वन्द्य
vandyaपुं · masc.In 3 kośas: 1 synonym verse, 3 as a meaning of another word.
मायासुतो देवदत्तो गोतमान्वयसंभवः ।सर्वार्थसिद्धो वन्द्यस्तु श्रमणो भिक्षुरुच्यते ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
वन्द्य as a meaning in nānārtha verses
- कोषकल्पतरु पूज्यअन्यस्तु भिन्ने त्रिषु वा समाने पाद्यं तु पादार्हजले च निन्द्ये । पूज्यस्तु वन्द्ये श्वशुरे स हार्यो विभीतके वाच्यसमस्तु हार्ये ॥ १३ ॥ Koṣakalpataru 6.26.13
- नानार्थार्णवसंक्षेप ग्रहणअपवादे कुलीनत्वे ग्रहणं त्विन्दुसूर्ययोः । उपरागे चोपलब्धौ वन्द्यादानादरेषु च ॥ २९ ॥ Nānārthārṇavasaṃkṣepa 3.3.29
- शब्दरत्नावली पूज्यप्रायस्तुल्ये च बाहुल्ये मृत्यावनशनेऽपि च । प्रियो वृद्धौषधे पुंसि हृदये स्यादभिधेयवत् ॥ पीयुर्यूके रवौ काले पुंसि क्लीबं रतस्वने । पुण्यं धर्मे च सुकृते क्लीबं स्याच्छोभने त्रिषु ॥ पुष्यो मासे ऋक्षभेदे तथा कलियुगे पुमान् । पूज्यस्तु श्वशुरे पुंसि वन्द्ये च भवति त्रिषु ॥ वन्ध्या स्यादप्रजस्त्रीषु पुमानफलभूरुहे । वर्या पतिम्बरायां स्त्री श्रेष्ठे त्रिषु पुमान् स्मरे ॥ बल्यं प्रधानधातौ स्यात्क्लीबं बलकरेऽन्यवत् । वीर्यं तेजसि सामर्थ्ये दीप्तौ शुक्रप्रभावयोः ॥ Śabdaratnāvalī 7.26.19