कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सर

saraपुं · masc.

In 16 kośas: 32 synonym verses, 3 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.32 · p. 53
अम्लस्तु पाचनो दन्तशठोऽथ लवणं सरः ॥ १३८८ ॥सर्वरसोऽथ कटुः स्यादोषणो मुखशोधनः ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र मर्त्यकाण्डः Abhidhānacintāmaṇipariśiṣṭa 3.98 · p. 4
दुग्धे योग्यं बालसात्म्यं जीवनीयं रसोत्तमम् ।सरं गव्यं मधुज्येष्ठं धारोष्णं तु पयोऽमृतम् ॥ ९८ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.269 · p. 118
विकर्षः पत्रवाहश्च चित्रपुङ्खः शरः खरुः ।सरः शरुर्मर्मभेदी वीरशङ्कुश्च लक्षहा ॥ २६९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.230 · p. 158
आसप्ताहादथ दधि मङ्गल्यं क्षीरसम्भवम् ।विरलं तज्जलं मस्तु क्लीबेथो कट्वरः सरः ॥ २३० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.413 · p. 178
जलजं लवणक्षारमथ पाक्यो यवाग्रजः ।यवसारो यताह्वः स्याद्यवशूकोऽथ षण् सरम् ॥ ४१३ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.8 · p. 344
कृपीटं कमलं सारं क्षीरं विषमिदं घृतम् ।कबन्धमुदकं पाथः कीलालं पुष्करं सरम् ॥ ८ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.49 · p. 104
सरं सरश्च क्लीबे द्वे सरसी तु महत्सरः ।वेशन्त-पल्वलावस्त्री तल्लः स्वल्पसरोर्थकः ॥ ४९ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.44 · p. 213
पिण्डोऽस्त्री विग्रहः कायः सरः (संचरः) स्कन्धपञ्चरः (रौ) ।अप्तुर्घनो भूघनोऽङ्गमिन्द्रियायतनं पुरम् ॥ ४४ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.74 · p. 224
मणिः स्यात्तरलो मध्यनायकोऽथ सरोलता ।सरिका यष्टिका देवच्छन्दस्तु शतयष्टिकः ॥ ७४ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 15 · p. 7
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.282 · p. 87
ओषणो वक्त्रभेदी च कटुतिक्तौ समावुभौ ।सरः सर्वरसश्चैव लवणोऽपि तथोच्यते ॥ २८२ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.27 · p. 28
गृहादिकस्य पुरतः सरो निःसरणं तथा ।पुरादिकस्य पुरतः संनिवेशो निकर्षणम् ॥ २७ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.635 · p. 108
पूज्ये प्रतीक्ष्यः प्रेक्ष्यश्च प्रवीक्ष्यः प्रसरः सरः ।दक्षिण्ये दक्षिणेयः(णीयः?) स्याद्दक्षिणो दक्षिणार्हकः ॥ ६३५ ॥
अनुष्टुप्
genderविadj.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.257 · p. 18
गोधूमो वर्हणो वल्पः तीक्ष्णशूको यवोऽवलः ।स्नेही तिलो वलीमाषः स्निग्धः सन्तर्पणः सरः ॥ २५७ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.260 · p. 18
जवारिका दीर्घदण्डा कोद्रवः कठिनो सरः ।ग्राही घनो मटरको मरुधान्यकबाजरौ ॥ २६० ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.269 · p. 19
अङ्गारकर्कर्याङ्गारी कृशरा खिच्चिका वला ।द्वैदलं सूपकः सूपो सूपपूषः कटुः सरः ॥ २६९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.604 · p. 78
ऊधस्यममृतं गव्यं स्तन्यं योग्यं रसोत्तमम् ।बालसात्म्यं मधुज्येष्ठं जीवनीयं सरं रसम् ॥ ६०४ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.41 · p. 39
इरा कमन्धं नारोदं जडपीथ-घृत-क्षरम् ।ऋतमूर्जं काण्ड-सरं कोमलं सोम इत्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.106 · p. 43
सरं सरकमित्येष पर्यायस्तु सरोवरे ।वेशन्तः पल्वलं चाल्पे वापिर्वापी च दीर्घिका ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.302 · p. 79
ग्रन्थिर्ना परुषं क्लीबे परु पर्व च पर्वकम् ।शरो मुञ्जस्तेजनकः सरः स्यात् गुन्द्र इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.213 · p. 206
कण्ठभूषायां ग्रैवेयं ग्रैवं ग्रैवेयकं तथा ।मुक्तास्रज्याहारो हारः स्त्रीन्रोर्यष्ट्यां सरिः सरः ॥ २१३ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 यां (wrong syllable); pāda 3, syllable 5 हा (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.274 · p. 211
बाणे पृषत्कस्तात्कान्तः सायकः सायवत्सरः ।शरः शरुः स्वरुर्भल्लो भल्लिश्चापि कडम्बयुक् ॥ २७४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.92 · p. 225
शम्बरं दन्त-तालव्यादिमं स्याच्छवरः शिवम् ।कृपीटं कृषीटमलं कमलं च शरं सरः ॥ ९२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 कृ (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.273 · p. 240
दर्भः कुशं कुसो मुञ्जे शरस्तालव्यदन्त्यभाक् ।दूर्वायां हरितालीवद्धरिता, धमने नडः ॥ २७३ ॥
अनुष्टुप्
genderपुंmasc.doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.484 · p. 63
उल्लेखनीयो लक्ष्मीवान् स्रावणश्च सरश्च सः ।शिग्रुर्मोचकतीक्ष्णगन्धवृषदा अक्षीभशोभाञ्जनौरक्तोऽसौ मधुशिग्रुरेव वनजः स्यात् फेनिलोऽरिष्टकः ।शल्यः स्यात् करहाटको मरुवकः पिण्डीतकश्छर्दन-स्तस्मिन् गारवराटकौ च मदनश्चाङ्गारकस्त्विङ्गुदी ॥ ४८४ ॥
अनुष्टुप्two metres in one verse
genderपुंmasc.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 123 · p. 538
सरस्तु मुञ्जो बाणाख्यो गुन्द्रस्तेजनकः शरः ॥ १२३ ॥
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव क्षत्त्रियवर्गः Trikāṇḍaśeṣa 2.8.52 · p. 69
शस्त्राभ्यासश्च खुरली बाणः स्यादत्स्त्रकण्टकः ।स्थूलक्ष्वेडो विपाटश्च चित्रपुङ्खः शरः सरः ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव लिङ्गादिसंग्रहः Trikāṇḍaśeṣa 4.13 · p. 277
genderपुंक्लीm. n.
वैजयन्ती Vaijayantī · यादवप्रकाश लोकपालाध्यायः Vaijayantī 1.2.48 · p. 13
युजिनो लघुगो वातिर्ध्वजप्रहरणो जगन् ।दैत्यदेवो वहः प्राणो नभःप्राणोंऽकतिः सरः ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.42 · p. 48
दोषग्रहे तु कतको द्रावणः स्रवणः सरः ।उल्लेखनीयो लक्ष्मीवांस्तेरस्तोयप्रसादनः ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.145 · p. 135
पयो दुग्धं च पीथं च स्तन्यं पुंसवनं सरम् ।गव्यं ज्येष्ठं मधु क्षीरं योग्यं सोमरसोद्भवम् ॥ १४५ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश गुणाध्यायः Vaijayantī 5.3.26 · p. 198
अम्लस्तु पाचनः शुक्तो लवणस्तु पटुः सरः ।ऊषणस्तु कटुस्तीक्ष्णस्तिक्तस्तु विसरः कटुः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास रपादः Dharaṇikośa 26.1.10 · p. 163
कृच्छ्रं दुःखं प्रायश्चित्तं सरः स्थाणुः सरो गतिः ।ऐन्द्रिः काके जयन्ते च पुरुर्भूरिपरागयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्रा (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.2 · p. 302
मनागभीष्टेऽथ सरोऽपि बाणेमुक्तादियष्टौ च तथाग्रभागे ।दध्नोऽन्यवद्विह्वरणे [द्व]येऽथस्वरोऽक्षु चोदात्तमुखेषु शब्दे ॥ २ ॥
उपजातिः
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.47 · p. 268
स्वरुर्व्रजे यूपखण्डे सायकेऽप्यध्वरे पुमान् ।सद्रं (?) वनसदादानयज्ञाच्छादनकैतवे ।सरः पुंसि गतौ तुङ्गे दद्यग्रे च निगद्यते ॥
अनुष्टुप्metre not read in every line