त्र्यम्बको धूर्जटिः शर्वः पिनाकी प्रमथाधिपः ॥ ६८ ॥
68 · p. 35
अनुष्टुप्
त्रिपुरारिर्विशालाक्षो गिरिशो नीललोहितः ।रुद्रेन्दुमौलिर्यज्ञारिस्त्रिनेत्रो वृषभध्वजः ॥ ६९ ॥
69 · p. 35
अनुष्टुप्
उग्रः शूली कपाली च शिपिविष्टो भवो हरः ।उमापतिर्विरूपाक्षो विश्वरूपः कपर्द्यपि ॥ ७० ॥
70 · p. 35
अनुष्टुप्
भागीरथी त्रिपथगा जाह्नवी हिमवत्सुता ।मन्दाकिनी द्युपर्यायधुनी गङ्गानदीश्वरः ॥ ७१ ॥
71 · p. 36
अनुष्टुप्
विधिर्वेधा विधाता च द्रुहिणोऽजश्चतुर्मुखः ।पद्मपर्य्याययोनिश्च पितामहविरञ्चिनौ ॥ ७२ ॥
72 · p. 36
अनुष्टुप्
हिरण्यगर्भः स्रष्टा च प्रजापतिः सहस्रपात् ।ब्रह्मात्मभूरनन्तात्मा कः तत्पुत्रोऽथ नारदः ॥ ७३ ॥
73 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
कृष्णो दामोदरो विष्णुरुपेन्द्रः पुरुषोत्तमः ।केशवश्च हषीकेशः शार्ङ्गी नारायणो हरिः ॥ ७४ ॥
74 · p. 37
अनुष्टुप्
केशी मधुर्बलिर्बाणो हिरण्यकशिपुर्मुरः ।तदादिसूदनः शौरिः पद्मनाभोऽप्यधोक्षजः ॥ ७५ ॥
75 · p. 37
अनुष्टुप्
गोविन्दो वासुदेवश्च लक्ष्मीः श्रीर्गोमिनीन्दिरा ।तत्पतिः शैलभूम्यादिधरश्चक्रधरस्तथा ॥ ७६ ॥
76 · p. 37
अनुष्टुप्
तत्पुत्रो मन्मथः कामः सूर्पकारातिरनन्यजः ।कायपर्यायरहितो मदनो मकरध्वजः ॥ ७७ ॥
77 · p. 39
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शिलीमुखः शरो बाणो मार्गणो रोपणः कणः ।इषुः काण्डं क्षुरप्रं च नाराचं तोमरं खगः ॥ ७८ ॥
78 · p. 39
अनुष्टुप्
कार्मुकं धन्व चापं च धर्म कोदण्डकं धनुः ।शिलीमुखादेरसनं तत्कोटिमटनीं विदुः ॥ ७९ ॥
79 · p. 40
अनुष्टुप्
पुष्पं सुमनसः फुल्लं लतान्तं प्रसवोद्गमौ ।प्रसूनं कुसुमं ज्ञेयम् तदाद्यस्त्रशरः स्मरः ॥ ८० ॥
80 · p. 40
अनुष्टुप्
स्वान्तमास्वनितं चित्तं चेतोऽन्तःकरणं मनः ।हृदयं विशिखाऽकूतं मारस्तत्रोद्भवो मतः ॥ ८१ ॥
81 · p. 41
अनुष्टुप्
मौर्वी जीवा गुणो गव्या ज्याऽलिर्भृङ्गः शिलीमुखः ।भ्रमरः षट्पदो ज्ञेयो द्विरेफश्च मधुव्रतः ॥ ८२ ॥
82 · p. 41
अनुष्टुप्
मौर्व्यादिप्रान्तमल्यादिकन्दर्पस्यैक्षवं धनुः ।हेतिरस्त्राऽयुधं शस्त्रं पुष्पाद्यस्त्रः स्मरो मतः ॥ ८३ ॥
83 · p. 42
अनुष्टुप्
ध्वजं पताका केतुश्च चिह्नं तद्वैजयन्त्यपि ।तत्तदन्तो झषाद्यादिः शम्भोर्विघ्नकरः स्मरः ॥ ८४ ॥
84 · p. 43
अनुष्टुप्
कौक्षेयकासिनिस्त्रिंशकृपाणाः करवालकः ।तरवारिर्मण्डलाग्रं खड्गनामावलिं विदुः ॥ ८५ ॥
85 · p. 43
अनुष्टुप्
अक्षौहिणी बलानीकं वाहिनी साधनं चमूः ।ध्वजिनी पृतना सेना सैन्यं दण्डो वरूथिनी ॥ ८६ ॥
86 · p. 43
अनुष्टुप्
गजो मतङ्गजो हस्ती वारणोऽनेकपः करी ।दन्ती स्तम्बेरमः कुम्भी द्विरदेभमितङ्गमाः ॥ ८८ ॥
88 · p. 45
अनुष्टुप्
शुण्डालः सामजो नागो मातङ्गः पुष्करी द्विपः ।करेणुः सिन्धुरः तेषु यन्ता याता निषाद्यपि ॥ ८९ ॥
89 · p. 45
अनुष्टुप्
नागाद्यरिः कण्ठी(ण्ठि)रवो मृगेन्द्रः केसरी हरिः ।व्याघ्रश्चमूरः शार्दूलः शरभोऽष्टापदोऽष्टपात् ॥ ९० ॥
90 · p. 45
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ण्ठी (wrong syllable)
क्रोडो वराहो दंष्ट्री च घृष्टिः पोत्री च शूकरः ।उष्ट्रो मयः शृंखलिकः कलभः शीघ्रगामुकः ॥ ९१ ॥
91 · p. 46
अनुष्टुप्
कौलेयकः सारमेयो मण्डलः श्वा पुरोगतिः ।जिह्वापो ग्रामशार्दूलः कुक्कुरो रात्रिजागरः ॥ ९२ ॥
92 · p. 46
अनुष्टुप्
हेम चाष्टापदं स्वर्णं कनकार्जुनकाञ्चनम् ।सुवर्णं हिरण्यं भर्मं जातरूपं च हाटकम् ॥ ९३ ॥
93 · p. 47
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
तपनीयं कलाधौतं कार्तस्वरशिलोद्भवम् ।रूप्यं रजतं गुलिका शुक्तिजं मौक्तिकं तथा ॥ ९४ ॥
94 · p. 47
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ज (wrong syllable)
वित्तं वस्तु वसु द्रव्यं स्वार्थं रा द्रविणं धनम् ।कस्वरं तत्पतिं प्राहुः कुवेरं चैकपिङ्गलम् ॥ ९५ ॥
95 · p. 47
अनुष्टुप्
वैश्रवणं राजराजमुत्तराशापतिं तथा ।अलकानिलयं श्रीदं धनपर्यायदायकम् ॥ ९६ ॥
96 · p. 48
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
राष्ट्रं जनपदो निर्गो जनान्तो विषयः स्मृतः ।पूः पुरी नगरं चैव पट्टनं पुटभेदनम् ॥ ९७ ॥
97 · p. 48
अनुष्टुप्
वक्त्रं लपनमास्यं च वदनं मुखमाननम् ।श्रवणं श्रोत्रं श्रवश्चापि कर्णं चैव श्रुतिं विदुः ॥ ९८ ॥
98 · p. 49
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
दृगक्षि चक्षुर्नयनं दृष्टिर्नेत्रं विलोचनम् ।कटाक्षं केकरापाङ्गं विभ्रमस्तस्य वैकृतम् ॥ ९९ ॥
99 · p. 49
अनुष्टुप्
दन्तवासोऽधरोऽप्योष्ठे वर्णितो दशनच्छदः ।शिरोधरो गलो ग्रीवा कण्ठश्च धमनी धमः ॥ १०० ॥
100 · p. 50
अनुष्टुप्
दोर्दोषा च भुजो बाहुः पाणिर्हस्तः करस्तथा ।प्राहुर्बाहुशिरोऽंसश्च हस्तशाखा कराङ्गुलिः ॥ १०१ ॥
101 · p. 50
अनुष्टुप्
नासा घ्राणम् उरो वक्षः कुक्षिः स्याज्जठरोदरम् ।स्तनः पयोधरकुचौ वक्षोज इति वर्णितः ॥ १०२ ॥
102 · p. 50
अनुष्टुप्
कटिर्नितम्बं श्रोणी च जघनं जानु जह्नु च ।चलनं चरणं पादं क्रमोऽंह्रिश्च पदं विदुः ॥ १०३ ॥
103 · p. 51
अनुष्टुप्
शिरो मूर्धोत्तमाङ्गं कम्प्रारभ्यं प्रेरितेरितम् ।वाग्वचो वचनं वाणी भारती गीः सरस्वती ॥ १०४ ॥
104 · p. 52
अनुष्टुप्
सिंहद्विपघने गर्जः हेषाऽश्वे बृंहितं गजे ।स्फीत्कृतं धेनुकलभे स्तनितं जलदे तथा ॥ १०५ ॥
105 · p. 52
अनुष्टुप्
स्यन्दने चीत्कृतं मन्त्रे भटे च हुङ्कृतं तथा ।सीत्कृतं मणितं कामे खन्कृतं शृङ्खलायुधे ॥ १०६ ॥
106 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
मञ्जीरकं तुलाकोटिर्नूपुरं तत्र संसृतम् ।झाङ्कृतं चाथ मरुति क्रेङ्कृतं क्रौञ्चहंसयोः ॥ १०७ ॥
107 · p. 53
अनुष्टुप्
प्रतीतं संस्तुतं लब्धं दृष्टं परिचितं स्मृतम् ।संस्थितं दशमीस्थं च परासुं च मृतं विदुः ॥ १०८ ॥
108 · p. 54
अनुष्टुप्
खेदो द्वेषोऽप्यमर्षश्च रुट्कोपक्रोधमन्यवः ।हर्षः प्रमोदः प्रमदो मुत्तोषानन्दमुत्सवः ॥ १०९ ॥
109 · p. 54
अनुष्टुप्
कृपाऽनुकम्पानुक्रोशोऽहन्तोक्तिः करुणा दया ।शेमुषी धिषणा प्रज्ञा मनीषा धीस्तथाऽशयः ॥ ११० ॥
110 · p. 54
अनुष्टुप्
प्राज्ञमेधाविनौ विद्वानभिरूपो विचक्षणः ।पण्डितः सूरिराचार्यो वाग्मी नैयायिकः स्मृतः ॥ १११ ॥
111 · p. 55
अनुष्टुप्
पारिषद्यो बुधः सभ्यः सदः संसत्सभोचितः ।परिषत्सभाऽस्थानपती राजसूयो नृपक्रतुः ॥ ११२ ॥
112 · p. 56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
विष्टरं मल्लिकापीठमासन्दीमासनं विदुः ।विष्टपं भुवनं लोको जगत् तस्य पतिर्जिनः ॥ ११३ ॥
113 · p. 56
अनुष्टुप्
वर्षीयान् वृषभो ज्यायान् पुरुराद्यः प्रजापतिः ।ऐक्ष्वाकुः(कः) काश्यपो ब्रह्मा गौतमो नाभिजोऽग्रजः ॥ ११४ ॥
114 · p. 57
अनुष्टुप्
सन्मतिर्महतिर्वीरो महावीरोऽन्त्यकाश्यपः ।नाथान्वयो वर्धमानो यत्तीर्थमिह साम्प्रतम् ॥ ११५ ॥
115 · p. 58
अनुष्टुप्
सर्वज्ञो वीतरागोऽर्हन् केवली धर्मचक्रभृत् ।तीर्थङ्करस्तीर्थकरस्तीर्थकृद्दिव्यवाक्पतिः ॥ ११६ ॥
116 · p. 58
अनुष्टुप्
चेलं निवसनं वासक्षीरमम्बरमंशुकम् ।वस्त्राद्यन्तः दिगाद्यादिसंज्ञितो वृषभेश्वरः ।कुङ्कुमं रुधिरं रक्तं कस्तूरी मृगनाभिजम् ॥ ११७ ॥
117 · p. 59
अनुष्टुप्
कर्पूरं घनसारं च हिमं सेवेत पुण्यवान् ।समालम्भोऽङ्गरागश्च प्रसाधनविलेपनम् ॥ ११८ ॥
118 · p. 59
अनुष्टुप्
भूषणाभरणं रुच्यं माल्यं मालागुणस्रजः ।मेखला रसना काञ्ची हेमपर्यायसूत्रकम् ॥ ११९ ॥
119 · p. 60
अनुष्टुप्
श्रोणीबिम्बं कटीसूत्रं मानसूत्रमिवाहितम् ।मदिरां मद्यमैरेयं शीधु कादम्बरीमिराम् ॥ १२० ॥
120 · p. 60
अनुष्टुप्