All kośas › Kalpadrukośa
कल्पद्रुकोशः Kalpadrukośa
4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)
भूमिस्कन्धः · वैश्यादिप्रकाण्डः (2/6)
मधुरो मधुशिग्रुः स्यात्सुगन्धो बहुलच्छदः ।अपि केसरिपर्यायोप्यथ वेणुर्महाबलः ॥ १२१ ॥
1.7.121 · p. 146
अनुष्टुप्
तृणकेतुर्यवफलो वंशः कर्मार इत्यपि ।शतपर्वा दृढग्रन्थिर्मसूरोप्याढकीफलः ॥ १२२ ॥
1.7.122 · p. 146
अनुष्टुप्
सारशून्यो मस्करः स्यात्त्वक्सारोऽपि धनुर्द्रुमः ।त्वचिसारोऽपि तद्वत्स्यात् तेजनो रम्भ इत्यपि ॥ १२३ ॥
1.7.123 · p. 146
अनुष्टुप्
सच्छिद्राः कीचकास्ते स्युर्ये स्वनन्त्यनिलेरिताः ।भोरटं पूरणं वंशात्तन्मूलेथ तदङ्कुरे ॥ १२४ ॥
1.7.124 · p. 146
अनुष्टुप्
अस्त्री करीरो वंशाग्रं तद्ग्रन्थौ तु द्वयोः परुः ।पर्वा स्त्री काण्डसन्धिर्ना परुः पारु त्वगस्य तु ॥ १२५ ॥
1.7.125 · p. 146
अनुष्टुप्
तमालः पुंसि चाथ स्यान्मृदुपर्वा तु वेत्रकः ।योगिदण्डः सुदण्डोऽथ माकन्दी बहुमूलिका ॥ १२६ ॥
1.7.126 · p. 146
अनुष्टुप्
मोदनी गन्धमूली स्याद्राका विशदमूलिका ।सौली वनहरिद्रायां वनारिष्टाथ पेडका ॥ १२७ ॥
1.7.127 · p. 146
अनुष्टुप्
वन्यार्द्रकाथो रसोने लशुनो रशुनोऽस्त्रियाम् ।उग्रगन्धो म्लेच्छकन्दो भूतघ्नः षण्महौषधम् ॥ १२८ ॥
1.7.128 · p. 146
अनुष्टुप्
तत्र रक्ते दीर्घपत्रो यवनेष्टश्च गृञ्जनः ।स्थूलकन्दः पलाण्डुस्तु तीक्ष्णकन्दश्च दीपनः ॥ १२९ ॥
1.7.129 · p. 147
अनुष्टुप्
मुखाद्दूषणगन्धाह्वः शूद्रपर्यायतः प्रियः ।स्त्रियामुल्ली कृमिहरो बहुपत्रो विरोचनः ॥ १३० ॥
1.7.130 · p. 147
अनुष्टुप्
विश्रगन्धः स च श्वेतः पीतो राजपलाण्डुकः ।यवनेष्टो दीर्घपत्रो राजपर्यायतः प्रियः ॥ १३१ ॥
1.7.131 · p. 147
अनुष्टुप्
कण्डूरः सूरणः कन्दो मुकन्दः स्थूलकन्दकः ।दुर्नामारिर्वृत्तकन्दो वातारिः स्कन्दवर्धनः ॥ १३२ ॥
1.7.132 · p. 147
अनुष्टुप्
रुव्यकन्दस्तीव्रकन्दः शूरकन्दः सितोपरः ।स च वन्योप्यतोन्यः स्यादकण्डूरोऽपि पूर्ववत् ॥ १३३ ॥
1.7.133 · p. 147
अनुष्टुप्
अम्लिका स्वल्पविटपा सुकुमाराम्लनामिका ।अर्शोहिताम्लिकाकन्दः फलकन्दोऽपि चेष्यते ॥ १३४ ॥
1.7.134 · p. 147
अनुष्टुप्
मुखालुर्मण्डपारोही दीर्घकन्दः सुकन्दकः ।स्यात्स्वादुस्थूलवत्सेभ्यः कन्दः स्यादथ रोमशः ॥ १३५ ॥
1.7.135 · p. 147
अनुष्टुप्
पिण्डालुर्ग्रन्थिलः पिण्डकन्दस्ताम्बूलपत्रकः ।लोमशः पित्तकोपि स्यान्नानाकन्दोऽथ लोहिते ॥ १३६ ॥
1.7.136 · p. 147
अनुष्टुप्
रक्तपिण्डो लोहितालुः कासकन्दस्तु कन्दिलः ।विशालपत्र आलुः स्यात्कासालुः स्यादथापि च ॥ १३७ ॥
1.7.137 · p. 147
अनुष्टुप्
कर्कोटिका तु कूष्माण्डी कुम्भाण्डी स्याद्बृहद्वला ।मृदङ्गकुम्भपुष्पेभ्यः फला स्यात्सुफलापि च ॥ १३८ ॥
1.7.138 · p. 148
अनुष्टुप्
गोरक्षतुम्बी गोरक्षी नाधाला दुर्घटाह्वया ।क्षीरतुम्बी दीर्घफला परीवृत्तफला च सा ॥ १३९ ॥
1.7.139 · p. 148
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दी (wrong syllable)
महाफला दुग्धबीजा दन्तबीजा पयस्विनी ।अलावुः स्यान्महावल्ली श्रमघ्नी सापि चेत्कटुः ॥ १४० ॥
1.7.140 · p. 148
अनुष्टुप्
स्त्रीक्ष्वाकुः क्षत्रियवरा दीर्घवीजाथ भूद्भवा ।वल्मीकोत्था भूमितुम्बी शक्रचापोद्भवा च सा ॥ १४१ ॥
1.7.141 · p. 148
अनुष्टुप्
नागतुम्बी दिव्यतुम्बी देव्यथ श्यामबीजिनी ।स्याच्चित्तमांसमधुरवृत्तेभ्यः फलिनी च सा ॥ १४२ ॥
1.7.142 · p. 148
अनुष्टुप्
घृणायाश्चित्रवल्ली स्यात् कलिङ्गी रक्तबीजका ।चीनाकी चीनकी चीना तिन्दुकी तिन्दिसी च सा ॥ १४३ ॥
1.7.143 · p. 148
अनुष्टुप्
कोशातकी स्वादुफला जालिनी कर्कशच्छदा ।कर्कोटकी पीतपुष्पा स्याद्दीर्घधारयोः फला ॥ १४४ ॥
1.7.144 · p. 148
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्घ (wrong syllable)
धामार्गवः पुमान् पोषानको बहुविधा च सा ।अन्या हस्तिबृहद्ग्राम्य0कोशातक्यथ मण्डपी ॥ १४५ ॥
1.7.145 · p. 148
अनुष्टुप्
पटोली दीर्घमधुरशिखिस्वादुभ्य एव सा ।स्यात्पटोलं राजफलं तन्मूलं रम्यकं पुनः ॥ १४६ ॥
1.7.146 · p. 148
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रा (wrong syllable)
द्विविधा फलभेदेन काकाण्डी कोलपालिका ।पर्यङ्कपालिका खट्वा खट्वाङ्गी दधिपुष्प्यपि ॥ १४७ ॥
1.7.147 · p. 149
अनुष्टुप्
असिपर्यायशिम्ब्यर्था सुशिम्बी स्थलशिम्बिका ।कारवल्ली तु कटुका चीरीपत्रा कठिल्लका ॥ १४८ ॥
1.7.148 · p. 149
अनुष्टुप्
सितपुष्टाम्बुसूक्ष्माभ्यां वल्ली कण्टफलाप्यथ ।कर्कोटकी स्वादुफला मनोज्ञा च मनस्विनी ॥ १४९ ॥
1.7.149 · p. 149
अनुष्टुप्
वोधना बन्ध्यकर्कोटी देवी कण्टफलाप्यथ ।व्याघ्री कण्टलता व्याली मांसी चाखुनखी मृगी ॥ १५० ॥
1.7.150 · p. 149
अनुष्टुप्
मार्जारिण्यथ विम्बी तु तुण्डी रक्तफला च सा ।अधरोष्ठफला पीलुपर्णी सा रुचिरात्फला ॥ १५१ ॥
1.7.151 · p. 149
अनुष्टुप्
कटुस्वादुफला द्वेधा ग्रामतः पविका तु सा ।मण्डपी कलिका शिम्बी कलिनी नखपूर्विका ॥ १५२ ॥
1.7.152 · p. 149
अनुष्टुप्
निःपावी स्याद्गुच्छफला फलिनी चिपिटा च सा ।विशालाप्यथ वार्त्ताकी वृन्ताकी कण्टपत्रिका ॥ १५३ ॥
1.7.153 · p. 149
अनुष्टुप्
कटालुर्मांसलफला शाकश्रेष्ठा च कट्फला ।महोटिका च निद्रालुर्वृन्ताकी महती च सा ॥ १५४ ॥
1.7.154 · p. 149
अनुष्टुप्
चित्रफला कण्टकिनी जनप्रियफला पुनः ।रक्तनीलमिश्रवर्णश्वेतेभ्यः फलसंज्ञका ॥ १५५ ॥
1.7.155 · p. 149
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 2 त्र (wrong syllable); pāda 3, syllable 4 ल (wrong syllable)
वातिङ्गणोपि वार्त्ताकी वार्त्ताको वातिगोऽपि च ।वार्तापि हिङ्गुली भाण्टी वृन्ताको वातिकश्च सः ॥ १५६ ॥
1.7.156 · p. 150
अनुष्टुप्
वार्त्ताकुश्च द्वयोश्चैव भतकी बङ्गकी च षण् ।डङ्गरिः स्त्री गण्डरिः स्याद्दीर्घेर्वारुश्च गण्डरी ॥ १५७ ॥
1.7.157 · p. 150
अनुष्टुप्
गजदन्तफला नागशुण्ड्यथो वृत्तकर्कटी ।सा खरत्वक्फला तिक्तषड्रेखाङ्कितसत्फला ॥ १५८ ॥
1.7.158 · p. 150
अनुष्टुप्
मधुपाकफलाथ स्यादथच्छर्दालुकर्कटी ।पीनसा स्यात्कटुदला त्रपुस्या संनिका पुनः ॥ १५९ ॥
1.7.159 · p. 150
अनुष्टुप्
अपि लोमशकाण्डा स्याद्धस्तिपर्णी च मूत्रला ।कन्दालुस्त्रपुषी पीतपुष्पी बहुफलापि च ॥ १६० ॥
1.7.160 · p. 150
अनुष्टुप्
सैव कोशफलापि स्यादथेर्वारुस्तु कर्कटी ।उर्वारुरपि चेर्वारुर्व्यालपुत्री च रोमशा ॥ १६१ ॥
1.7.161 · p. 150
अनुष्टुप्
स्थूलतोयहस्तिदन्तपर्यायेभ्यः फला च सा ।शारदी वामुकी स्निग्धफला बहुफला च सा ॥ १६२ ॥
1.7.162 · p. 150
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 य (wrong syllable)
क्षेत्रकर्कटिका चैव मधुरार्थात्फलार्थका ।सुचित्रा चिर्भिटी चित्रफलाथ क्षेत्रचिर्भिटी ॥ १६३ ॥
1.7.163 · p. 150
अनुष्टुप्
पथ्या पाण्डुफला चिर्भिटिका रोचनतः फला ।मध्यपीतफला सैव चिक्कणान्तः फलद्रवा ॥ १६४ ॥
1.7.164 · p. 150
अनुष्टुप्
कर्कट्यथ मृगाक्षी तु श्वेतपुष्पा मृगादिनी ।मृगेर्वारुश्चित्रवल्ली कट्फला लघुचिर्भिटी ॥ १६५ ॥
1.7.165 · p. 151
अनुष्टुप्
कपिलाक्षी बहुफला मृगचिर्भिटिका च सा ।मृगेक्षणा चित्रफला देवी पथ्या मरूद्भवा ॥ १६६ ॥
1.7.166 · p. 151
अनुष्टुप्
स्याच्चीर्णमर्कटी त्वन्या राजकर्कटिका पुनः ।श्रीफली पूजितः पत्रफला बहुफला च सा ॥ १६७ ॥
1.7.167 · p. 151
अनुष्टुप्
सुषवीकारवीक्षुद्रकारवीकन्दतो लता ।अथापरे पत्रशाका वास्तूको वास्तुकोऽस्त्रियाम् ॥ १६८ ॥
1.7.168 · p. 151
अनुष्टुप्
चक्रवर्त्ती राजशाकः शाकराजः पुनः स्त्रियाम् ।दलाम्लं चुक्रवास्तूकं लिकुचं स्यादथ स्त्रियाम् ॥ १६९ ॥
1.7.169 · p. 151
अनुष्टुप्
दलाग्रलोहिता चिल्ली मृदुक्षारचिरार्थतः ।पत्रा स्त्रियां वास्तुकी सा श्वचिल्ल्यथ सुपत्रिका ॥ १७० ॥
1.7.170 · p. 151
अनुष्टुप्
क्षुरपत्री पलाक्या स्यात्पालक्या ग्राम्यवल्लभा ।मधुरा स्नेहपत्रार्था राजार्थाद्गिरिशाकिनी ॥ १७१ ॥
1.7.171 · p. 151
अनुष्टुप्
पालक्या नागपालक्या मदशाकस्तु मोहिनी ।उपोदकी कलम्बी च पिच्छिला पिच्छिलच्छदा ॥ १७२ ॥
1.7.172 · p. 151
अनुष्टुप्
विशाला मूलयोती तुवरिः शाकटपोतिका ।क्षुद्रवल्ली कलंडुस्तु घोली स्यात्कम्बलालुका ॥ १७३ ॥
1.7.173 · p. 151
अनुष्टुप्
जीवन्ती स्त्री रक्तनालस्ताम्रपत्रः सनालकः ।शाकवीरो जीवशाको मेषोऽथ षण् सुगन्धिकम् ॥ १७४ ॥
1.7.174 · p. 152
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 थ (wrong syllable)
गौरं स्वर्णं गन्धशाकं कटुशृङ्गाटमित्यपि ।भूवारिजं वर्णशाकः शिग्रुपत्राणि जीवनी ॥ १७५ ॥
1.7.175 · p. 152
अनुष्टुप्
तर्कारी वसुकः पद्मा वर्षाभूश्चैव फञ्जिका ।तण्डुलीयकचाङ्गेरीकुसुम्भराजिसर्षपाः ॥ १७६ ॥
1.7.176 · p. 152
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म्भ (wrong syllable)
कुडञ्जा तिन्दुकः फेडा त्रिपुटाद्याः क्रमादमी ।पत्रशाका अङ्कुरितं शिम्बिधान्यं विरूढकम् ॥ १७७ ॥
1.7.177 · p. 152
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 अ (wrong syllable)
भूमिस्फोटस्तु कवकं छत्राकं स्याच्छिलीन्ध्रकम् ।सैन्धवोऽस्त्री शीतशिवं नादेयः सितसिन्धुजम् ॥ १७८ ॥
1.7.178 · p. 152
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शी (wrong syllable)
पटूत्तमं वरं शुद्धं धौतेयं च शिलात्मजम् ।विमलं मणिमन्थं स्याच्छिवं भाष्यं पचा स्त्रियाम् ॥ १७९ ॥
1.7.179 · p. 152
अनुष्टुप्
सौवर्चलं हृद्यगन्धं रुचिकं तिलकं पुनः ।जरणं कृष्णलवणमक्ष्यं कोद्रविकं पुनः ॥ १८० ॥
1.7.180 · p. 152
अनुष्टुप्
रुच्यं स्यादथ नीलं षण् काचकौचोद्भवं पुनः ।गालक्यजं हृद्यगन्धं कुरुविन्दमथो विडम् ॥ १८१ ॥
1.7.181 · p. 152
अनुष्टुप्
खण्डं द्राविडकं क्षारं कृतकं धूर्तमासुरम् ।सुपाक्यमथ शुभ्रं तु महारम्भं च संवरम् ॥ १८२ ॥
1.7.182 · p. 152
अनुष्टुप्
पृथ्वीजं गण्डलवणमथान्यल्लवणाब्धिजम् ।शिवं वशिरमक्षीवं सामुद्रमथ वार्मयम् ॥ १८३ ॥
1.7.183 · p. 153
अनुष्टुप्
द्रौणेयं वारिजं चापि त्रिकूटलवणं पुनः ।अथोषरं सार्वगणं संसर्गलवणार्थकम् ॥ १८४ ॥
1.7.184 · p. 153
अनुष्टुप्
स्यान्मिश्रं बहुलवणमथौर्वसहमैरिणम् ।वसुपांशु च वसुकं पांशवं रोमकं पुनः ॥ १८५ ॥
1.7.185 · p. 153
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 ब (wrong syllable); pāda 3, syllable 4 शु (wrong syllable)
उद्भवं चोषरमथ स्त्रियां शुण्ठी महौषधम् ।कटूषणं कटुग्रन्थि नागरं विश्वभेषजम् ॥ १८६ ॥
1.7.186 · p. 153
अनुष्टुप्
कटुभङ्गं विश्वमथ शृङ्गवेरार्द्रके पुनः ।सौपर्णं गुल्ममूलं स्यात्कफारिकन्दरं वरम् ॥ १८७ ॥
1.7.187 · p. 153
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 वि (wrong syllable); pāda 4, syllable 3 रि (wrong syllable)
सैकतेष्टमनूपोत्थं महीजमथ कोलकम् ।मरीचं मरिचं चापि मिरीचं मिरिचं पुनः ॥ १८८ ॥
1.7.188 · p. 153
अनुष्टुप्
यवनेष्टं वृत्तफलं शाकाङ्गं धर्मपत्तनम् ।वल्लीजमूषणं वीरं पलितं कटुकं च तत् ॥ १८९ ॥
1.7.189 · p. 153
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वृ (wrong syllable)
कृष्णं मृष्टं सर्वहितं कफवैर्यथ तत्सिते ।वश्यंकरं च बहुलं वालकं चन्द्रकं च तत् ॥ १९० ॥
1.7.190 · p. 153
अनुष्टुप्
धान्याकं धान्यकं धान्यं धान्येयं धनिकं समम् ।उरूवरुर्ना वरी स्त्री छत्रधान्यं वितुन्नकम् ॥ १९१ ॥
1.7.191 · p. 153
अनुष्टुप्
पुंसि क्लीबे शालियोग्यः सुगन्धिः सूक्ष्मपत्रकः ।जनप्रियो बीजधान्यं धान्यं बीजश्च वेधकम् ॥ १९२ ॥
1.7.192 · p. 154
अनुष्टुप्
मागधो जरणो दीप्यो जीर्णो जीरकजीरणौ ।बह्निसस्योप्यजाजी स्त्री श्वेतायाम् तत्र वै कणा ॥ १९३ ॥
1.7.193 · p. 154
अनुष्टुप्
कणजीरो दीर्घकणा सुगन्धा तु सितेतरा ।बहुगन्धा कालमेषी शाली काश्मीरजीरका ॥ १९४ ॥
1.7.194 · p. 154
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 दी (wrong syllable)
भेदिनीवान्तिशोधिन्यौ वर्षाकाल्यथ जीरिणी ।स्यात्स्थूलजीरके कृष्णे दीप्या काल्युपकुञ्चिका ॥ १९५ ॥
1.7.195 · p. 154
अनुष्टुप्
पृथ्वी स्थूलकणा चापि मनोज्ञा पृथुरित्यथ ।मेथिनी दीपनी मेथी बहुपत्रा च बेधिनी ॥ १९६ ॥
1.7.196 · p. 154
अनुष्टुप्
वल्लरी चन्द्रिका गन्धफला मन्था च कौरवी ।पीतबीजा मिश्रपुष्पा कञ्चुकाप्यथ दीर्घका ॥ १९७ ॥
1.7.197 · p. 154
अनुष्टुप्
पृथ्वीका कवरी हिङ्गुपत्री चापि तथा पृथुः ।दार्वीपत्नी दारुपत्नी विल्की वाष्प्यथ रामढम् ॥ १९८ ॥
1.7.198 · p. 154
अनुष्टुप्
आरूढगन्धं जरणं भेदनं सूपदीपनम् ।सहस्रवेधिरक्षोघ्नं सूपाङ्गं जन्तुनाशनम् ॥ १९९ ॥
1.7.199 · p. 154
अनुष्टुप्
उग्रवीर्यं च वाह्लीकं हिङ्गुदीप्ता स्त्रियां पुनः ।भूतारिरुग्रगन्धा स्यादथ स्यात् हिङ्गुनाडिका ॥ २०० ॥
1.7.200 · p. 155
अनुष्टुप्
पलाशा जन्तुका वंशपत्री रामठिका च सा ।स्यात्पिङ्गाह्वा सुवीर्याथ शतवेधि तु काञ्जिकम् ॥ २०१ ॥
1.7.201 · p. 155
अनुष्टुप्
स्त्रियां क्लीबे काञ्जिका स्त्री न स्त्रियामम्लसारकः ।अवन्तिसोमोभिषुतो धान्याम्लश्चारनालकः ॥ २०२ ॥
1.7.202 · p. 155
अनुष्टुप्
कुल्माषाभिषवोपि स्यादुन्नाहं कुण्डगोलिकम् ।रक्षोघ्नमपि कुल्माषं गृहाम्लं स्यान्महारसम् ॥ २०३ ॥
1.7.203 · p. 155
अनुष्टुप्
कुञ्जनं कुलजं सिद्धसलिलं धातुनाशनम् ।आरनालं च धान्याम्लं यवजं तु यवोदकम् ॥ २०४ ॥
1.7.204 · p. 155
अनुष्टुप्
गोधूमजं तु सौवीरं तुषोत्थं तु तुषोदकम् ।द्विरुत्तरं मधुगुडकाञ्जिकं मस्तु धान्यकम् ॥ २०५ ॥
1.7.205 · p. 155
अनुष्टुप्
चुक्रं शुक्रं तदेव स्यात्कणा मधुसमन्वितम् ।मधुचुक्रं न स्त्रियां स्यात्त्रिषु तद्वति वस्तुनि ॥ २०६ ॥
1.7.206 · p. 155
अनुष्टुप्
जम्बीररसधान्याम्लावामासं क्षौद्रभाण्डगौ ।धान्याम्लसंज्ञमेवं स्यादथ वेध्याम्लवेतसः ॥ २०७ ॥
1.7.207 · p. 155
अनुष्टुप्
अम्लो रसाम्लो राजाम्लः शतवेध्यम्लनायकः ।अम्लसारो रक्तसारो भीमः स्याद्वीरवेतसः ॥ २०८ ॥
1.7.208 · p. 155
अनुष्टुप्
गुल्मकेतुश्चापि भेदी वेधि स्याच्छङ्खमांसयोः ।हरिद्रा रञ्जनी स्वर्णर्णा वर्णवती वरा ॥ २०९ ॥
1.7.209 · p. 156
metre not recognisednearly अनुष्टुप्
दीर्घरागा वर्णधात्री जनेष्टा वर्णिनी च सा ।पवित्रा हरिता पीता वराङ्गी शोभना शिफा ॥ २१० ॥
1.7.210 · p. 156
अनुष्टुप्
गौरी विषघ्नी मङ्गल्या निशार्था च विलासिनी ।शोभा जयन्ती लक्ष्मीः स्यान्मङ्गला सुभगाह्वया ॥ २११ ॥
1.7.211 · p. 156
अनुष्टुप्
भद्रा दारुहरिद्रान्या स्थिररागा पचंपचा ।कटंकटेरी पर्जन्या दार्वी कामवती च सा ॥ २१२ ॥
1.7.212 · p. 156
अनुष्टुप्
क्लीबे कालेयकं पीतदारुकालीयपीतके ।रसस्य समलस्येक्षोस्त्रिद्येकांशमलामलाः ॥ २१३ ॥
1.7.213 · p. 156
अनुष्टुप्
विकारः फाणितगुडमत्स्यण्डी खण्डशर्करः ।शिशुप्रियोरुणः खण्डो रसजः फाणितं तु षण् ॥ २१४ ॥
1.7.214 · p. 156
अनुष्टुप्
अपि क्षुद्रगुडोथ स्याद्गुडः स्वादुश्च मोदकी ।मधुरो रसपाकोत्थक्वाथोथ क्षुद्रशर्करा ॥ २१५ ॥
1.7.215 · p. 156
अनुष्टुप्
मत्स्यण्ड्यपि च मत्स्याण्डी मधुरा पिण्डशर्करा ।सा खण्डशर्करा चैव गुडपर्यायसम्भवा ॥ २१६ ॥
1.7.216 · p. 156
अनुष्टुप्
मधुपर्यायधूल्यर्था शर्कराह्वाथ खण्डके ।तवराजः खण्डसारः खण्डजः खण्डमोदकः ॥ २१७ ॥
1.7.217 · p. 156
अनुष्टुप्
स सुधामोदकोऽथ स्यात्तवराजसमुद्भवे ।खण्डे खण्डोद्भवोद्भूतः सुधामोदकतश्च सः ॥ २१८ ॥
1.7.218 · p. 157
अनुष्टुप्
ससिद्धमोदकोऽपि स्यात्स चैवामृतसारजः ।वर्त्तिकाशश्चिवटकाः शर्करालिङ्गकादयः ॥ २१९ ॥
1.7.219 · p. 157
अनुष्टुप्
विकाराः खण्डजाश्चाथ सिकता तु सितोपला ।अहिच्छत्रो पलाकास्याद्विकारा इक्षुजा अमी ॥ २२० ॥
1.7.220 · p. 157
अनुष्टुप्
यावनालरसोत्थोन्यो नारिकेलीरसोद्भवः ।खर्जूरीरसजस्तालीरसजोऽपि गुडो भवेत् ॥ २२१ ॥
1.7.221 · p. 157
अनुष्टुप्
शर्करा चापि सा तु स्यान्मधुजा मधुशर्करा ।शीता जात्या माधवी स्यात्सोक्ता माक्षीकशर्करा ॥ २२२ ॥
1.7.222 · p. 157
अनुष्टुप्
यावनाली हिमोत्पन्ना हिमानी हिमशर्करा ।स्यात्क्षुद्रशर्करा क्षुद्रा गुडजा जलबिन्दुजा ॥ २२३ ॥
1.7.223 · p. 157
अनुष्टुप्
हैयङ्गवीनं सरजं क्षीरोत्थं दधिसंभवम् ।मन्थजं नवनीतं स्यात्सारोत्थाभ्यञ्जनं घृतम् ॥ २२४ ॥
1.7.224 · p. 157
अनुष्टुप्
सर्पिरायुस्तैजसं स्यात् म्रक्षणं स्नेहनं पुनः ।अमृताह्वं जीवनीयं पवित्रं नवनीतजम् ॥ २२५ ॥
1.7.225 · p. 157
अनुष्टुप्
हौम्यं होमोत्तमार्थं स्यादस्याघाराभिघारणौ ।मले घृतस्य विलयोथास्त्री क्षीरं तु जीवनम् ॥ २२६ ॥
1.7.226 · p. 157
अनुष्टुप्
दुग्धं प्रस्रवणं धारि सौम्यमूधस्यमित्यपि ।पयोमृतं तन्नारीणां दुग्धे स्तन्यमतः परम् ॥ २२७ ॥
1.7.227 · p. 158
अनुष्टुप्
अविरिशमविरीशमविसोढमवेः पयः ।सृतक्षीरोपरिभवा घना सन्तानिका स्त्रियाम् ॥ २२८ ॥
1.7.228 · p. 158
अनुष्टुप्metre not read in every line
सद्यः प्रसूतायाः क्षीरं पीयूषोऽभिनवं पयः ।पेयूषो मलिनं क्लीबे घनं स्यादथ मोरटम् ॥ २२९ ॥
1.7.229 · p. 158
अनुष्टुप्
आसप्ताहादथ दधि मङ्गल्यं क्षीरसम्भवम् ।विरलं तज्जलं मस्तु क्लीबेथो कट्वरः सरः ॥ २३० ॥
1.7.230 · p. 158
अनुष्टुप्
दध्युत्तरो दधिस्नेहो दध्यग्रमथ कूचिका ।दध्ना तक्रेण च क्षीरे पक्वे स्याद्दधितक्रयोः ॥ २३१ ॥
1.7.231 · p. 158
अनुष्टुप्
उत्तराथ क्षीरशरा शर्करा सहिता स्त्रियाम् ।सुबद्धं घनवस्त्रेण दधिभावविवर्जितम् ॥ २३२ ॥
1.7.232 · p. 158
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क्षी (wrong syllable)
पिण्डीभूतं यद्दधि स्याद्दधिपिण्डः स उच्यते ।एवं तक्रे तक्रपिण्डो दधिदुग्धविमिश्रितम् ॥ २३३ ॥
1.7.233 · p. 158
अनुष्टुप्
चतुर्जातसिताशुण्ठीमरिचैलासमन्वितम् ।दृढेन शुभ्रवस्त्रेण गालितं केसरान्वितम् ॥ २३४ ॥
1.7.234 · p. 158
अनुष्टुप्
मार्जिता सा रसाला स्याच्छिखरिण्यथ गोरसः ।सरसं निर्जलं घोलं मथितं रसवर्जितम् ॥ २३५ ॥
1.7.235 · p. 158
अनुष्टुप्
पादाम्बुतक्रमर्द्धाम्बूदश्विद्द्व्यांशाम्भसा युतम् ।कालसेयं द्वयं सार्द्धजलदण्डाहतं क्रमात् ॥ २३६ ॥
1.7.236 · p. 159
अनुष्टुप्
अरिष्टमस्त्रियां क्लीबे रसायनविलोडिते ।अर्शोघ्नं सारणं श्वेतं कवचं चाथ मन्थरः ॥ २३७ ॥
1.7.237 · p. 159
अनुष्टुप्
दधिचारोऽपि वैशाखस्तक्राटः करघर्षणः ।मन्थो मन्थनमन्थानखजाः पुंसि नपुंसके ॥ २३८ ॥
1.7.238 · p. 159
अनुष्टुप्
मन्थदण्डोऽथ तद्रज्जौ नेत्रं क्लीबे ततः पुनः ।स्त्रियां भिः सान्नमन्धः षण् जीवनं स्यात्प्रसाधनम् ॥ २३९ ॥
1.7.239 · p. 159
अनुष्टुप्
कीलालमायुरशनमन्नाद्यं भोज्यमित्यपि ।वाजः परिस्रुतमपि दीदिविश्चास्त्रियां पुनः ॥ २४० ॥
1.7.240 · p. 159
अनुष्टुप्