कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

बकपुष्प

bakapuṣpaपुं · masc.

In 5 kośas: 2 synonym verses, 3 as a meaning of another word.

शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1803 · p. 219
शिवमल्ली काकनासा बकपुष्पः शिवप्रियः ।वसुहट्टोऽथ तगरो नन्द्यावर्तो नभोङ्गणः ॥ १८०३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.193 · p. 61
भुज उग्रविषः काकनासायां शिवमल्लिका ।बकपुष्पस्तूलपुष्पः काकशीर्षः शिवप्रियः ॥ १९३ ॥
अनुष्टुप्
genderपुंmasc.

बकपुष्प as a meaning in nānārtha verses

  • कोषकल्पतरु पाशुपतकुम्भिलकुमुदाकरयोर्घूके कथितो दिवाभीतः । पाशुपतो बकपुष्पे पशुपतिदैवे विशेष्यघ्नः ॥ ५७ ॥ Koṣakalpataru 6.17.57
  • शिवकोष भीमभीमः कुम्भोलुखलके बकपुष्पे च वेतसे । रामा श्यामा हिङ्गुनाड्योः क्लीबं वास्तूककुष्ठयोः ॥ ३३० ॥ Śivakoṣa 20.1.330
  • शब्दरत्नावली पाशुपतप्रतिकृतिः प्रतिनिधौ प्रतिकारार्चयोः स्त्रियाम् । बकपुष्पे पाशुपतः पशुपत्यधिदैवते । पारिजातः पारिभद्रद्रुये सुरतरावपि ॥ Śabdaratnāvalī 7.16.170