दध्यग्र
dadhyagraक्ली · neut.In 4 kośas: 2 synonym verses, 3 as a meaning of another word.
दध्युत्तरो दधिस्नेहो दध्यग्रमथ कूचिका ।दध्ना तक्रेण च क्षीरे पक्वे स्याद्दधितक्रयोः ॥ २३१ ॥
अनुष्टुप्
genderक्लीneut.
शुष्के तस्मिन्करीषं स्यात्पयस्यं पायसे मतम् ।तक्रादौ दधिमध्वन्ने ? दध्यग्रं परिकीर्तितम् ॥ ४७६ ॥
अनुष्टुप्
genderक्लीneut.
दध्यग्र as a meaning in nānārtha verses
- शिवकोष कादम्बरकादम्बरी तु वारुण्यां क्लीबं दध्यग्रमद्ययोः । कृष्णसारो बालपत्रे शिंशपायां तु योषिति ॥ ४२३ ॥ Śivakoṣa 22.4.423
- शब्दरत्नावली सरस्वरुर्व्रजे यूपखण्डे सायकेऽप्यध्वरे पुमान् । सद्रं (?) वनसदादानयज्ञाच्छादनकैतवे । सरः पुंसि गतौ तुङ्गे दद्यग्रे च निगद्यते ॥ Śabdaratnāvalī 7.27.47
- शब्दरत्नावली कादम्बरकादम्बरोऽस्त्री दध्यग्रे मद्यभेदे स्त्रियामपि । कादम्बरी कोकिलायां भारतीसुरयोरपि ॥ Śabdaratnāvalī 7.27.123