All kośas › Trikāṇḍaśeṣa
त्रिकाण्डशेष Trikāṇḍaśeṣa
1,058 verses · 9,515 words tagged · 1,059 marked doubtful (dashed)
तृतीयः काण्डः · नानार्थवर्गः (3/5)
स्यात्कात्यायन्यर्धवृद्धा गौर्योर्वररुचौ नरि ।शिरीषाम्रातकाश्वत्थगर्दभाण्डे कपीतनः ॥ २३२ ॥
3.3.232 · p. 171
अनुष्टुप्
चीरेऽपि कौपीनमश्वे पुन्नागेऽपि च केशरी ।कुलीनत्वे च गुह्ये च कौलीनमथ कञ्चुकी ॥ २३३ ॥
3.3.233 · p. 171
अनुष्टुप्
स्थापत्ये वर्मिते सर्पे क्लृप्तौ छेदे च कल्पनम् ।कामिनौ स्त्रैणचक्रौ च कृतिनौ थोग्यपण्डितौ ॥ २३४ ॥
3.3.234 · p. 172
अनुष्टुप्
काञ्चनं तु हेम्नि नागकेशरे काञ्चनी निशा ।धातुवादरते कांस्यकारे कारन्धमी नरि ॥ २३५ ॥
3.3.235 · p. 172
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
चर्चिकाचिल्लदयिते खकामिन्यौ प्रकीर्त्यते ।विषदिग्धपशोर्मांसे गृञ्जनं ना रसोनके ॥ २३६ ॥
3.3.236 · p. 172
अनुष्टुप्
गहनं गह्वरे दुःखे वनेऽथाम्बुदमुस्तयोः ।घनः युवा घनं वाद्यं चर्म स्यात्फलकत्वचोः ॥ २३७ ॥
3.3.237 · p. 173
अनुष्टुप्
चीनौ वस्त्रत्रीहिभेदौ चिह्नं लक्ष्मपताकयोः ।चक्रिणौ विष्णु भुजगकुलालग्रामजालिनः ॥ २३८ ॥
3.3.238 · p. 173
अनुष्टुप्
कम्प्रे ना चलनं कम्पे चलनी वस्त्रघर्घरी ।भूर्जे फलकपाणौ च चर्म्यऽथालम्बुषे पुमान् ॥ २३९ ॥
3.3.239 · p. 173
अनुष्टुप्
निम्बेऽपि छर्दनं वान्तौ जवनो देशवेगिनोः ।बुद्धे जिनो जित्वरे च जीवनं वर्तनाम्भसोः ॥ २४० ॥
3.3.240 · p. 174
अनुष्टुप्
शूरे दातरि च त्यागी व्रतिशोच्यौ तपस्विनौ ।तपनो नरके भानौ विरलेऽल्पे कृशे तनुः ॥ २४१ ॥
3.3.241 · p. 174
अनुष्टुप्
क्रीडादौ देवनं नाक्षे द्विजन्मा दन्तविप्रयोः ।दानं गजमदे त्यागे खण्डने रक्षणेऽपि च ॥ २४२ ॥
3.3.242 · p. 175
अनुष्टुप्
दर्शनं वर्णमुकुरचक्षुःशास्त्रोपलब्धिषु ।स्त्री दीर्घकोष्यां दुर्नामाऽर्शसि द्युम्नं बले धने ॥ २४३ ॥
3.3.243 · p. 175
अनुष्टुप्
धन्वा मरौ धन्वचापे धावनं गतिशौचयोः ।निर्भर्त्सनं खलीकारालक्तयोरथ नन्दनम् ॥ २४४ ॥
3.3.244 · p. 175
अनुष्टुप्
देवोद्याने सुते पुंसि नग्नौ क्षपणवन्दिनौ ।श्रुतौ दृष्ट्यां निशमनं खगङ्गाऽपि नलिन्यथ ॥ २४५ ॥
3.3.245 · p. 175
अनुष्टुप्
ग्रन्थिप्रस्तावयोः पर्व विषुवत्प्रभृष्वपि ।प्रतिमानं प्रतिच्छाया गजदन्तान्तरालयोः ॥ २४६ ॥
3.3.246 · p. 176
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पाकस्थाने कुलालस्य वाते च पवनः पुमान् ।हरीतकी राक्षसी च पूतनाऽथ वदालके ॥ २४७ ॥
3.3.247 · p. 176
अनुष्टुप्
पाठीनो गुग्गुलुद्रौ च रक्षोवृक्षौ पलाशिनौ ।फाल्गुनो मासि पार्थे च स्त्री विदग्धा च वाणिनी ॥ २४८ ॥
3.3.248 · p. 176
अनुष्टुप्
वर्धमानः प्रश्नभेदशरावैरण्डविष्णुषु ।सेना नदी च वाहिन्यौ छेदे वृद्धौ च वर्धनम् ॥ २४९ ॥
3.3.249 · p. 177
अनुष्टुप्
भुवनं विष्टपे तोये भिन्नं दीर्णे विशेषिते ।जन्माश्रयश्च भवनं भाजनं पात्रयोग्ययोः ॥ २५० ॥
3.3.250 · p. 177
अनुष्टुप्
भृतिकाञ्चनयोर्मर्म मलिनं दूषितेऽसिते ।मानं प्रमाणे तौल्ये च मीनो राश्यन्तरे झषे ॥ २५१ ॥
3.3.251 · p. 177
अनुष्टुप्
मदनाः सिक्थधुस्तूरतरुभेदमनोभवाः ।मुनिर्वाचंयमे बुद्धे छन्दश्चम्पा च मालिनी ॥ २५२ ॥
3.3.252 · p. 178
अनुष्टुप्
मातुलानी तु भङ्गायां मातृभ्रातृस्त्रियामपि ।राशौ युग्मे च मिथुनं विष्ण्वली मधुसूदनौ ॥ २५३ ॥
3.3.253 · p. 178
अनुष्टुप्
यापनं स्यान्निरसने कालक्षेपे च वर्तने ।चतुःक्रोश्यां च योगे च योजनं स्यात्तु वाहने ॥ २५४ ॥
3.3.254 · p. 178
अनुष्टुप्
गतौ च यानं योनिस्तूत्पत्तिस्थाने भगेऽपि च ।रसनन्तु ध्वनौ स्वादे रसज्ञारास्नयोः स्त्रियाम् ॥ २५५ ॥
3.3.255 · p. 179
अनुष्टुप्
यक्षे चन्द्रे च राजा स्यात् रक्तः कामी च रागिणौ ।गोपित्ते रोचना कूटशाल्मलौ रोचनः पुमान् ॥ २५६ ॥
3.3.256 · p. 179
अनुष्टुप्
निशा हरिद्रा रजनी छदे भूर्जे च लेखनम् ।राशीनामुदयो लग्नं सक्तलज्जियोस्त्रिषु ॥ २५७ ॥
3.3.257 · p. 179
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
योषिज्जिह्वा च ललना लाञ्छनं नामचिह्नयोः ।रक्ते वितानमुल्लोचे विलग्नं मध्यलग्नयोः ॥ २५८ ॥
3.3.258 · p. 180
अनुष्टुप्
दैवानिष्टफले सक्तौ व्यसनं निष्फलोद्यमे ।स्वतन्त्रता च व्युत्थानं वामनौ विष्णुदिग्गजौ ॥ २५९ ॥
3.3.259 · p. 180
अनुष्टुप्
खर्व्वश्चाऽथ फले शुष्के वानं स्यूते कटे गतौ ।वृषपर्वा शिवे दैत्यै वेष्टनं मुकुटे वृतौ ॥ २६० ॥
3.3.260 · p. 181
अनुष्टुप्
वर्ष्माकारेऽपि विषयी कामिनि क्लीबमिन्द्रिये ।वृक्षादनी स्थाद्वन्दायां स्त्रियां कुठारके पुमान् ॥ २६१ ॥
3.3.261 · p. 181
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 कु (wrong syllable)
समालब्धे विभक्ते च विच्छिन्नं वाच्यलिङ्गकम् ।लब्धे ज्ञाते स्थिते विन्नं वेदना ज्ञानपीडयोः ॥ २६२ ॥
3.3.262 · p. 181
अनुष्टुप्
वर्तनी तर्कुपीठेऽपि स्त्रियां वर्त्तनवर्त्मनोः ।वनश्वा जम्बुके व्याघ्रे विपन्नोऽहौ विपद्गते ॥ २६३ ॥
3.3.263 · p. 182
अनुष्टुप्
देवशंसिनिमित्ते च शकुनं पुंसि पक्षिणि ।चुडावान् कुक्कुटश्चापि शिखी शृङ्गारिणौ त्विमौ ॥ २६४ ॥
3.3.264 · p. 182
अनुष्टुप्
क्रमुकश्च सुवेशश्च पार्थेन्द्वोः श्वेतवाहनः ।मयूरे भीष्मशत्रौ च शिखण्ड्यथ विहेठनम् ॥ २६५ ॥
3.3.265 · p. 182
अनुष्टुप्
विहिंसायां विडम्बे च यमे ना शमनं बंधे ।श्येनः शुक्ले पक्षिभेदे शकुनिः सौबले खगे ॥ २६६ ॥
3.3.266 · p. 183
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 7 बं (wrong syllable)
धान्यभेदे पुमान् षष्टिहायनः कुञ्जरेऽपि च ।ना साधौ सज्जनं क्लृप्तौ साधनं सिद्धमेढ्रयोः ॥ २६७ ॥
3.3.267 · p. 183
अनुष्टुप्
समानो देहवायौ च संस्थानं मृत्युरूपयोः ।सन्तानः सन्ततौ देववृक्षे चाऽपत्यगोत्रयोः ॥ २६८ ॥
3.3.268 · p. 183
अनुष्टुप्
ऋतौ स्नाने च सवनं मारणेऽपि समापनम् ।स्यन्दनं स्रवणे ना तु रथे तिनिशपादपे ॥ २६९ ॥
3.3.269 · p. 184
अनुष्टुप्
सुप्तज्ञाने च शयने स्वप्नोऽथ स्पर्शदानयोः ।स्पर्शनं स्पर्शनो वाते सूनं पुष्पे वधालये ॥ २७० ॥
3.3.270 · p. 184
अनुष्टुप्
सेवनं सीवनोपास्त्योः शाश्वताजौ सनातनौ ।पुत्रे रवौ च सूनुः स्याद्भ्रातर्यपि कनीयसी ॥ २७१ ॥
3.3.271 · p. 184
अनुष्टुप्
सीमाऽधाटे स्थितौ क्षेत्रे स्वामी भर्तरि षण्मुखे ।धूमवंशशरामर्त्याः सुपर्वाणः प्रकीर्तिताः ॥ २७२ ॥
3.3.272 · p. 185
अनुष्टुप्
इति नान्ताः ।
आक्षेपो भर्त्सनाकृष्ट्योराकल्पौ वेशकल्पने ।तृणभिद्गुल्मिन्युपलश्चन्द्रे ना स्त्र्युडुपः प्लवे ॥ २७४ ॥
3.3.274 · p. 185
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ल्मि (wrong syllable)
कल्पः शास्त्रे विधौ न्याये संवर्ते ब्रह्मणो दिने ।धान्ये कुशेऽष्टमांशेऽह्नः कुतपश्छागकम्बले ॥ २७५ ॥
3.3.275 · p. 186
अनुष्टुप्
गुणवृक्षेऽपि कूपो विट्सार्य्यां स्त्री कुणपः शवे ।जिह्वापः शुनि मार्ज्जारे त्रपुसीसकरङ्गयोः ॥ २७६ ॥
3.3.276 · p. 186
अनुष्टुप्
पादुकायां स्त्रियां वृक्षे पादपीठे च पादपः ।पिण्डपुष्पौ जवाशोकौ पुष्यं कुसुम आर्त्तवे ॥ २७७ ॥
3.3.277 · p. 186
अनुष्टुप्
ग्रन्थावृत्तौ पशौ शब्दे स्वभावे नाटकादिषु ।रूपमाकारसौन्दर्यनामकेष्वपि दृश्यते ॥ २७८ ॥
3.3.278 · p. 187
अनुष्टुप्
शररोपणयो रोपो लेपो लेपनभोजने ।विटपः पल्लवे स्तम्बे षिड्गे मेदोबिले वा ॥ २७९ ॥
3.3.279 · p. 187
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
इति पान्ताः ।
स्यात्कुत्सिते रेफो रवर्णे तु पुमानऽयम् ॥ २८० ॥
3.3.280 · p. 188
अनुष्टुप्metre not read in every line
इति फान्ताः ।
गजे ग्रीवालके कम्बुः कलम्बः शरनालयोः ।वृन्दे कदम्बं नीपे ना कादम्बौ शरपक्षिणौ ॥ २८१ ॥
3.3.281 · p. 188
अनुष्टुप्
प्लीहविप्लवयोर्डिम्बः प्रलम्बो दैत्यशाखयोः ।बिम्बं बिम्बीफले रूपे शम्बस्तु मुशलानने ॥ २८२ ॥
3.3.282 · p. 188
अनुष्टुप्
इति बान्ताः ।
आरम्भे उद्यमे दर्पे कामे ब्रह्मणि चाऽत्मभूः ।ऋषभौ श्रेष्ठवृषभौ करभोऽधःकरोष्ट्रयोः ॥ २८४ ॥
3.3.284 · p. 189
अनुष्टुप्
कुम्भो वारस्त्रियाः कान्ते रक्षोराशिप्रभेदयोः ।वीणा प्रसेवे ककुभो रागभेदेऽर्ज्जुनद्रुमे ॥ २८५ ॥
3.3.285 · p. 189
अनुष्टुप्
गर्दभं शुक्लकुमुदे खरे पुंस्यऽथ दानवे ।जम्बीरे व्यवहारे च जम्भो दन्तेऽपि चेष्यते ॥ २८६ ॥
3.3.286 · p. 190
अनुष्टुप्
दुन्दुभिर्दैत्यभेदेऽपि दम्भः कैतवकल्कयोः ।दुर्लभः कर्चुरेऽकाम्ये सदृशव्याजयोर्निभः ॥ २८७ ॥
3.3.287 · p. 190
अनुष्टुप्
मुख्यराट्क्षत्रयोः पुंसि नाभिः प्राण्यङ्गके द्वयोः ।चक्रमध्ये प्रधाने च स्त्रियां कस्तूरिकामदे ॥ २८८ ॥
3.3.288 · p. 190
अनुष्टुप्
भूर्भूमौ स्थानमात्रे च भमृक्षे भृगुजे पुमान् ।रम्भा कदल्यप्सरसोर्विभुः स्यात्स्वामिनित्ययोः ॥ २८९ ॥
3.3.289 · p. 191
अनुष्टुप्
पुनर्नवायां वर्षाभूः स्त्री ना किञ्चुलुके प्लवे ।विश्रम्भः केलिकलहे विश्वासे प्रणयेऽपि च ॥ २९० ॥
3.3.290 · p. 191
अनुष्टुप्
इति भान्ताः ।
मठादौ ब्रह्मचर्यादिचतुष्के चाऽश्रमोऽस्त्रियाम् ।अङ्गीकृतावुपगमः समीपगमनेऽपि च ॥ २९२ ॥
3.3.292 · p. 192
अनुष्टुप्
उमा दुर्गाऽतसी चाऽथ पीडायां वीचिवेगयोः ।वस्त्रसूक्ष्मे च रेखायां चोर्म्मः स्त्रीपुंसयोर्मतः ॥ २९३ ॥
3.3.293 · p. 192
अनुष्टुप्
कुसुमं स्त्रीरजः पुष्पं क्षेमं कल्याणरक्षयोः ।क्षेमा चण्डाऽथ कलमा लेखनीचौरशालयः ॥ २९४ ॥
3.3.294 · p. 193
अनुष्टुप्
रेतोनिकामकाम्येषु कामं पुंसि स्मरेच्छयोः ।क्षौममट्टे दुकूले च ग्रामः संवसथे स्वरे ॥ २९५ ॥
3.3.295 · p. 193
अनुष्टुप्
गुल्मः स्तम्बे घट्टभेदे घर्मः स्वेदातपोष्मसु ।जिह्मः स्थात्कुटिले मन्दे तलिमं तल्पकुट्टिमें ॥ २९६ ॥
3.3.296 · p. 193
अनुष्टुप्
तोक्मं कर्णमले पुंसि हरिते च हरिद्यये ।द्रुमो यक्षेश्वरे वृक्षे दमो दमथुदण्डयोः ॥ २९७ ॥
3.3.297 · p. 194
अनुष्टुप्
धर्मोऽहिंसोपमायागोपनिषत्सु धनुष्यपि ।कटे पुर्य्याञ्च निगमो नियमो निश्चये वृते ॥ २९८ ॥
3.3.298 · p. 194
अनुष्टुप्
यन्त्रणाबन्धयोश्चाऽथ पञ्चमः स्वरसङ्ख्ययोः ।पद्मोऽस्त्री बिन्दुजालेऽब्जे व्यूहे सङ्ख्यान्तरे निधौ ॥ २९९ ॥
3.3.299 · p. 195
अनुष्टुप्
गजानां दन्तबन्धेऽपि प्रतिमाऽनुकृतावपि ।भूमिः स्थानेऽपि कुन्दाम्बुनिर्गमभ्रान्तिषु भ्रमः ॥ ३०० ॥
3.3.300 · p. 195
अनुष्टुप्
गाङ्गेयभीषणौ भीष्मौ भीमः शम्भौ च पाण्डवे ।नरके मङ्गले भौमः स्वरे मध्ये च मध्यमः ॥ ३०१ ॥
3.3.301 · p. 195
अनुष्टुप्
यमः संयमकीनाशयुग्मजेष्वथ राघवे ।रामः पशौ भार्गवे च रूक्मं लोहसुवर्णयोः ॥ ३०२ ॥
3.3.302 · p. 196
अनुष्टुप्
सम्पत्कमलयोर्लक्ष्मीर्विभ्रमो भ्रमहावयोः ।श्यामा गुन्द्रा कोकिला च श्रामो मण्डपकालयोः ॥ ३०३ ॥
3.3.303 · p. 196
अनुष्टुप्
सार्वभौमो गजे राज्ञि सम्भ्रमौ साध्वसादरौ ।कण्टकेऽल्पे च सूक्ष्मं स्यात्साधौ तुल्येऽखिले समः ॥ ३०४ ॥
3.3.304 · p. 197
अनुष्टुप्
इति मान्ताः ।
आत्रेयी पुष्पवत्यां स्यान्नदीभेदे च ना मुनौ ।आशयश्छन्द आधार आदित्यो भास्करे सुरे ॥ ३०६ ॥
3.3.306 · p. 198
अनुष्टुप्
वेदोपदेशावाम्नायौ हृषीके चेतसीन्द्रियम् ।इज्या स्यात्सङ्गमे दाने यागेऽर्चायां गुरौ पुमान् ॥ ३०७ ॥
3.3.307 · p. 198
अनुष्टुप्
उदयोऽद्रावुन्नतौ च कषायः सुरभौ रसे ।कायः स्वभावे लक्ष्ये च सङ्घे मूर्त्तौ कदैवते ॥ ३०८ ॥
3.3.308 · p. 198
अनुष्टुप्
कौकृत्यमनुतापे स्यादयुक्तकरणेऽपि च ।कश्यं कशार्हे मद्ये च काद्रवेयोऽहिरङ्गयोः ॥ ३०९ ॥
3.3.309 · p. 199
अनुष्टुप्
काव्यं प्रबन्धे शुक्रे ना कुलायः स्थाननीडयोः ।गव्यं गोहितदुग्धादौ ज्यायां गव्या तु गोकुले ॥ ३१० ॥
3.3.310 · p. 199
अनुष्टुप्
भीष्मे ना हेम्नि गाङ्गेयं गोप्यौ गोप्तव्यचेटकौ ।गातव्यगायनौ गेयौ गृह्यमस्वैरिपक्षयोः ॥ ३११ ॥
3.3.311 · p. 199
अनुष्टुप्
चैत्यमायतने बुद्धबिम्बोद्देशकवृक्षयोः ।चक्षुष्यं सुभगे चक्षुर्हिते स्त्रीकेतकेऽपि च ॥ ३१२ ॥
3.3.312 · p. 200
अनुष्टुप्
युद्धे हुट्टे च जन्यं स्याज्ज्या स्यान्मौर्व्यां क्षितावपि ।जटायुर्गुग्गुलुद्रौ च त्रिबेद्यां त्रितये त्रयी ॥ ३१३ ॥
3.3.313 · p. 200
अनुष्टुप्
निन्द्ये वस्त्रगृहे दूष्यं दस्युस्तस्करवैरिणौ ।भेषजे द्रुविकारे च द्रव्यं भव्ये च पित्तले ॥ ३१४ ॥
3.3.314 · p. 201
अनुष्टुप्
द्वितीया तिथिभित्पत्न्योः पार्थेऽग्नौ च धनञ्जयः ।निकायौ सङ्घनिलयौ नित्ये सततशाश्वते ॥ ३१५ ॥
3.3.315 · p. 201
अनुष्टुप्
पर्य्यायः स्यात्प्रकारेऽपि प्रायो ना भूयतुल्ययोः ।पथ्यं हितेऽभया पथ्या पानीयं पेयनीरयोः ॥ ३१६ ॥
3.3.316 · p. 201
अनुष्टुप्
पौलस्त्यौ रावणश्रीदौ स्वर्गलाभौ फलोदयौ ।ब्राह्मण्यं ब्रह्मसङ्घेऽपि बालेयौ मृदुगर्द्दभो ॥ ३१७ ॥
3.3.317 · p. 202
अनुष्टुप्
वीर्य्यं प्रधानधातौ च भयं भीकुब्जपुष्पयोः ।अनधीनेऽसहाये च भुजिष्यो हस्तसूत्रके ॥ ३१८ ॥
3.3.318 · p. 202
अनुष्टुप्
स्यान्माया शाम्बरीबुद्ध्योर्दैत्यशिल्प्युष्ट्रयोर्मयः ।ययुरश्वे क्रतुहये रूप्यं त्रिषु सुरूपके ॥ ३१९ ॥
3.3.319 · p. 203
अनुष्टुप्
आहतस्वर्णरजते रजते च नपुंसकम् ।वत्से बले बुधे रौहिणेयोऽथ श्लेषवाद्ययोः ॥ ३२० ॥
3.3.320 · p. 203
अनुष्टुप्
लयो युक्ते च लभ्यं स्याद्विषयौ देशगोचरौ ।वर्गप्रस्थानयोर्व्रज्या वदान्यस्त्यागवान् सुवाक् ॥ ३२१ ॥
3.3.321 · p. 203
अनुष्टुप्
स्त्री मल्यां निर्जने शून्यं शौर्यं चारभदी बलम् ।शाण्डिल्यो मुनिमालूरौ सौरभ्यं चारुताऽपि च ॥ ३२२ ॥
3.3.322 · p. 204
अनुष्टुप्
सौम्यो बुधग्रहे पुंसि वाच्यवन्नीचबोधने ।साध्या देवाः फलं साध्यं स्थेयौ नेतृपुरोहितौ ॥ ३२३ ॥
3.3.323 · p. 204
अनुष्टुप्
ना शैले सह्यमारोग्ये सामर्थ्यं शक्तियोग्यते ।एकद्व्यादौ विचारे च सङ्ख्या क्लीबे च संयुगे ॥ ३२४ ॥
3.3.324 · p. 204
अनुष्टुप्
हिरण्यं रेतसि स्वर्णे मानभेदे वराटयोः ।उरस्यपि च बुक्कायां हृदयं मानसेऽपि च ॥ ३२५ ॥
3.3.325 · p. 205
अनुष्टुप्
इति यान्ताः ।
अङ्कुरो रोम्नि रुधिरे वारिण्यभिनवोद्भिदि ।अमरा नाभिनालायां गुडूच्यामप्यथाम्बरम् ॥ ३२६ ॥
3.3.326 · p. 205
अनुष्टुप्
नाकेऽतिगन्धद्रव्ये च स्यादऽस्रं रुधिराश्रुणोः ।प्रस्तावेऽवसरो वर्षे चौष्ठे नीचेऽपि चाधरः ॥ ३२७ ॥
3.3.327 · p. 205
अनुष्टुप्
श्रेष्ठेऽप्यग्रोऽवतारस्तु तीर्थेऽवतरणेऽपि च ।गलहस्तेऽप्यर्धचन्द्रोऽकूपारः कमठेऽम्बुधौ ॥ ३२८ ॥
3.3.328 · p. 206
अनुष्टुप्
अलातेऽस्त्री कुजेऽङ्गारः श्रेष्ठा वाच्यावनुत्तरौ ।नक्रे चौरे चावहारः स्यादभ्रं व्योममेघयोः ॥ ३२९ ॥
3.3.329 · p. 206
अनुष्टुप्
हविर्वह्नी चाऽग्निहोत्रौ वृक्षे लघुनि चाऽगुरुः ।शक्तो निरण्डश्चाण्डीरावङ्घ्रिः स्यात्पादमूलयोः ॥ ३३० ॥
3.3.330 · p. 207
अनुष्टुप्
आसारः स्यात्प्रसरणे वेगवृष्टौ सुहृद्बले ।आरः शनैश्चरे भौमे इन्द्र आत्मनि वासवे ॥ ३३१ ॥
3.3.331 · p. 207
अनुष्टुप्
गौरीश्वरी शिवस्वामिकन्दर्पेष्वीश्वरः पुमान् ।उदारौ दक्षिणस्थूलौ द्रुमे मेढ्रेऽप्युदुम्बरः ॥ ३३२ ॥
3.3.332 · p. 207
अनुष्टुप्
उग्रोत्यजे शिवेऽत्युच्चे उस्रो दीप्तौ गवि स्त्रियाम् ।सिंहजटासु पुन्नागे बकुले नागकेशरे ॥ ३३३ ॥
3.3.333 · p. 208
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ज (wrong syllable)
केशरः पुंसि किञ्जल्के न स्त्री हिङ्गुनि न द्वयोः ।मक्षिकायामपि क्षुद्रा क्षुद्रः स्यात्कृपणे त्रिषु ॥ ३३४ ॥
3.3.334 · p. 208
अनुष्टुप्
कद्रुस्त्रिषु कडारे स्यात्कद्रुः स्त्री नागमातरि ।नापितस्योपकरणे कोकिलाक्षेऽपि च क्षुरः ॥ ३३५ ॥
3.3.335 · p. 209
अनुष्टुप्
भस्मकाचरसाः क्षाराः कारुः कारकशिल्पिनोः ।कर्बुरो राक्षसे पापे कर्बुरं शबले जले ॥ ३३६ ॥
3.3.336 · p. 209
अनुष्टुप्
कारे पीडा बन्धशाले क्रूरौ कठिनभीषणौ ।जम्बुद्वीपसहाकन्याः कुमार्योऽथास्ववारके ॥ ३३७ ॥
3.3.337 · p. 209
अनुष्टुप्
बालके कार्त्तिकेये च कुमारो भर्तृदारके ।कलिकारस्तु धूम्याटे करञ्जे पीतमस्तके ॥ ३३८ ॥
3.3.338 · p. 210
अनुष्टुप्
सिद्धस्थानेऽपि च क्षेत्रं कर्करौ दृढदर्पणौ ।शिंशपायां कृष्णसारः स्नुह्याञ्चाऽथोत्पलेऽपि च ॥ ३३९ ॥
3.3.339 · p. 210
अनुष्टुप्
कर्णपूरः कुबेरस्तु नन्दीवृक्षैकपिङ्गयोः ।शट्याञ्च शूकशिम्ब्याञ्च कच्छूरा पामने त्रिषु ॥ ३४० ॥
3.3.340 · p. 210
अनुष्टुप्
कन्दरः स्याद्गुहास्मृण्योः कोट्टारौ कूपनागरौ ।कदरः क्रकचे रोगे कदरः खदिरे सिते ॥ ३४१ ॥
3.3.341 · p. 211
अनुष्टुप्
कट्वरं कुत्सिते तक्रे किर्म्मीरौ शबलासुरौ ।कपाले च कटाहे च शस्त्रभेदे च कर्परः ॥ ३४२ ॥
3.3.342 · p. 211
अनुष्टुप्
भिक्षापात्रे कपाले च खर्परस्तस्करेऽपि च ।देवताडे खरा स्त्री स्यात्खरो गर्द्दभतीक्ष्णयोः ॥ ३४३ ॥
3.3.343 · p. 211
अनुष्टुप्
भद्रमुस्ते गुवाके च खपुरोऽथ द्रुमे पुमान् ।रूप्ये खले च खर्ज्जूरः खुरः कोलदले शफे ॥ ३४४ ॥
3.3.344 · p. 212
अनुष्टुप्
खरुरश्वे हरे दर्पे दन्ते श्वेते तु वाच्यवत् ।गुरुस्त्रिलिङ्ग्यां महति दुर्ज्जरालघुनोरपि ॥ ३४५ ॥
3.3.345 · p. 212
अनुष्टुप्
गायत्री खदिरे स्त्री स्याच्छन्दस्यापि षडक्षरे ।गुन्द्रस्तेजनके गुन्द्रा प्रियङ्ग्वां भद्रमुस्तके ॥ ३४६ ॥
3.3.346 · p. 212
अनुष्टुप्