कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnākara

शब्दरत्नाकर Śabdaratnākara

2,335 verses · 19,015 words tagged · 2,063 marked doubtful (dashed)

तृतीयः काण्डः · उक्तशेषाध्यायः

इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे संकीर्णाध्यायश्चतुर्विशः ॥

उक्तशेषाध्यायः

पूर्वाध्यायेषु यः शेषोऽभिहितेषु स उच्यते ।अन्येषु नामशास्त्रेषु प्रयोगानुपलक्ष्य हि ॥ १७४३ ॥
3.8.1743 · p. 211
अनुष्टुप्
विश्वात्मा प्राणदः शंभुर्द्रुहिणश्च सनातनः ।मुञ्जकेशो मुररिपुः पुराणपुरुषोऽजितः ॥ १७४४ ॥
3.8.1744 · p. 211
अनुष्टुप्
अग्निदः पूर्वगीर्वेदः स्यादकृत्रिमगीरपि ।शक्तिः श्रीः शूर्पकारातिरिक्षुधन्वा च हृच्छयः ॥ १७४५ ॥
3.8.1745 · p. 211
अनुष्टुप्
जलंधररिपुर्देवो डिण्डीशः पांसुचन्दनः ।खट्वाङ्गी पश्यदलिकः पाण्डुराङ्गो भगाक्षिहृत् ॥ १७४६ ॥
3.8.1746 · p. 211
अनुष्टुप्
चण्डमुण्डा तु चामुण्डा कर्णमोटी कपालिनी ।चर्चिका चर्ममुण्डाथ वाराही पञ्चमी समे ॥ १७४७ ॥
3.8.1747 · p. 211
अनुष्टुप्
विनायकस्तु बुद्धः स्यादृषिर्हंसस्त्रिकालदृक् ।गौरेयो बर्हवासाः स्यान्मघवानहिशासनः ॥ १७४८ ॥
3.8.1748 · p. 211
अनुष्टुप्
भूरिश्रवाश्चित्ररथी वृषणाश्वस्तदर्वति ।सूर्यभ्राता सुरगजो व्याधामः शतधारकम् ॥ १७४९ ॥
3.8.1749 · p. 212
अनुष्टुप्
बहुलोऽग्निर्वसुर्ज्योतिर्जठराग्निस्तु हृच्छयः ।झलका तु महाज्वाला समुद्राग्निरबिन्धनः ॥ १७५० ॥
3.8.1750 · p. 212
अनुष्टुप्
धर्मः प्रजान्तको दण्डी जीवितेशो महाभिषक् ।नरकाः शल्मली पूतिर्मृत्तिकः संप्रतापनः ॥ १७५१ ॥
3.8.1751 · p. 212
अनुष्टुप्
असिपत्रवनाद्याश्च नरकाः प्रायशो नरि ।रक्तग्राहा निशिचरा विधुराः कीकसात्मजाः ॥ १७५२ ॥
3.8.1752 · p. 212
अनुष्टुप्
प्रत्यगाशापतिस्त्वम्बुकान्तारो जलदैवतम् ।नभःप्रवहणो वायुर्नभोजन्मा महाबलः ॥ १७५३ ॥
3.8.1753 · p. 212
अनुष्टुप्
झञ्झावातः सवृष्टिः स्याद्यौतिकः स्वेदचूषकः ।सितोदरो रत्नहस्तो धनी कैलासनायकः ॥ १७५४ ॥
3.8.1754 · p. 212
अनुष्टुप्
अव्यये तु द्यु नक्षत्रपथः सुरपथश्च सः ।दिनप्रणीर्दृगध्यक्षो हरिच्छन्दस्तुरंगमः ॥ १७५५ ॥
3.8.1755 · p. 212
अनुष्टुप्
क्षपाकरः सुधासूतिर्निशाकेतुः पुनर्युवा ।समुद्रनवनीतं च भौमे प्रव्यालकर्षकौ ॥ १७५६ ॥
3.8.1756 · p. 212
अनुष्टुप्
दीदिविर्देवमन्त्री स्यात्तिर्यग्गामी तु भार्गवः ।शनिः स्थिरगतिः कोणो मार्ताण्डिर्युगवर्तकः ॥ १७५७ ॥
3.8.1757 · p. 212
अनुष्टुप्
राहुस्तु ग्रहकल्लोलः केतवः शिखिनः समाः ।समे नक्षत्रधिष्ण्ये द्वे दाक्षायण्योऽश्विनीमुखाः ॥ १७५८ ॥
3.8.1758 · p. 213
अनुष्टुप्
जाया त्वसिक्नी दक्षस्य दाक्षायण्योऽस्य कन्यकाः ।कृष्णद्वैपायनः कृष्णो व्यासः सत्यवतीसुतः ॥ १७५९ ॥
3.8.1759 · p. 213
अनुष्टुप्
स्याद्बादरायणिः पाराशर्योऽस्य तनयः शुकः ।वातापिदमनोऽगस्त्यो ध्रुव उत्तानपादजः ॥ १७६० ॥
3.8.1760 · p. 213
अनुष्टुप्
कण्वकौण्डिन्यशाण्डिल्यमौद्गल्यात्रेयभार्गवाः ।काश्यपाङ्गिरसौर्वाजगार्ग्यहारीतगौतमाः ॥ १७६१ ॥
3.8.1761 · p. 213
अनुष्टुप्
वासिष्ठशाठमर्षणवाधूलागस्त्यदैवलाः ।कौत्सार्ष्टिषेणवात्सारवैश्वामित्राघमर्षणाः ॥ १७६२ ॥
3.8.1762 · p. 213
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 र्ष (wrong syllable)
अमी तु कण्वमुख्यानां गोत्रापत्यार्थवाचिनः ।दिवोदासः परुच्छेपी नोधा मेधातिथीश्वरौ ॥ १७६३ ॥
3.8.1763 · p. 213
अनुष्टुप्
सत्यश्रवाः सप्तवध्रिः प्रियमेधः प्रतर्दनः ।श्येनो मेध्यातिथिः शंयुः प्रगाथः शकटायनः ॥ १७६४ ॥
3.8.1764 · p. 213
अनुष्टुप्
ब्रह्मातिथिर्वीतहव्य [ॠष्यशृङ्गो] वृषाकपिः ।नभःप्रभेदनो बभ्रुर्मूर्धन्वान् कवषः प्रथः ॥ १७६५ ॥
3.8.1765 · p. 213
अनुष्टुप्
देवातिथिर्हरिमन्तस्त्रसदस्युः शिरिम्बिठः ।द्युताननाभनेदिष्ठौ रक्षोहा यक्ष्मनाशनः ॥ १७६६ ॥
3.8.1766 · p. 213
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
हिरण्यगर्भो वत्सप्रिरूर्ध्वसद्मा बृहन्मतिः ।ऊर्ध्वग्रावा हविर्धानः सप्तिरूर्ध्वन[ना]भाः कतः ॥ १७६७ ॥
3.8.1767 · p. 214
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
द्युम्नीको व्याघ्रपाद्द्रोणस्तपुर्मूर्धा करिक्रतः ।उरुचक्रिः कुरुसुतिर्विप्रजूतिरिरिम्बिठिः ॥ १७६८ ॥
3.8.1768 · p. 214
अनुष्टुप्
वरतन्तुर्विप्रबन्धुर्ध्रुवः कुल्मलबर्हिषः ।जरत्कर्णो [जा]मदग्निः प्रस्कण्वः पावको भृगुः ॥ १७६९ ॥
3.8.1769 · p. 214
अनुष्टुप्
विश्वावसुः सत्यधृतिः शैरीषिस्त्रिशिरा उलः ।ऋषभः सौ[भ]रिर्विश्वमना---आर्थव[णः]--- ॥ १७७० ॥
3.8.1770 · p. 214
अनुष्टुप्metre not read in every line
---[अभि]तपा यज्ञो वातजूतिः सदापृणः ।नारायणः [शि]खण्डिन्यौ पूरुः कुत्सो बृहद्दि[वः] ॥ १७७१ ॥
3.8.1771 · p. 214
अनुष्टुप्metre not read in every line
दृव्व्हच्युतोऽध्रीगुर्विष्णुरग्नियूप उरुक्षयः ।सिन्धुक्षिदनिलो बि[भ्राट्] कृष्णो बिन्दुरनानतः ॥ १७७२ ॥
3.8.1772 · p. 214
अनुष्टुप्
अमहीयुर्दीर्घतमा मारीचांहोमुचौ लुशः ।मन्युदेवापिकर्णश्रुद्वरुणा मथितः सुदाः ॥ १७७३ ॥
3.8.1773 · p. 214
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्दी (wrong syllable)
कक्षीवन्मुष्कव[च्चक्षु]र्विश्वकर्मदुवस्यवः ।सोमाहुतिश्चित्रमहा वसुकृद्धरुणो द्वितः ॥ १७७४ ॥
3.8.1774 · p. 215
अनुष्टुप्
वव्री[र्वसु]श्रुतो मित्रो विश्वसामा सुतंभरः ।माध्यंदिनिः सारिसृक्को विश्वको विश्वचर्षणिः ॥ १७७५ ॥
3.8.1775 · p. 215
अनुष्टुप्
विवस्वान् सप्तगुः केतुः गोषूक्तयङ्गावुपस्तुतः ।अर्चनाना पूतदक्ष एकद्यूश्च महर्षयः ॥ १७७६ ॥
3.8.1776 · p. 215
metre not recognisednearly अनुष्टुप्
सत्त्वं राजस्तमोऽस्पृष्टं मनः करणमिन्द्रियम् ।ज्ञाने तु वित्तिः संवित्तिः प्रतिभा ज्ञानगौरवम् ॥ १७७७ ॥
3.8.1777 · p. 215
अनुष्टुप्
शिल्पज्ञाने तु विज्ञानं चित्ताभोगो मनस्क्रिया ।मिथ्यादृष्टिस्तु नास्तिक्यं विवेकः पृथगात्मता ॥ १७७८ ॥
3.8.1778 · p. 215
अनुष्टुप्
स्यात् पृथग्दृष्टिरध्यात्मज्ञानं ध्यानं तु चिन्तनम् ।क्लेशोऽविद्यास्मितादिः स्याद्विपाको भवितव्यता ॥ १७७९ ॥
3.8.1779 · p. 215
अनुष्टुप्
प्रत्यापत्तिः पुनः प्राप्तिर्ज्ञात्वारम्भ उपक्रमः ।बडबास्यं तु पातालं सरन्ध्रे सुषिरं त्रिषु ॥ १७८० ॥
3.8.1780 · p. 215
अनुष्टुप्
तमिस्रे तु तमिस्रा स्त्री नागी तु स्थूलपन्नगी ।दर्वी फणं गरः क्ष्वेलः स्यात्तु काकोदरोरगी ॥ १७८१ ॥
3.8.1781 · p. 216
अनुष्टुप्
काकोदरी भुजङ्गी च व्याली विषधरापि च ।कथाप्रसङ्गस्तु विषवैद्ये स्यात्तन्त्रमौषधम् ॥ १७८२ ॥
3.8.1782 · p. 216
अनुष्टुप्
नदराजः सिन्धुराजो यादोनाथ इरा जलम् ।विषं च कर्षूः कुल्यायां जलशूकस्तु शैवलम् ॥ १७८३ ॥
3.8.1783 · p. 216
अनुष्टुप्
समुद्रकूले मर्यादा स्यात् प्लवे तल्पमद्य(द्व?)योः ।सारणस्त्वल्पकुल्यायां जलयादो जलद्विपः ॥ १७८४ ॥
3.8.1784 · p. 216
अनुष्टुप्
कुम्भिनी रत्नगर्भाब्धिनेमिरम्बुधिमेखला ।कृष्णमृत्कृष्णभूमः स्यात् पाण्डुभूमस्तु पाण्डुमृत् ॥ १७८५ ॥
3.8.1785 · p. 216
अनुष्टुप्
रोदस्तु रोदसी गञ्जा रुमा विश्वं जगत्समेद्रोणिस्तु शिलयोः संधी रोहणो रत्नभूधरः ।दन्तकास्तु बहिस्तिर्यक्पाषाणाः पतिता गिरेः ॥ १७८६ ॥
3.8.1786 · p. 216
अनुष्टुप्
बोधिद्रुमे तु श्रीवृक्षः पलाशः स्यात्त्रिपर्णकः ।समानौ बिल्वमङ्गल्यौ मातुलुङ्गे तु लुङ्गकः ॥ १७८७ ॥
3.8.1787 · p. 216
अनुष्टुप्
देविकायां महाशुक्ला दूष्याङ्गी मधुकुक्कुटी ।नारङ्गे तु त्वङ्ग(क्सु?)गन्ध एलकं च वराम्लकः ॥ १७८८ ॥
3.8.1788 · p. 216
अनुष्टुप्
रोहितो रोहिषो रोही रक्तो रोहितकोऽपि च ।बाणोऽर्जुने प्रियाले तु प्रियकश्च मधुस्रवः ॥ १७८९ ॥
3.8.1789 · p. 217
अनुष्टुप्
मदने वामनेक्ष्वाकुविषपुष्पफणीरसाः ।कण्टकी गरलः प्लक्षे कपिला गिरिलक्षणा ॥ १७९० ॥
3.8.1790 · p. 217
अनुष्टुप्
गुग्गुलुः कालनिर्यासो देवधूपो महेश्वरः ।श्रीमान् स्निग्धः सर्वसहः श्लेषी कामो हरप्रियः ॥ १७९१ ॥
3.8.1791 · p. 217
अनुष्टुप्
जटायुरथ भावज्ञा बला वृन्ताथ भूर्जके ।चर्मी च भूर्जपत्रश्च धूर्तो मदनदुर्द्धुरौ ॥ १७९२ ॥
3.8.1792 · p. 217
अनुष्टुप्
पुलकप्रावृषेण्यौ तु कदम्बः प्रियकश्च सः ।पूगावली तु कुहली बदरी तु तिरीटिका ॥ १७९३ ॥
3.8.1793 · p. 217
अनुष्टुप्
करमर्दो वशश्चोलः कृष्णपाकफलैः पदैः ।व्यस्तैः समस्तैर्धूमैश्च पुंसि पञ्चदशाभिधाः ॥ १७९४ ॥
3.8.1794 · p. 217
अनुष्टुप्
हरणः शीतलः कान्तः कमनीयश्च चम्पके ।चण्डालस्तु कुबेराक्षी कृष्णवृन्ता फलेरुहा ॥ १७९५ ॥
3.8.1795 · p. 217
अनुष्टुप्
स्याच्छाल्मली तूलफला शबरी श्लक्षणपत्रिका ।कार्पासस्तु पिचव्यः स्याद् भारद्वाजस्तु कुष्ठनुत् ॥ १७९६ ॥
3.8.1796 · p. 218
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 शब (syllable split)
भाग्यं विषघ्नी कुष्ठाख्या पद्मा च ब्रह्मदण्डिका ।दण्डोत्पले सहा देवा तलप्रोटे प्रमेहनुत् ॥ १७९७ ॥
3.8.1797 · p. 218
अनुष्टुप्
मुण्ड्यां तु मुण्डिता मुण्डा श्रमणिः श्रमणी बुधा ।अस्थिमांसोऽस्थिसंघातोऽप्यस्थिसंनहनोऽपि सः ॥ १७९८ ॥
3.8.1798 · p. 218
अनुष्टुप्
सुदर्शनायां चक्राङ्गी दध्याली वृषपर्ण्यपि ।कलम्ब्यां शतपर्वा स्यात् कलम्बूर्वायसी वसा ॥ १७९९ ॥
3.8.1799 · p. 218
अनुष्टुप्
निद्रालुस्तु शिवः शान्तः स्वस्तिकस्तु निषण्णकः ।अगस्त्यः शुकनासोऽथ महेन्द्री तु बृहत्फला ॥ १८०० ॥
3.8.1800 · p. 218
अनुष्टुप्
सुगन्ध्यल्पफला मोचा साष्ठी काष्ठी कदल्यपि ।आमलक्यां षडस्रा स्याच्छुक्लपुष्पा हरीतकी ॥ १८०१ ॥
3.8.1801 · p. 218
अनुष्टुप्
मुद्गरो मदयन्ती च गवाक्षी मुक्तबन्धना ।मल्लिकायां वरारोहा गोधामल्ल्यां तु सेवनी ॥ १८०२ ॥
3.8.1802 · p. 218
अनुष्टुप्
शिवमल्ली काकनासा बकपुष्पः शिवप्रियः ।वसुहट्टोऽथ तगरो नन्द्यावर्तो नभोङ्गणः ॥ १८०३ ॥
3.8.1803 · p. 219
अनुष्टुप्
श्वापदा हिंस्रपशवः सिंहः पारीन्द्र इत्यपि ।व्याघ्रो वरोत्कटस्तुल्यौ वराहस्तु बहुव्रजः ॥ १८०४ ॥
3.8.1804 · p. 219
अनुष्टुप्
वृकधूर्तस्तु भल्लूको भल्लाटो दीर्घरोमकः ।अथ खड्गी गणोत्साहो महिषस्तु रजस्वलः ॥ १८०५ ॥
3.8.1805 · p. 219
अनुष्टुप्
हेरम्बः कृष्णशृङ्गश्च मृगस्तु वलनो लिगुः ।वारणः पेचकी कुम्भी मदवाही महामृगः ॥ १८०६ ॥
3.8.1806 · p. 219
अनुष्टुप्
भद्रा मन्दा मृगाश्चेति त्रिविधा गजजातयः ।अर्वती च प्रसूस्तुल्ये रक्तदृष्टिस्तु कोकिलः ॥ १८०७ ॥
3.8.1807 · p. 219
अनुष्टुप्
कालज्ञः कृकवाकुः स्याच्चिरजीवी तु वायसः ।निशाटनी मातृवाहा मुखविष्ठाजिनच्छदा ॥ १८०८ ॥
3.8.1808 · p. 219
अनुष्टुप्
शारिकायां तु गौराङ्गी शलभी कलहाकुला ।विनीताङ्गो दीर्घगलः प्रचलाकी तु चन्द्रकी ॥ १८०९ ॥
3.8.1809 · p. 219
अनुष्टुप्
कपिञ्जलो वञ्जुलः स्यात् पिङ्गला ऋषिरित्यपि ।स्यात् साकेतमयोध्यायां काशी वाराणसी समे ॥ १८१० ॥
3.8.1810 · p. 219
अनुष्टुप्
स्याद्द्वारका द्वारवती कान्यकुब्जं महोदयः ।महोदयं कन्यकुब्जं माहिष्मत्यां वृकस्थली ॥ १८११ ॥
3.8.1811 · p. 220
अनुष्टुप्
देवकोटिः कोटिवर्षं काकन्दी वारणावतम् ।अवन्ती स्यात्तक्षशिला स्यात्तु केशं कुशस्थलम् ॥ १८१२ ॥
3.8.1812 · p. 220
अनुष्टुप्
स्थानीयं तु महाग्रामे ग्रामार्धे खेटमस्त्रियाम् ।ब्रह्मस्थली वास्तुमध्यं संदंशो वास्तुकोणभूः ॥ १८१३ ॥
3.8.1813 · p. 220
अनुष्टुप्
प्रान्तरं ग्रामयोर्मध्यं ग्रामसीमोपशल्यकम् ।घण्टापथः संसरणं समे वयुनवर्त्मनी ॥ १८१४ ॥
3.8.1814 · p. 220
अनुष्टुप्
उपरथ्या दर्शनी स्याद् घण्टामार्गे तु निष्करः ।समानौ दुर्गकोटौ द्वाविन्द्रकोशे मतङ्गकः ॥ १८१५ ॥
3.8.1815 · p. 220
अनुष्टुप्
मालिका स्त्री वेश्मभेदे निर्यूहे मत्तवारणम् ।वीणा घोषवती सा तु गणेशस्य प्रभावती ॥ १८१६ ॥
3.8.1816 · p. 220
अनुष्टुप्
विश्ववसोस्तु बृहती तुम्बुरोस्तु कलावती ।महती नारदस्य स्यात् सरस्वत्यास्तु कच्छपी ॥ १८१७ ॥
3.8.1817 · p. 220
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
स्युर्नाटकं प्रकरणं भाणः प्रहसनं डिमः ।व्यायोगः समवाकारौ वीथ्यङ्केहामृगा इति ॥ १८१८ ॥
3.8.1818 · p. 220
अनुष्टुप्
रूपकाणि दशैतानि वंशो वंश्यथ खुङ्कणी ।किंनरी काण्डवीणा च कुवीणा सारिका च सा ॥ १८१९ ॥
3.8.1819 · p. 221
अनुष्टुप्
चण्डालिका तु कण्डोलवीणा चण्डालवल्लकी ।भारती सात्त्वती चैव कैशिक्यारभटीत्यमूः ॥ १८२० ॥
3.8.1820 · p. 221
अनुष्टुप्
चतस्रो वृत्तयो नान्दीकरा नान्द्याश्च पाठकाः ।रसवागङ्गभावाद्यैः शास्त्रोक्तैः रूपकाश्रयम् ॥ १८२१ ॥
3.8.1821 · p. 221
अनुष्टुप्
नृत्तमाभ्यन्तरं नाम कालिका तु विवर्णिका ।रोमाञ्च उल्लूकसनं वीक्षणं तु निभालनम् ॥ १८२२ ॥
3.8.1822 · p. 221
अनुष्टुप्
स्याददृष्टिरसौम्येऽक्ष्णि पार्श्वेक्षा तु प्रलोकितम् ।उल्लोकनं तूपरिष्टात् पृष्ठतस्त्ववलोकनम् ॥ १८२३ ॥
3.8.1823 · p. 221
अनुष्टुप्
उन्मीलनं स्यादुन्मेषो निमेषस्तु निमीलनम् ।भ्रूकुटिर्भ्रुकुटिः सारी रेचितं त्वल्प(त्वेक?)या भ्रुवा ॥ १८२४ ॥
3.8.1824 · p. 221
अनुष्टुप्
निकुञ्चितशिरोग्रीवमट्टहासो महाहसः ।सोत्प्रासमाच्छुरितकं प्रलयोऽस्पन्दनस्थितिः ॥ १८२५ ॥
3.8.1825 · p. 221
अनुष्टुप्
जञ्जमा मुखभेदे स्यात् तालिका तु वितालिका ।जयादञ्जमुभे स्यातामव्यये मोहनं रतम् ॥ १८२६ ॥
3.8.1826 · p. 221
अनुष्टुप्
विवाहो नन्दनो वप्ता पतिः स्त्री संततिः सुतः ।कटीरः कटिरारोहः श्रोणिरासा तु सीवनी ॥ १८२७ ॥
3.8.1827 · p. 222
अनुष्टुप्
वक्षोरुहावुरसिजौ भगस्मरगृहे समे ।समौ करङ्ककङ्कालौ पृष्ठग्रन्थौ गडुः पुमान् ॥ १८२८ ॥
3.8.1828 · p. 222
अनुष्टुप्
ध्वजे नालं च मेढ्रं स्यात् कुरलाश्चूर्णकुन्तलाः ।पर्यस्तिका तु पर्यङ्के तस्मिन्नेवावसक्थिका ॥ १८२९ ॥
3.8.1829 · p. 222
अनुष्टुप्
गौणिका स्यात् पुटकुटी तस्यां गुणलयिन्यपि ।स्याद्वेत्रासनमासन्दी गृहस्थो गृहमेधिनि ।मारिः स्त्री मारको रोगः केशघ्नस्त्विन्द्रलुप्तकः ॥ १८३० ॥
3.8.1830 · p. 222
अनुष्टुप्
मीमांसको जैमिनेयो वेदान्ती ब्रह्मवादिनि ।वैशेषिकः स्यादौलूक्यः सौगतः शून्यवादिनि ॥ १८३१ ॥
3.8.1831 · p. 222
अनुष्टुप्
नैयायिकस्त्वाक्षपादो बार्हस्पत्यस्तु नास्तिकः ।पारिषद्याः पार्षदाः स्युः सभ्या याज्ञात्ववायसी ॥ १८३२ ॥
3.8.1832 · p. 222
अनुष्टुप्
स्यात् पारिरक्षिको भिक्षुरभ्युत्थानं तु गौरवम् ।पञ्चार्थिकः पाशुपतो वैष्णवः पाञ्चरात्रिकः ॥ १८३३ ॥
3.8.1833 · p. 223
अनुष्टुप्
कौलस्त्वान्वयिको योगी कापालिकमहाव्रतौ ।सत्यव्रतो हरिश्चन्द्रः ककुत्स्थस्तु पुरंजयः ॥ १८३४ ॥
3.8.1834 · p. 223
अनुष्टुप्
अर्जुनः कार्तवीर्यः स्यात् पृथुर्वैन्य उभौ समौ ।निषधस्तु नलोऽथ स्याज्जनको मिथिलाधिपः ॥ १८३५ ॥
3.8.1835 · p. 223
अनुष्टुप्
हनूमानाञ्जनेयश्च हनुमान्मारुतात्मजः ।सुग्रीवः कपिराट् तुल्यौ द्वौ जटायुजटायुषौ ॥ १८३६ ॥
3.8.1836 · p. 223
अनुष्टुप्
अजातशत्रुः शल्यारिर्धर्मयुत्रो युधिष्ठिरः ।गुणो वायुसुतो भीमो भीमसीनो वृकोदरः ॥ १८३७ ॥
3.8.1837 · p. 223
अनुष्टुप्
अर्जुनः फल्गुनो जिष्णुः सव्यसाची धनंजयः ।कृष्णः किरीटी बीभत्सुः कर्णशत्रुः कपिध्वजः ॥ १८३८ ॥
3.8.1838 · p. 223
अनुष्टुप्
गाण्डीवी विजयः श्वेतवाहो मध्यमपाण्डवः ।पाञ्चाली द्रौपदी कृष्णा याज्ञसेनी च पार्षती ॥ १८३९ ॥
3.8.1839 · p. 223
अनुष्टुप्
सौवस्तिकः पुरोधाः स्याद्गणकादेशकौ समौ ।कौशलिकं प्राभृतकं संघर्षः स्पर्धया समः ॥ १८४० ॥
3.8.1840 · p. 223
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 श (wrong syllable)
अपर्यालोचितारम्भे रभसो रभसाव्ययम् ।उत्कोचः पुंसि लम्बा स्त्री सेनार्थे दण्ड इत्ययम् ॥ १८४१ ॥
3.8.1841 · p. 223
अनुष्टुप्
वृद्ध्याजीवो द्वैगुणिको भक्तं क्रूरमिमे समे ।शामिताम्लकदुग्धार्द्रा पक्वा खण्डे घृतोत्तरे ॥ १८४२ ॥
3.8.1842 · p. 224
अनुष्टुप्
संधापोतं युता चूर्णैः खण्डैलामरिचार्द्रकैः ।क्षीराढ्यः शमितापिण्डो घृतपूरो घृतशृतः ॥ १८४३ ॥
3.8.1843 · p. 224
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 त (wrong syllable)
फेनकः शमिता शुक्ला घृतपक्वा सशर्करा ।स्त्रियां तु शष्कुली पिष्टगुडतैलतिलैः कृता ॥ १८४४ ॥
3.8.1844 · p. 224
अनुष्टुप्
सतीनकस्तु सातीनः समावुद्दालकोद्रवौ ।समौ तु वल्लनिष्पाचौ राजिका राजसर्षयः ॥ १८४५ ॥
3.8.1845 · p. 224
अनुष्टुप्
व्यञ्जनं शृङ्गिबेरेण संस्कृतं शार्ङ्गिबेरकम् ।दाधिकं संस्कृतं दध्ना सार्पिषं सार्पिषा तु यत् ॥ १८४६ ॥
3.8.1846 · p. 224
अनुष्टुप्
भूमिर्भूकटकं भृष्टं भटित्रं चादिमं स्त्रियाम् ।लावणौदकिकं तत् स्यात् पक्वं यल्लवणोदकैः ॥ १८४७ ॥
3.8.1847 · p. 224
अनुष्टुप्
सुरुङ्गा स्त्री पुमान् संधिर्व्यलीकं वञ्चनं समे ।अथ क्लीबे घटीयन्त्रं पादावर्तोऽनुघट्टकः ॥ १८४८ ॥
3.8.1848 · p. 225
अनुष्टुप्
जतुत्रपुविकारे तु जातुषं त्रापुषं त्रिषु ।पादुकायां तु पादूः स्त्री गल्लकः पानभाजनम् ॥ १८४९ ॥
3.8.1849 · p. 225
अनुष्टुप्
सम्मुखीनस्त्वभिमुखः सुमुखस्तु प्रगल्भवाक् ।कृतकृत्यः कृतार्थः स्यात् समौ न्यक्षनिकृष्टकौ ॥ १८५० ॥
3.8.1850 · p. 225
अनुष्टुप्
असम्मतः प्रणाय्यः स्याद्यस्तु स्वस्थानमास्थितः ।परान् द्वेष्टि स गोष्ठश्व ईर्ष्यालुकुहनौ समौ ॥ १८५१ ॥
3.8.1851 · p. 225
अनुष्टुप्
तीक्ष्णोपायेन योऽन्विच्छेत् स्यादायःशूलिकश्च सः ।उल्बणस्तूद्धतस्तुल्यावात्मवद्वशिनौ समौ ॥ १८५२ ॥
3.8.1852 · p. 225
अनुष्टुप्
वल्गुर्हारी मनोहारी परिविष्टं तु वेष्टितम् ।बलाद्गृहीतमाच्छिन्नं समे बहलपीवरे ॥ १८५३ ॥
3.8.1853 · p. 225
अनुष्टुप्
प्रेङ्खितं स्याद्विलुलितं शालिश्रेष्ठावुभौ समौ ।परभागो गुणोत्कर्षे संदर्भो रचना न ना ॥ १८५४ ॥
3.8.1854 · p. 225
अनुष्टुप्
प्रणिपातः प्रणामः स्याद्दाक्षिण्यमनुकूलता ।कक्ष्या तुलायां कौसीद्यमालस्यं चयनं चयः ॥ १८५५ ॥
3.8.1855 · p. 225
अनुष्टुप्
परितापस्तु दवथुरनुतापो विसूरिता ।सादोऽवसन्नता खेदः क्रीडनं तु विनोदनम् ॥ १८५६ ॥
3.8.1856 · p. 226
अनुष्टुप्
अर्थना तु धनाया स्यादीहनं चेष्टनं समे ।वितर्कस्तु विकल्पः स्यादत्यायानमतिक्रमः ॥ १८५७ ॥
3.8.1857 · p. 226
अनुष्टुप्
अथाशयः स्यादाकूतं समे ग्रन्थनगुम्फने ।काण्डस्तृतीयोऽनुक्रान्तः साङ्गोपाङ्गैः सविस्तरैः ॥ १८५८ ॥
3.8.1858 · p. 226
अनुष्टुप्
नृब्रह्मक्षत्रविट्छूद्रैरध्यायैरिह चाष्टभिः ।विशेष्यनिघ्नसंकीर्णसहितैः सोक्तशेषकैः ॥ १८५९ ॥
3.8.1859 · p. 226
अनुष्टुप्