All kośas › Śivakoṣa
शिवकोष Śivakoṣa
587 verses · 4,629 words tagged · 786 marked doubtful (dashed)
मान्ताः · मद्विः
इति भान्ताः ।
अतसीनीलयोः क्षेमश्चण्डाचोरकयोर्द्वयोः ।ध्यामो दमनके गन्धतृणे पद्मः पलङ्कषे ॥ ३२८ ॥
20.1.328 · p. 30
अनुष्टुप्
पद्माऽव्यथाफञ्जिकयोः पद्मो स्त्री पद्मकेऽम्बुजे ।ब्राह्मी तु फञ्जिकासोमवल्लरीशाकभित्सु च ॥ ३२९ ॥
20.1.329 · p. 30
अनुष्टुप्
भीमः कुम्भोलुखलके बकपुष्पे च वेतसे ।रामा श्यामा हिङ्गुनाड्योः क्लीबं वास्तूककुष्ठयोः ॥ ३३० ॥
20.1.330 · p. 30
अनुष्टुप्
रामः पुमान् कर्णपूरे रुक्मं काञ्चनलोहयोः ।लक्ष्मीः सक्तुफलापद्मावृद्धिऋद्धिप्रियङ्गुषु ॥ ३३१ ॥
20.1.331 · p. 30
अनुष्टुप्
शमी सक्तुफलायां स्याच्छिम्बायां गुग्गुलावपि ।श्यामा प्रियङ्गुसरलागोपीगुन्द्राहरिद्रासु ॥ ३३२ ॥
20.1.332 · p. 30
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 द्रा (wrong syllable)
नीलीचपलासोमे श्यामोऽब्दे वृद्धदारके खदिरे ।श्यामं तु काललवणे मारीचे भूस्तृणे कुम्भे ॥ ३३३ ॥
20.1.333 · p. 30
आर्या