कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

भिक्षु

bhikṣuपुं · masc.

In 15 kośas: 29 synonym verses, 2 as a nānārtha head word, 6 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवाधिदेवकाण्डः Abhidhānacintāmaṇi 1.76 · p. 6
महानन्दोऽमृतं सिद्धिः कैवल्यमपुनर्भवः ।शिवं निःश्रेयसं श्रेयो निर्वाणं ब्रह्म निर्वृतिः ॥ ७४ ॥महोदयः सर्वदुःखक्षयो निर्याणमक्षरम् ।मुक्तिर्मोक्षोऽपवर्गोऽथ मुमुक्षुः श्रमणो यतिः ॥ ७५ ॥वाचंयमो व्रती साधुरनगार ऋषिर्मुनिः ।निर्ग्रन्थो भिक्षुरस्य स्वं तपोयोगशमादयः ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.622 · p. 33
ब्रह्मचारी गृही वानप्रस्थो भिक्षुरिति क्रमात् ॥ ८०७ ॥चत्वार आश्रमास्तत्र वर्णी स्याद्ब्रह्मचारिणि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ह (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.624 · p. 33
वैखानसो वानप्रस्थो भिक्षुः सांन्यासिको यतिः ।कर्मन्दी रक्तवसनः परिव्राजकतापसौ ॥ ८०९ ॥पाराशरी पारिकाङ्क्षी मस्करी पारिरक्षकः ।
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 ल (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.3
ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.41
भिक्षुः परिव्राट्कर्मन्दी पाराशर्यपि मस्करी ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.409 · p. 47
पाराशरी व्रती भिक्षुर्मस्करी पारिरक्षिकः ।परिव्राजकस्तपस्वी कर्मन्दी तापसः स्मृतः ॥ ४०९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ज (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.149 · p. 85
चेलुकश्चीवरी भिक्षुर्महोपासकमेलिकौ ।वन्यश्चैत्यः श्रामणेरः स च प्रव्रजितः पुनः ॥ १४९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.173 · p. 87
एवं योगो यमाद्यङ्गैरष्टभिः सम्मतोऽष्टधा ।एषामभ्यासतो योगी भिक्षुः सांन्यासिको यतिः ॥ १७३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.537 · p. 309
ऋक्षः प्रियोऽथ श्रमणा भिक्षुः श्रवणशीर्षकः ।शुण्डिनी श्रावणी चाथ महामुण्डी तु लोचनी ॥ ५३७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.52 · p. 13
मायासुतो देवदत्तो गोतमान्वयसंभवः ।सर्वार्थसिद्धो वन्द्यस्तु श्रमणो भिक्षुरुच्यते ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.6 · p. 232
विप्र-क्षत्रिय - विट् - शूद्रास्ते त्वशूद्रा द्विजा मताः ।ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.99 · p. 242
करमध्ये तु सौम्यं स्याद्वानप्रस्थस्त्वरण्यगः ।वैखानसोऽप्य[103b]थो भिक्षुर्भवेत्सांन्यासिको यतिः ॥ ९९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र गुल्मकाण्डः Nighaṇṭuśeṣa 2.215 · p. 119
मेषाक्षो मेषकुसुमः पद्माटैडगजावपि ।मुण्ड्यां मुण्डनिका भिक्षुः श्रावणी जीवबोधनी ॥ २१५ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 3 · p. 2
ऋषिर्मुनिर्यतिर्भिक्षुस्तापसः संशितो व्रती ।तपस्वी संयमी योगी वर्णी साधुश्च पातु वः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.403 · p. 152
वानप्रस्थे तु वैखानसो यतिर्भिक्षुनामकः ।सांन्यासिको रक्तवस्त्रः कर्मन्दी तापसोऽपि सः ॥ ४०३ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.120 · p. 31
यतिर्यती मुनेः साधुस्तपस्वी संयतो व्रती ।भिक्षुर्मुमुक्षुर्निर्ग्रन्थः ऋषिर्योगी च संयमी ॥ १२० ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति ब्रह्मवर्गः Śāradīyākhyanāmamālā 3.1.1 · p. 34
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णचतुष्टयम् ।ब्रह्मचारी गृही वानप्रस्थो भिक्षुरिहाश्रमाः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति ब्रह्मवर्गः Śāradīyākhyanāmamālā 3.1.2 · p. 34
ब्रह्मचारी तु वर्णी स्याद्गृहस्थः स्नातको गृही ।वैखानसो वानप्रस्थो भिक्षुः सांन्यासिको यतिः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1344 · p. 213
चातुर्वर्ण्यं विप्रक्षत्रवैश्यशूद्रा नृणां भिदः ।ब्रह्मचारी गृही वानप्रस्थो भिक्षुरिति क्रमात् ॥ १३४४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वि (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1347 · p. 213
यतिः सांन्यासिको भिक्षुः तपस्वी पारिरक्षकः ।पारिकांक्षी च कर्मन्दी पाराशरी च मस्करी ॥ १३४७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.5 · p. 111
कुलकः कुलिकश्चेति कुलश्रेष्ठे निगद्यते ।ब्रह्मचारी गृही वानप्रस्थो भिक्षुरमी पुनः ।चत्वार आश्रमोऽस्त्री तु तस्मिन्नाश्रमिकः स्मृतः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.78 · p. 115
अथाभिवादनं पदग्रहणं चरणानतौ ।स्यात् परिव्राजको भिक्षुः परिव्राट् च पराशरी ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 प (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1206 · p. 148
चतुर्थकालभुग्भिक्षुर्वृष्णिरष्टमकालभुक् ।वर्षवातातपक्लेशसहनोऽभ्रावकाशिकः ॥ १२०६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1287 · p. 157
ते पञ्चधा वणिग्भिक्षुच्छात्रलिङ्गिकृषीवलाः ।आगोऽपराध उद्दानं बन्धनं दण्डनं दमः ॥ १२८७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1833 · p. 223
स्यात् पारिरक्षिको भिक्षुरभ्युत्थानं तु गौरवम् ।पञ्चार्थिकः पाशुपतो वैष्णवः पाञ्चरात्रिकः ॥ १८३३ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव स्वर्गवर्गः Trikāṇḍaśeṣa 1.1.24 · p. 6
वज्रकीटोऽथ मैत्रेयो युवराज्ञोऽजितश्च सः ।चीवरी श्रमणो भिक्षुर्बल्यश्चैत्रोऽथ चेलुकः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.126 · p. 93
परे त्रिषु तपस्वी स्यात्तापसः पारिकांक्षिकः ।चतुर्थकालिको भिक्षुर्व्युष्टिरष्टमकालभुक् ॥ १२६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.160 · p. 96
यतिः पाराशरी भिक्षुः परिव्राट् पाररक्षिकः ।अनाशकी प्रव्रजितः कर्मन्दी मस्करी यनी ॥ १६० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.26 · p. 106
यथार्हवर्णो मंत्रज्ञो भीमरो गूढपूरुषः ।चारोऽप्यथ वणिग्भिक्षुश्छात्रो लिंगी कृषीवलः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.907 · p. 120
भिन्द्रं स्याददृढे क्ली तु व(स्त्रे ? ज्रे)ऽन्यो दरणेऽवदत् ।भिक्षुः पुंसि परिव्राजि त्रि तु भिक्षणशीलके ॥ ९०७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.908 · p. 120
चतुर्थकालाशिनि च भिदुस्तु नरि मन्मथे ।वज्रे च घुणसंज्ञे तु क्रिमौ द्वे ना तु भीमवाक् ॥ ९०८ ॥
अनुष्टुप्
doubtful

भिक्षु as a meaning in nānārtha verses