कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnāvalī

शब्दरत्नावली Śabdaratnāvalī

4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)

नानार्थवर्गप्रकाशः · रेफान्ताः (2/2)

कर्णपूरः शिरीषे स्यान्नीलोत्पलावतंसयोः ।करवीरी श्रेष्ठगवीपुत्रवत्यादितिष्वपि ॥
7.27.121 · p. 275
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 त्प (wrong syllable); pāda 3, syllable 5 श्रे (wrong syllable)
कटम्भरा प्रसारण्यां रोहिणीगजकान्तयोः ।करवीरो दैत्यभेदे करवालाश्चमारयोः ॥
7.27.122 · p. 275
अनुष्टुप्
कादम्बरोऽस्त्री दध्यग्रे मद्यभेदे स्त्रियामपि ।कादम्बरी कोकिलायां भारतीसुरयोरपि ॥
7.27.123 · p. 275
अनुष्टुप्
कालञ्जरो योगिचक्रमेलकाद्रिशिवेषु च ।कृष्णसारो मृगस्नुह्योः शिंशपायामपि स्त्रियाम् ॥गिरिसारस्तु मलये लोहे बङ्गे च कीर्त्यते ।चराचरं भवेत्क्लीबं जगति त्रिषु जङ्गमे ॥चक्रधरो ग्रामजालिभुजङ्गमहरिष्वपि ।तोयधरो मेघमुस्तासुनिषम्रौषधीष्वपि ॥
7.27.124 · p. 275
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 ध (wrong syllable); pāda 3, syllable 3 ध (wrong syllable)
दण्डयात्रा दिग्विजये संयानवरयात्रयोः ।दण्डधारः शवपतौ यमे दण्डधरेऽपि च ॥
7.27.125 · p. 275
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दि (wrong syllable)
दिगम्बरः शिवे नग्ने क्षपणे च तमस्यपि ।दुरोदरो द्यूतभेदे द्यूतकारे पणेऽपि च ॥
7.27.126 · p. 275
अनुष्टुप्
देहयात्रा भोजने स्यात्कृतान्तगगनेऽपि च ।द्वैमातुरश्च हेरम्बे जरासन्धे नृपेऽपि च ॥
7.27.127 · p. 275
अनुष्टुप्
धाराधरो घने खड्गे धराधरोऽद्रिकृष्णयोः ।धाराङ्करस्तु नाशीरे शीकरे च घनोपले ॥
7.27.128 · p. 275
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ध (wrong syllable)
धार्तराष्ट्रो हंसभेदे कौरवे च भुजङ्गमे ।धुन्दुमार इन्द्रगोपे गृहधूमे पदालिके ॥
7.27.129 · p. 275
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 र (wrong syllable)
धृतराष्ट्रो नागभेदे सुनृपे क्षत्रभिद्यपि ।नभश्चरो विहङ्गे स्याद्धने विद्याधरेऽनिले ॥निशाचरे राक्षसे स्याच्शृगालपेचकाहिषु ।वनजेषु पशुष्वेवं कुलटायां विशाचरी ॥
7.27.130 · p. 275
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)
नीलाम्बरो रौहिणेये राक्षसे च शनैश्चरे ।परिकरः समारम्भे पर्यङ्कवृन्दयोरपि ॥
7.27.131 · p. 275
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 क (wrong syllable); pāda 4, syllable 3 ङ्क (wrong syllable)
प्रगाढगात्रबन्धे च विवेकपरिवारयोः ।अथ पक्षचरश्चन्द्रे पृथक्चारिणिवुञ्जरे ॥
7.27.132 · p. 275
अनुष्टुप्
प्रतिसरश्चमूपृष्ठे भेदे माल्ये च कङ्कणे ।मण्डले करसूत्रे च व्रणशुद्धिनियोज्ययोः ॥
7.27.133 · p. 276
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 स (wrong syllable)
भवेत्परिसरी मृत्युविधिपर्यन्तभूमिषु ।परम्परो मृगभिदि प्रपौत्रतनयेऽपि च ॥
7.27.134 · p. 276
अनुष्टुप्
परम्परा परिपाट्यां तथा सन्तानहिंसयोः ।पयोधरः कोषकारे नारिकेले घने स्तने ॥
7.27.135 · p. 276
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
प्रभाकरोऽनले सूर्ये शीतभावुसमुद्रयोः ।परिवारः परिजने खड्गकोषे परिच्छदे ॥
7.27.136 · p. 276
अनुष्टुप्
पात्रटीरो लोहकांस्ये जरत्पत्रे विभावसौ ।पिङ्गाशे वायसे कङ्के युक्तव्यापारमन्त्रिणि ॥
7.27.137 · p. 276
अनुष्टुप्
पारिभद्रो निम्बवृक्षमन्दारदेवदारुषु ।पीताम्बरः कैटभारौ शैलूषे वेशधारिणि ॥
7.27.138 · p. 276
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
पीतसारी मलयजे मणिगोमेदयोरपि ।बलभद्रो बले स्त्री तु कुमारी क्रयमानयोः ॥
7.27.139 · p. 276
अनुष्टुप्
वावकीरस्तु वेधिन्यां नीराजितहयेऽपि च ।वीरभद्रोऽश्वमेधीयघोटके वीरणार्ययोः ॥
7.27.140 · p. 276
अनुष्टुप्
विन्दुतन्त्रः शारिफले प्रशस्तनुरगेऽपि च ।महावीरः सिंहशूरयज्ञाग्निगरुडेषु च ॥
7.27.141 · p. 276
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 शा (wrong syllable)
सञ्चानपक्षिणि श्वेतघोटके च धनुर्द्धरे ।लक्ष्मीपुत्रः स्मरे चाश्वे स्यात्कुशे चैव लवेऽपि च ॥
7.27.142 · p. 276
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
व्यवहारः स्थितौ न्याये वृक्षभेदे पणेऽपि च ।भवेद्व्यतिकरो वृन्दे व्यसनव्यतिषङ्गयोः ॥
7.27.143 · p. 276
अनुष्टुप्
वातपुत्रो महाधूर्त्ते भीमसेने हनूमति ।विश्वम्भरो हरौ शक्ते पृथिव्यामपि च स्त्रियाम् ॥विश्वकद्रुः खले ध्वाने खेटकुक्कुरयोरपि ।विभावरी तु वक्रस्त्री कुट्टानी यामिनीषु च ॥विवादवस्त्रमुण्ड्याञ्च मौखर्यनिरतस्त्रियाम् ।शतपुत्रो मयूरे स्याद्धार्वाघाटे तु सारसे ॥
7.27.144 · p. 276
अनुष्टुप्
पुमांस्तु कमले क्लीबं पुष्पभेदेऽपि च स्त्रियाम् ।समुद्रारुः सेतुबन्धे ग्राहे तिमिङ्गिलेऽपि च ॥
7.27.145 · p. 276
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ति (wrong syllable)
स्थिरदंष्ट्रो भुजङ्गे स्यात्तथा चादिवराहके ।सूत्रधारः शिल्पिभेदे शके नान्द्यन्तचारिणि ॥
7.27.146 · p. 276
अनुष्टुप्
तमालपत्रं तापिञ्जे तिलके पत्रकेऽपि च ।तालीशपत्रं भूश्यामलकीतालीशयोरपि ॥
7.27.147 · p. 276
अनुष्टुप्
स्यात्पांशुचामरो दुर्वातटीभूर्य्याञ्चतेषु च ।धूलिगुच्छप्रशंसाङ्कपूरोटिषु च न स्त्रियाम् ॥
7.27.148 · p. 277
अनुष्टुप्
स्यात्पादचत्वरश्छागे सैकते पिप्पलेऽपि च ।करके दुष्टशीले च परदोषैकवक्तरि ॥
7.27.149 · p. 277
अनुष्टुप्
विप्रतीसारः कौकृत्येऽनुशमक्रोधयोरपि ।भवेत्समभिहारस्तु पौनःपुन्यभृशार्थयोः ॥
7.27.150 · p. 277
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रः (wrong syllable)
अथ स्यात्सर्वतोभद्रः काव्यचित्रे गृहान्तरे ।निम्बे ना नटनार्यान्तु गम्भार्यामपि च स्त्रियाम् ॥
7.27.151 · p. 277
अनुष्टुप्