कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पूज्य

pūjyaवि · adj.

In 12 kośas: 11 synonym verses, 7 as a nānārtha head word, 29 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.6
पूज्यः प्रतीक्ष्यः सांशयिकः संशयापन्नमानसः ।
metre not recognisednearly अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.384 · p. 45
प्रतीक्ष्यः कथ्यते पूज्यः पूजितोऽपचितो भवेत् ।ईर्ष्यालुः कुहनः प्रोक्तो जारो ह्युपपतिः स्मृतः ॥ ३८४ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.7 · p. 215
सैवोक्तः कर्महस्तोपि कुशलश्च कृताननः ।पूज्यः प्रतीक्ष्यः सांशयिकः संशयापन्नमानसः ॥ ७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.17 · p. 2
जाल्मोऽसमीक्ष्यकारी स्यात्खट्वारूढो निषिद्धकृत् ।रमकोत्कमकौ चोभौ विलासी जहकः पुनः ।महोद्यमो महोत्साहो मान्यः पूज्यः प्रतीक्ष्यवत् ॥ १७ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.224 · p. 32
वासन्तिको विटश्चाथ षिङ्गपल्लवकौ समौ ।पूज्यो भट्टारको भट्टो देवस्तत्रभवानपि ॥ २२४ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.72 · p. 41
गुणवानुत्तमः श्रेष्ठो योग्यः पूज्यो महान्गुणी ।श्रेयाञ्शिष्टः सदाचारः साधुसभ्यार्यसज्जनाः ॥ ७२ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.177 · p. 95
पतिपत्न्योश्च पितरि श्वशुरः पूज्य इत्यपि ।पितृव्यो जनकभ्राता ज्येष्ठतातोऽग्रजो यदि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश प्राणिवर्गप्रकाशः Śabdaratnāvalī 4.1.6 · p. 159
पूज्यः प्रतीक्ष्य आर्यः स्यान्मान्यः पूजार्ह इत्यपि ।अथ संशयिकोऽपि स्यात् संशयापन्नमानसः ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.91 · p. 169
क्षेपिष्ठादिः प्रकर्षार्थः साधिष्ठादिर्भृशार्थकः ।भट्टारकस्तु भट्टारो भगवान् पूज्य इत्यपि ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1591 · p. 192
अर्च्यः पूज्यः प्रतीक्ष्यः सहृदयहृदयालू समौ हृष्टतुष्टौ ।प्रीतप्रह्लन्नतृप्तप्रमुदितमुदितामोदिताः स्युः प्रतीते ॥ १५९१ ॥
स्रग्धरा
genderविadj.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव विशेष्यनिघ्नवर्गः Trikāṇḍaśeṣa 3.1.14 · p. 83
भट्टारो भगवान्पूज्यः शक्रप्रतिबलौ समौ ।पटुः पाटविको धूर्तः स्थगस्तीक्ष्णस्तु राजघः ॥ १४ ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.287
युद्धायत्योः संपरायः पूज्यस्तु श्वशुरेऽपि च ।
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास यपादः Dharaṇikośa 25.1.2 · p. 147
पूज्यौ श्वशुरपूजार्हावर्यः स्यात्स्वामिवैश्ययोः ।नयो नीतौ द्यूतभेदे मृत्युः स्यान्मरणे यमे ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.13 · p. 288
अन्यस्तु भिन्ने त्रिषु वा समानेपाद्यं तु पादार्हजले च निन्द्ये ।पूज्यस्तु वन्द्ये श्वशुरे स हार्योविभीतके वाच्यसमस्तु हार्ये ॥ १३ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.799 · p. 111
पुराणे पुंबहुत्वे तु पूर्वजेष्वेष वर्तते ।पितामहादिष्वथ ना पूज्यः स्याच्छ्वशुरे त्रि तु ॥ ७९९ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.800 · p. 111
पूजनीयेऽथ पूरो ना नद्याः सलिलबृंहणे ।पुनर्नवायां नृस्त्री तु पूर्तौ पूरी तु सा स्त्रियाम् ॥ ८०० ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.19 · p. 258
प्रायस्तुल्ये च बाहुल्ये मृत्यावनशनेऽपि च ।प्रियो वृद्धौषधे पुंसि हृदये स्यादभिधेयवत् ॥पीयुर्यूके रवौ काले पुंसि क्लीबं रतस्वने ।पुण्यं धर्मे च सुकृते क्लीबं स्याच्छोभने त्रिषु ॥पुष्यो मासे ऋक्षभेदे तथा कलियुगे पुमान् ।पूज्यस्तु श्वशुरे पुंसि वन्द्ये च भवति त्रिषु ॥वन्ध्या स्यादप्रजस्त्रीषु पुमानफलभूरुहे ।वर्या पतिम्बरायां स्त्री श्रेष्ठे त्रिषु पुमान् स्मरे ॥बल्यं प्रधानधातौ स्यात्क्लीबं बलकरेऽन्यवत् ।वीर्यं तेजसि सामर्थ्ये दीप्तौ शुक्रप्रभावयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 हृद (syllable split)
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.51 · p. 234
पार्श्वमस्त्री समीपेऽपि पृज्यः श्वशुरमान्ययोः ।स्नेहे केलौ प्रेम न स्त्री पीतिः पाने हये तु ना ॥ ५१ ॥
अनुष्टुप्
doubtful

पूज्य as a meaning in nānārtha verses