भुज
bhujaपुं · masc.In 21 kośas: 31 synonym verses, 6 as a nānārtha head word, 13 as a meaning of another word.
भुजो बाहुः प्रवेष्टो दोर्वाहाथ भुजकोटरः ।दोर्मूलं खण्डिकः कक्षा पार्श्वं स्यादेतयोरधः ॥ ५८९ ॥
अनुष्टुप्
genderपुंmasc.
भुजबाहू प्रवेष्टो दोः स्यात्कफोणिस्तु कूर्परः ।
अनुष्टुप्
genderपुंmasc.
दोः प्रवेष्टो भुजो बाहुर्भुजा च स्मर्यते बुधैः ।गण्डो गल्लः कपोलश्च हनुस्तुल्यार्थवाचकाः ॥ ५२२ ॥
अनुष्टुप्
genderपुंmasc.
कल्वः कल्वी वर्ष्मन् वर्ष्मं नाभिर्नाभी च दृश्यते ।चुचूकं चुचुकं मध्यं मध्यमं च भुजो भुजा ॥ १७९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)
genderपुंmasc.
भुज-दृष्टि-पाद-कर्ण-स्तनसंख्या रामलक्ष्मणौ शृङ्गम् ।गजदन्तौ प्रीति-रती गङ्गागौर्यौ विनायकस्कन्दौ ॥ ३ ॥
गीतिः
genderपुंmasc.
द्विनेत्रलोचनः पक्षादस्राक्षियमवाहवः ।यमलाश्विभुजापाणिकरयुग्मादयो मताः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
दोरस्त्रियां स्त्रियां दोषा भुजापि स्याद्भुजः पुमान् ।प्रवेष्टो नाकुलिर्बाहुर्बाहा बाहू स्त्रियां पुमान् ॥ १६९ ॥
अनुष्टुप्
genderपुंmasc.
त्रिपञ्चा एवमेकद्वाः षट्सप्ता अपि पञ्चषाः ।भूचन्द्रभुजनेत्राग्निगुणवेदयुगा अपि ॥ ४९५ ॥
अनुष्टुप्
genderपुंmasc.
भूर्जो वल्कद्रुमो भूतध्रुक् सुचर्मापि चित्रलः ।भूर्यरक्षाबिन्दुमृदुपर्यायेभ्यच्छरो भुजः ॥ २०७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 बि (wrong syllable)
genderपुंmasc.
वृश्चिकस्य चुलुकस्य स्याद्धुडुक्कतुरष्कयोः ।पिपीलकस्य शुङ्गौघलम्बानां भुजशाटयोः ॥ ११६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 लु (wrong syllable)
genderपुंस्त्रीm. f.
श्यामो भुजो दीपनोऽथ पाके पीलुकुणं भवेत् ।सोऽद्रिजोऽक्षोट आक्षोटः स्वादुमज्जा पृथुच्छदः ॥ ९५ ॥
अनुष्टुप्
genderपुंmasc.
स्कन्धो भुजशिरोंऽसोऽस्त्री संधी तस्यैव जत्रुणी ।वाहो बाहु - भुजे द्वंद्वे दोषा स्त्री दोस्तु तत्स्त्रियाम् ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
रज्जुः समासेऽथ खनौ च गञ्जालाजा बहुत्वे च भुजो वराटः ।रज्जौ च शस्त्रे च गृहे कुटः स्या-त्कुटिस्तुटिः स्याच्च सटा घटा च ॥ २० ॥
उपजातिः
genderपुंस्त्रीm. f.
कण्ठसञ्ज्ञाः स्तनसञ्ज्ञाः बाहुसञ्ज्ञाश्च पुंसि भवन्ति । अयं कण्ठः । गल इत्यादिः । स्तनसञ्ज्ञाश्च । अयं स्तनः कुचः पयोधर इत्यादिः । बाहुसञ्ज्ञाश्च भुजस्तरणः धरणः चालन इत्यादिः । कण्ठसञ्ज्ञत्वाद्ग्रीवाशब्दस्यापि पुंसि प्रयोगः प्राप्नोतीत्याह । स्त्रियां भवेद्ग्रीवा । ग्रीवाशब्दस्य स्त्रीलिङ्गता भवति । इयं ग्रीवा शिरोधरा कन्धरा इत्येवमादयः । पृष्ठादयः शब्दा नपुंसके स्युः । तद्यथा । इदं पृष्ठं पार्श्वयोर्यष्टिः । इदं ललाटं भ्रुवोरुपरिस्थानम् । इदमंसः[श] स्तनयोरुपरिस्थानम् । इदमुदरं जठरः । इदं जत्रु स्कन्धसम्बन्धि । इत्येवमादयः ।ऊर्म्मिध्वन्यञ्जलयः पुंस्योष्ठकपोलगुल्फसञ्ज्ञाश्च ।घञ्चैरच्च ऋदोरप्च स्याद्बहुलमन्धकारश्च ॥ १६ ॥
metre not recognised
genderपुंmasc.
दोर्दोषा च भुजो बाहुः पाणिर्हस्तः करस्तथा ।प्राहुर्बाहुशिरोऽंसश्च हस्तशाखा कराङ्गुलिः ॥ १०१ ॥
अनुष्टुप्
genderपुंmasc.
भीरुः पुंसीङ्गुदतरौ स्त्रियां चोर्वारुयोषितोः ।योषिद्भेदे परे त्रिस्तु कातरेऽथ भुजः पुमान् ॥ ९१० ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
वीतनौ कृकपार्श्वौ तु कृकः स्यात्कन्धरान्तरम् ।स्कन्धो भुजशिरोंऽसोऽथ दोः प्रवेष्टो भुजोऽपि च ॥ २५१ ॥
अनुष्टुप्
genderपुंmasc.
हुडुक्कः चुलुकश्चर्मप्रसेवकफणावपि ।मल्लकः सल्लको लञ्चभुजतिन्दुककूपकाः ॥ ११० ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
हस्तः करः शयः पाणिर्बाहुः पञ्चशिफो भुजः ।अङ्गुष्ठोऽङ्गुलिभूपालः तर्जन्याद्या प्रदेशिनी ॥ ९१ ॥
अनुष्टुप्
genderपुंmasc.
जिह्वा रसज्ञा रसना कण्ठो निगरणो गलः ।अंशः स्कन्धो भुजशिरो बाहुर्बाहा च दोर्भुजः ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
द्वयोर्बाहुभुजौ दोषा प्रवेष्टो दोश्च वाहवत् ।द्वयोः कफोणिः कफणिः कपोणिः कूर्परोऽपि च ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
सन्धौ तु जत्रु षण्ढे स्यात् तकार-रेफयोगवत् ।प्रवेष्टो दोर्दोषा बाहुर्बाहा बाहो भुजो भुजा ॥ १६७ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable); pāda 3, syllable 5 र्दो (wrong syllable)
genderपुंmasc.
बीजके त्वासनः प्रोक्ताऽसनोऽशनवदाशनः ।पाटला पाटलिः स्त्रीन्रोर्बहुत्वके भवेद्भुजः ॥ १६८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्व (wrong syllable)
genderपुंmasc.
गतिर्भुजो भुजंगस्य भोगस्तु फणकाययोः ।त्रिष्वाहेयं त्वगस्थ्यादि व्यालग्राह्यहितुण्डिकः ॥ ३१० ॥
अनुष्टुप्
genderपुंmasc.
स्कन्धोंऽसोऽस्त्री तयोः सन्धिर्जत्रुणी दोर्नपुंसके ।भुजबाहू द्वयोर्मूले तयोः कक्षौ तयोरधः ॥ १०७० ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
जूटो वराटः कर्कन्धूः शाल्मलिर्बलिडाडिमौ ।मृत्युः कुम्भो भुजो बाहुर्ज्वालः कीलोऽशनिः फणः ॥ २३२६ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
गण्डूषगर्जजागर-भुजकीलज्वालवर्तकव्रीडाः ।उत्कण्ठशटवराटक-रभसाः स्त्रीत्वे तु टाबन्ताः ॥ १७ ॥
आर्या
genderपुंस्त्रीm. f.
भूर्जपत्रे भुजो भूर्जो मृदुत्वक् चर्मिचर्मिकौ ।पीलौ गुडफलः स्रंसी श्यामश्चाथात्र शैलजे ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
भुज उग्रविषः काकनासायां शिवमल्लिका ।बकपुष्पस्तूलपुष्पः काकशीर्षः शिवप्रियः ॥ १९३ ॥
अनुष्टुप्
genderपुंmasc.
स्कन्धो दोः शिखरोंऽसोऽस्त्री बाहा बाहुभुजौ न षण् ।दोर्न स्त्री करपोणिर्ना हरणः करणः प्लवः ॥ ७१ ॥
अनुष्टुप्
genderपुंmasc.
भूर्जसंज्ञद्रुमे नृस्त्री बाहौ भूमानगोचरे ।पदार्थभेदे च भुरिक् पुनः स्त्री बाहुकन्दयोः ॥ ९११ ॥
अनुष्टुप्
doubtful
भुज as a meaning in nānārtha verses
- धरणिकोश शाखाशाखा भुजे पादपाङ्गे शाखा पक्षान्तरेऽपि च । शाखा वेदपरिच्छेदे ग्रन्थभेदे च दृश्यते ॥ Dharaṇikośa 2.3.1
- कोषकल्पतरु शाखाशिखा सखा मित्रसहाययोः स्या- च्छाखा तु वेदाङ्गभुजान्तिकेषु । वृक्षाङ्गपक्षान्तरसंनिकर्ष- रक्तादिधातुष्वपि किञ्च शाखः ॥ ८० ॥ Koṣakalpataru 6.2.80
- कोषकल्पतरु हरणयाम्यायां दिशि यज्ञदानविधिषु स्त्री तत्प्रतिष्ठास्वथ स्निग्धाकर्कशयोस्त्रये च मसृणोऽथ स्यात्क्षुमायां स्त्रियाम् । पुंसि द्वावुषणोषणौ रसभिदि स्त्रीत्वे कणायामिमौ क्लीबे स्तो मरिचेऽथ पुंसि धिषणो वाचस्पतौ स्त्री धियि । रतपरिभवयोः स्याद्धर्षणं स्त्रीत्वसत्यां नयनरुजि यमे स्याद्धर्षणो योगभेदे । हरणमपि विवाहस्वे भुजे स्याद्धृतौ च श्रवणमपि हृतस्त्रि श्रोत्रतत्कर्मणोश्च ॥ २६ ॥ Koṣakalpataru 6.15.26
- कोषकल्पतरु दोषादोषा तु रात्रौ च भुजे स्त्रियां स्या- द्रात्र्यर्थिका स्यादियमव्ययं च । कोषः पुमान्स्याच्चषके स्त्रियां तु स्याद्दीपपात्रेऽपि च जातिकोषे । न स्त्री च भाण्डालयकुड्मलार्थ- समूहपेशीपदसंग्रहेषु । लिङ्गत्रये खड्गपिधानवाची तादृग्विधः स्यादपि शिम्बिकार्थः ॥ ४० ॥ Koṣakalpataru 6.30.40
- कोषकल्पतरु प्रग्रहना खड्गकोशे कलहोऽपि राटौ युद्धे तथा भण्डनवाचकश्च । स्यात्प्रग्रहोऽश्वादिकरज्जुरश्मि- भुजेषु वन्द्यां नियमे हरिद्रौ ॥ ४५ ॥ Koṣakalpataru 6.32.45
- नानार्थार्णवसंक्षेप बाहुबाहुः पुरुषभेदे ना क्वचिंन्नृस्त्री पुनर्भुजे । प्रमाणभेदे षट्त्रिंशदङ्गुलेऽप्यब्रवीन्मुनिः ॥ ८५८ ॥ Nānārthārṇavasaṃkṣepa 2.5.858
- नानार्थार्णवसंक्षेप प्रवेष्टरक्तस्रुत्यात्मके दीर्णौ प्रपञ्चस्तु विपर्यये । विस्तारे सञ्चये च स्यात् प्रवेष्टस्तु भुजे भवेत् ॥ १३७ ॥ Nānārthārṇavasaṃkṣepa 3.2.137
- नानार्थार्णवसंक्षेप हरणगणितज्ञप्रसिद्धे च सङ्ख्यायास्ताडने तथा । भुजे क्लीबं तु हसितं हासे हासान्तरे तथा ॥ २०२६ ॥ Nānārthārṇavasaṃkṣepa 4.2026
- नानार्थार्णवसंक्षेप अघ्नपानअघ्नपानस्तु पुंसि स्यादृषिभेदेऽस्त्रियां भुजे । अविसोढं त्ववेर्दुग्धे क्ली विसोढात् परे त्रिषु ॥ ५३ ॥ Nānārthārṇavasaṃkṣepa 6.53
- परमानन्दीयनाममाला हस्तहंसो धर्मे रवौ राज्ञि विष्णुजीवसितेषु च । खगान्तरेऽथ हस्तस्तु भुजे माने कचोचये ॥ ३७५ ॥ Paramānandīyanāmamālā 5.28.375
- शब्दरत्नावली हरणहरणुर्ना सतीले स्त्री रेणुकायां कुलस्त्रियाम् । हरणं यौतुकद्रव्ये भुजे च हरणेऽपि च ॥ Śabdaratnāvalī 7.15.69
- शब्दरत्नावली दोषादोषा भुजे रजन्याञ्च दोषो दूषणपापयोः । ध्याङ्क्षो भिक्षुकमत्स्याशिपक्षिणोः काककर्कयोः ॥ ध्याङ्क्षी कक्कोलिकायान्तु पिशाचीराक्षसीभिदोः । न्यक्षं साकल्यतृणयोर्महिषे नाऽधमे त्रिषु ॥ Śabdaratnāvalī 7.31.9
- शब्दरत्नावली वाहवाहो द्वयोर्भुजे पुंसि मानभेदे हये वृषे ॥ Śabdaratnāvalī 7.33.11