All kośas › Śivakoṣa
शिवकोष Śivakoṣa
587 verses · 4,629 words tagged · 786 marked doubtful (dashed)
रान्ताः · रच
इन्दीवरं कुवलये वरीद्रोण्योस्तु योषिति ।उदुम्बरो हेमदुग्धे सर्वधातौ तु न द्वयोः ॥ ४१९ ॥
22.4.419 · p. 38
अनुष्टुप्
उपचित्रा सुतश्रेण्यां दाक्षायण्यां च योषिति ।कटम्भरो रलौ स्त्री तु सरणीमत्स्यपित्तयोः ॥ ४२० ॥
22.4.420 · p. 38
अनुष्टुप्
कलम्बिकायां गोलायां वर्षाभूमूर्वयोरपि ।कलिकारी विशल्यायां कलिकारः करञ्जके ॥ ४२१ ॥
22.4.421 · p. 38
अनुष्टुप्
कर्णिकारः परिव्याधः व्याधिघातगणे रुके ।कर्णपूरो वीतशोकनीलोत्पलकपीतने ॥ ४२२ ॥
22.4.422 · p. 38
अनुष्टुप्
कादम्बरी तु वारुण्यां क्लीबं दध्यग्रमद्ययोः ।कृष्णसारो बालपत्रे शिंशपायां तु योषिति ॥ ४२३ ॥
22.4.423 · p. 38
अनुष्टुप्
दीर्घनख्यां च भण्डीरे न क्लीबं वज्रकण्टके ।घनसारोऽप्सु कर्पूरे दक्षिणावर्तपारदे ॥ ४२४ ॥
22.4.424 · p. 38
अनुष्टुप्
तुण्डिकेरी पिचौ बिम्ब्यामपि तोयधरः पुमान् ।सुनिषण्णे च मुस्तायां दीर्घपत्रो मधूलके ॥ ४२६ ॥
22.4.426 · p. 39
अनुष्टुप्
वेल्लन्तरे च लसुने वर्षाभूदीर्घवृक्षयोः ।कुम्भयोनावभ्रपुष्पे पलाण्डौ गुरुवारुणि ॥ ४२६ ॥
22.4.426 · p. 39
अनुष्टुप्
पयोधरे नालिकेरे मुस्तायां च कसेरुणि ।पारिभद्रः पारिजाते तिक्तके देवदारुणि ॥ ४२७ ॥
22.4.427 · p. 39
अनुष्टुप्
प्लीहशत्रुः शरपुङ्खवनतिक्तकयोः पुमान् ।पीतदारुः पीतकाष्ठे पीतायां देवदारुणि ॥ ४२८ ॥
22.4.428 · p. 39
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
मणिछिद्रा तु मेदायां भेदेऽपि ऋषभेऽपि च ।रक्तसारस्तु पत्तङ्गे खदिरे रक्तचन्दने ॥ ४२९ ॥
22.4.429 · p. 39
अनुष्टुप्
वाजीकरी वाजिगन्धाविदार्यामलकीषु च ।शतपत्री भषे वर्यां शतपत्रं सरोरुहे ॥ ४३० ॥
22.4.430 · p. 39
अनुष्टुप्
शृङ्गवेरी दार्विपत्र्यां कटुकन्दे तु न द्वयोः ।स्मृतः सुरतरुर्देवदारुण्यपि विकङ्कते ॥ ४३१ ॥
22.4.431 · p. 39
अनुष्टुप्
सुकुमारा तु रम्भायां मनोज्ञायां शुकप्रिये ।पुंसि पुण्ड्याभिदानेक्षौ क्लीबं सीसकसिक्थयोः ॥ ४३२ ॥
22.4.432 · p. 39
अनुष्टुप्