कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

व्याघ्र

vyāghraपुं · masc.

In 20 kośas: 27 synonym verses, 6 as a nānārtha head word, 33 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1285 · p. 49
अरण्यजेऽस्मिन्गवलः सिंहः कण्ठीरवो हरिः ॥ १२८३ ॥हर्यक्षः केसरीभारिः पञ्चास्यो नखरायुधः ।महानादः पञ्चशिखः पारीन्द्रः पत्यरी मृगात् ॥ १२८४ ॥श्वेतपिङ्गोऽप्यथ व्याघ्रो द्वीपी शार्दूलचित्रकौ ।चित्रकायः पुण्डरीकस्तरक्षुस्तु मृगादनः ॥ १२८५ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.96 · p. 54
स्युरुत्तरपदे व्याघ्रपुंगवर्षभकुञ्जराः ।सिंहशार्दूलनागाद्यास्तल्लजश्च मतल्लिका ॥ १४४० ॥मचर्चिका प्रकाण्डोद्घौ प्रशस्यार्थप्रकाशकाः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.1
शार्दूलद्वीपिनौ व्याघ्रे तरक्षुस्तु मृगादनः ॥ १ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.59
स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः ।सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.226 · p. 28
कोलः क्रोडः शूकरः स्याद्वराहः,पोत्री दंष्ट्री घृष्टिरुक्तः किरिश्च ।व्याघ्रो द्वीपी पुण्डरीकस्तरक्षुः,शार्दूलः स्याच्चित्रकायो मृगारिः ॥ २२६ ॥
शालिनी
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर पञ्चदशोपदेशः Bālaprabodhikā 15.307 · p. 94
व्याघ्रो मृगारिः शार्दूलो हिंसारुचन्द्रकी मृगात् ।चित्राङ्गस्तु महाद्वेष्टः पिण्डारस्तु न रोटकः ॥ ३०७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 रु (wrong syllable)
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम सिंहाधिकारश्चतुर्थस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 4.1 · p. 25
सिंहः पञ्चाननो गन्धिः पारीन्द्रो मृगयूथपः ।व्याघ्रः शार्दूलकश्चन्द्रश्चन्द्रकीत्यभिधीयते ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.353 · p. 172
अग्निव्याघ्राभिधश्चापि चित्रकः शंवरः कुटः ।कृष्णे व्यालः कालमूलो मार्जारोप्यतिदीप्यकः ॥ ३५३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.110 · p. 226
पुष्कलः सत्तमश्चापि श्रेयान् श्रेष्ठो महत्तमः ।स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः ॥ ११० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.326 · p. 285
पञ्चाङ्गुलो दीर्घदण्डेरुवूकौ रुबुको वकः ।वर्द्धमानस्तत्र रक्ते स्याद्व्याघ्रो हस्तिकर्णकः ॥ ३२६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.9 · p. 318
व्याघ्रः पञ्चनखो व्याडः शार्दूलोऽपि गुहाशयः ।तीक्ष्णदंष्ट्रः पुण्डरीको द्वीपी द्वीपिल इत्यपि ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.38 · p. 155
तरुणो रुचकश्चञ्चू रक्तस्तु गजकर्णकः ।व्याघ्रो व्याघ्रतलो व्याघ्रपुच्छो लोहितशीर्षकः ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.3 · p. 189
मृगराजः पञ्चनखः शार्दूलः श्वेतपिङ्गलः ।व्याघ्रो द्वीपी द्वीपिनोऽस्त्री हिंसीरोऽप्यथ चित्रकः ॥ ३ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.67 · p. 18
स्युरुत्तरपदे व्याघ्र-पुंगवर्षभ-कुञ्जराः ।सिंह-शार्दूल-नागाद्याः पुंसि श्रेष्ठार्थवाचकाः ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 90 · p. 45
नागाद्यरिः कण्ठी(ण्ठि)रवो मृगेन्द्रः केसरी हरिः ।व्याघ्रश्चमूरः शार्दूलः शरभोऽष्टापदोऽष्टपात् ॥ ९० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ण्ठी (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.189 · p. 75
मृगारिः केसरी चापि मृगात्पतिरपीक्ष्यते ।हर्यक्षो व्याघ्र इत्येवं द्वीपिशार्दूलचित्रकाः ॥ १८९ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.687 · p. 116
स्युरुत्तरपदे चन्द्रपुङ्गवर्षभनायकाः ।मत्तेभव्याघ्रशार्दूलनागराजमुखादयः ॥ ६८७ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त चतुःपदमरीचिः Pañcatattvaprakāśa 1.3.126 · p. 9
हर्यक्षः केसरी सिंहो हरिः पञ्चाननः सटी ।द्वीपी व्याघ्रो वर्त्तुलाक्षः शार्दूलो मृगमांसभुक् ॥ १२६ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.153 · p. 17
द्वीपी व्याघ्रश्चित्रकायः शार्दूलः शरभोऽष्टपाद् ।गजो मतङ्गजो हस्ती मातङ्गः कुञ्जरः करी ॥ १५३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2322 · p. 376
व्याघ्रो द्वीपी च शार्दूलश्चित्रकायश्च चित्रकः ।पुण्डरीकश्च नामानि व्याघ्रस्य प्रथयन्ति वै ॥ २३२२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2371 · p. 383
पुनर्लोमविषाः केचिद् व्याघ्रप्रमुखजन्तवः ।तथा नखविषाः ख्याताः नरप्रमुखप्राणिनः ॥ २३७१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ख (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2617 · p. 422
श्रेयः श्रेष्ठं पुष्कलञ्च सत्तममऽतिशोभनम् ।तथोत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः ॥ २६१७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 त्त (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.4 · p. 82
व्याघ्रो द्वीपी च शार्दूलो हिंसारुः श्वापदोऽपि च ।अथ तक्षुस्तरक्षुश्च मृगादनतरक्षकौ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.676 · p. 86
सिंहः पञ्चमुखो हरिर्मृगपतिः कण्ठीरवः केसरीहर्यक्षो नखरायुधोऽथ कुठरः स्यादल्पकण्ठीरवः ।सिंहारिः शरभोऽष्टपादथ समाः शार्दूलपिण्डारक-व्याघ्रद्वीपितरक्षुचित्रतनवः स्युः पुण्डरीकोऽप्यमी ॥ ६७६ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1574 · p. 190
ऋषभः कुञ्जरः सिंहः शार्दूलो व्याघ्रपुंगवौ ।नाग इत्यादयः पुंसि श्रेष्ठार्थाः स्युः पदात् परे ॥ १५७४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1804 · p. 219
श्वापदा हिंस्रपशवः सिंहः पारीन्द्र इत्यपि ।व्याघ्रो वरोत्कटस्तुल्यौ वराहस्तु बहुव्रजः ॥ १८०४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.3 · p. 65
व्याघ्रो मृगारिः शार्दूलो हिंसारुश्चन्द्रकी मृगात् ।हुण्डश्चाल्पस्त्वयं द्वीपी चुलुको भेलमेहिनौ ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.60 · p. 311
वप्रस्तु तातेऽथ चये च रेणौक्षेत्रे तटे च प्रथितः स्त्रियां न ।शीघ्रं द्रुते स्यान्नलदेऽपि * *चक्राङ्गके द्वीपिकरञ्जयोस्तु ॥ ६० ॥
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा
doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.61 · p. 311
व्याघ्रोऽपि र[49b]क्ते उरुबौ स्त्रियां तुनिदिग्धिकायां मृगराजजातौ ।हरौ हरेऽग्नौ नकुले च वज्रेमुनौ विलासे नरि बभ्रुरुक्तः ॥ ६१ ॥
उपेन्द्रवज्राmetre not read in every linenearly उपेन्द्रवज्रा: pāda 1, syllable 1 व्या (wrong syllable); pāda 1, syllable 4 र (wrong syllable)
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1221 · p. 147
बहुप्रदे शठे चाथ शार्दूले व्याघ्रवाग्द्वयोः ।व्याघ्री तु कण्टकार्यां स्त्री वाटस्तु नरि वेष्टने ॥ १२२१ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र रद्विः Śivakoṣa 22.2.388 · p. 35
वज्रा गुडूच्यां व्याघ्रस्तु रक्तैरण्डकरञ्जयोः ।व्याघ्री निदिग्धिकायां च वेरं वङ्गेऽपि कुङ्कुमे ॥ ३८८ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.43 · p. 268
वप्रो ना जतुके न स्त्री क्षेत्रे रेणौ तटे व्रते ।व्याघ्रः करञ्जशार्दूलरक्तैरण्डेषु पुंस्ययम् ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.44 · p. 268
श्रेष्ठे जनोत्तरस्थेपि व्याघ्री बृहतिकौषधे ।वृत्रो दैत्यशैलभेदे शत्रौ ध्वान्ते वने पुमान् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त्य (wrong syllable)

व्याघ्र as a meaning in nānārtha verses