All kośas › Nānārthārṇavasaṃkṣepa
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa
5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)
त्र्यक्षरकाण्डः · नपुंसकलिङ्गाध्यायः
इति त्र्यक्षरकाण्डे पुंल्लिङ्गाध्यायः ।
अथ त्र्यक्षरकाण्डे नपुंसकलिङ्गाध्यायः
अयनं निलये मार्गे सूर्योदग्दक्षिणागतौ ।स्यात् सांवत्सरिकाद्येषु सत्राख्यक्रतुकर्मसु ॥ १ ॥
3.3.1 · p. 33
अनुष्टुप्
एषां प्रयोगभेदे च गतिमात्रे च दृश्यते ।अम्बरं वाससि व्योम्नि सुगन्धिद्रव्यकान्तरे ॥ २ ॥
3.3.2 · p. 33
अनुष्टुप्
अंशुकं वस्त्रमात्रे च सूक्ष्मवस्त्रोत्तरीययोः ।अलीकं त्वनृते च स्यादप्रियेऽथो अनूकवाक् ॥ ३ ॥
3.3.3 · p. 33
अनुष्टुप्
शीलेऽन्वये च प्राण्यङ्गभेदे कण्ठसमीपगे ।अवनं रक्षणे तृप्तौ याचनादिष्वपि स्मरेत् ॥ ४ ॥
3.3.4 · p. 33
अनुष्टुप्
अञ्चनं वर्चने गत्यामड्डनं त्वड्डने भवेत् ।अर्थे सोऽप्यतियोगः स्याच्छस्त्राणां च निवारणे ॥ ५ ॥
3.3.5 · p. 33
अनुष्टुप्
अपत्यं तु भवेत् तोके सामगानां च विश्रुते ।आरण्यके सामभेदे 'उच्चतेजे'त्यृचि स्थिते ॥ ७ ॥
3.3.7 · p. 33
अनुष्टुप्
आस्पदं तु भवेत् कृत्ये स्थाने चालानवाक् पुनः ।आदाने स्तम्भमात्रे च बन्धनार्थे च हस्तिनाम् ॥ ८ ॥
3.3.8 · p. 33
अनुष्टुप्
स्तम्भ आदानवाक् तु स्याद् ग्रहणे चोत्तरायणे ।आधानं तु निधाने स्यात् त्रेताग्न्याधान एव च ॥ ९ ॥
3.3.9 · p. 33
अनुष्टुप्
आपानं तु सुरापानगोष्ठ्यामाकृष्य पानके ।आयानं त्वश्वभूषायामागतौ वचने पुनः ॥ १० ॥
3.3.10 · p. 33
अनुष्टुप्
आख्यानं स्यात् कथायां च स्यादाराग्रं त्विषोर्भवेत् ।अग्रे तथाग्र आरायां इन्द्रियं धनरेतसोः ॥ ११ ॥
3.3.11 · p. 33
अनुष्टुप्
हृषीक इन्धनं तु स्याद् दीपनाग्न्यर्थकाष्ठयोः ।ईक्षणं तु क्रियायां स्यात् पश्यतेर्नयनेऽपि च ॥ १२ ॥
3.3.12 · p. 34
अनुष्टुप्
उदकं तु भवेत् तोये ह्रीबेरे द्विशतस्वरे ।छन्दोभेदे भगवता निदानोक्तं प्रतीयताम् ॥ १३ ॥
3.3.13 · p. 34
अनुष्टुप्
उत्थानमुद्गमे वास्तौ तन्त्रेहापौरुषेषु च ।औदरस्य मलस्यापि स्रुतौ स्याद्रभसः पुनः ॥ १४ ॥
3.3.14 · p. 34
अनुष्टुप्
हर्षमुस्तकयोराजावङ्गणे चोद्यमेऽपि च ।उद्यानं सङ्ग्रहोद्गत्योर्वनभेदे प्रयोजने ॥ १५ ॥
3.3.15 · p. 34
अनुष्टुप्
तथा निःसरणेऽथ स्यादूवध्यं हि गुदानिले ।वृक्षायुर्वेदसिद्धे च भूरुहादेर्गदान्तरे ॥ १६ ॥
3.3.16 · p. 34
अनुष्टुप्
ऋजीषं पिष्टपचनसाधनान्तर एव च ।वैद्युताग्नौ च नैरुक्ता औशीरं पुनरासने ॥ १७ ॥
3.3.17 · p. 34
अनुष्टुप्
चामरे शयने दण्डे कटीरं त्वपि कन्दरे ।जघने च जले चाथ कटित्रं यत्र तद्विदः ॥ १८ ॥
3.3.18 · p. 34
अनुष्टुप्
द्यूते रमन्ते सुस्यूते तस्मिंश्चर्मणि किञ्च तत् ।रशनायां च रभसः कटिवेष्टनचर्मणि ॥ १९ ॥
3.3.19 · p. 34
अनुष्टुप्
अथ श्रोण्यां च भार्यायां कडत्रं स्यात् कलत्रवत् ।कलत्रं तु नृपादीनां दुर्गस्थाने च कीर्तितम् ॥ २० ॥
3.3.20 · p. 34
अनुष्टुप्
क्रन्दनं पुनराह्वाने रोदनेऽप्यथ कज्जलम् ।कसोत्पलाख्ये वनज उत्पलेऽप्यञ्जनान्तरे ॥ २१ ॥
3.3.21 · p. 34
अनुष्टुप्
धूमयोनिन्यथ ज्ञेयं कश्मलं मोहविष्ठयोः ।अथ स्यात् कत्तृणं कुट्यां तृणभेदेऽथ काननम् ॥ २२ ॥
3.3.22 · p. 34
अनुष्टुप्
ब्रह्मास्ये च वने चाथ कीलालं रुधिरे जले ।अन्ने पक्कान्ननिःष्यन्देऽप्यमृते रभसोऽपठीत् ॥ २३ ॥
3.3.23 · p. 34
अनुष्टुप्
स्यात् कुत्राणं तु कुण्डे च शिक्ये चाथ कृपीटवाक् ।उदरे सलिले चाथ ध्वजे चोपनिमन्त्रणे ॥ २४ ॥
3.3.24 · p. 35
अनुष्टुप्
केतनं स्यादकार्ये च चापे कृत्येऽथ कैतवम् ।द्यूते च कपटे चाथ कैवल्यं मोक्ष एव च ॥ २५ ॥
3.3.25 · p. 35
अनुष्टुप्
केवलत्वेऽथ कोदण्डं वेणुचापे धनुष्यपि ।चापे चतुररत्नौ च कौतुकं तु कुतूहले ॥ २६ ॥
3.3.26 · p. 35
अनुष्टुप्
मङ्गले विषयाभोगे कामे ख्याते तथैव च ।हस्तसूत्रेऽथ कौपीनं गुह्ये चाकार्य एव च ॥ २७ ॥
3.3.27 · p. 35
अनुष्टुप्
केचित् कक्षापुटेऽप्याहुश्चीरे त्वन्येऽध्यगीषत ।स्यात् कौलीनं लोकवादे युद्धे पश्वहिपक्षिणाम् ॥ २८ ॥
3.3.28 · p. 35
अनुष्टुप्
अपवादे कुलीनत्वे ग्रहणं त्विन्दुसूर्ययोः ।उपरागे चोपलब्धौ वन्द्यादानादरेषु च ॥ २९ ॥
3.3.29 · p. 35
अनुष्टुप्
प्रत्यये गैरिकं तु स्यात् पीतधातौ च हेम्नि च ।गोपुरं तु पुरद्वारे द्वारमात्रे तथैव च ॥ ३० ॥
3.3.30 · p. 35
अनुष्टुप्
मुस्ताभेदे च कैवर्तिमुस्तकाख्येऽथ गोरुतम् ।गवां रुते च गव्यूतौ गोशीर्षं त्वपि चन्दने ॥ ३१ ॥
3.3.31 · p. 35
अनुष्टुप्
ताम्रसारे गवां मूर्ध्नि चमकं तु प्रकीर्तितम् ।ह्रीबेरेऽपि यजुर्मन्त्राध्यायभेदेऽथ चामरम् ॥ ३२ ॥
3.3.32 · p. 35
अनुष्टुप्
प्रकीर्णके च ह्रीबेरे छदनं तु तरुच्छदे ।पक्षिपक्षेऽथ जघनं स्त्रीकट्याः पूर्वभागके ॥ ३३ ॥
3.3.33 · p. 35
अनुष्टुप्
कटिमात्रे परे पश्चाद्भागे कस्यापि वस्तुनः ।जयनं तु रथादीनां सन्नाहे विजयेऽपि च ॥ ३४ ॥
3.3.34 · p. 35
अनुष्टुप्
अश्वचर्मणि तु प्राह रभसोऽथ जनित्ववाक् ।कुले द्यावापृथिव्योश्च मातापित्रोश्च कीर्तिता ॥ ३५ ॥
3.3.35 · p. 35
अनुष्टुप्
तलिमं कुट्टिमे तल्पे द्वारयन्त्रे तु तालकम् ।कर्णभूषणभेदे च तालपत्राह्वयेऽप्यथ ॥ ३६ ॥
3.3.36 · p. 36
अनुष्टुप्
तालितं तूलितपटे गुणवादित्रभाण्डयोः ।वाद्यभेदेऽजयः प्राह व्यञ्जने त्वपि तेमनम् ॥ ३७ ॥
3.3.37 · p. 36
अनुष्टुप्
क्लेदेऽथ तोदनं तोत्रे व्यथने द्रविणं पुनः ।धने बले दुकूलं तु क्षौमेऽन्ये सूक्ष्मवाससि ॥ ३८ ॥
3.3.38 · p. 36
अनुष्टुप्
शुक्लवस्त्रे परेऽथ स्याद् दौहृदं दोहलाहये ।इच्छाविशेषे गर्भिण्या द्विहृत्त्वे रभसः पुनः ॥ ३९ ॥
3.3.39 · p. 36
अनुष्टुप्
दौर्वीणं म्लिष्टपर्णे च दूर्वायाश्च रसेऽभ्यधात् ।नाभीलं नाभिगन्धे स्याद् वङ्क्षणे च वरस्त्रियाः ॥ ४० ॥
3.3.40 · p. 36
अनुष्टुप्
अजयो नाभिगर्ताण्डे रभसस्त्वाह शब्दवित् ।गन्धर्वकृच्छ्रयोः स्यात्तु निमित्तं हेतुलक्षयोः ॥ ४१ ॥
3.3.41 · p. 36
अनुष्टुप्
शुभादेः सूचके चाथ नियुतं लक्षसंज्ञके ।सङ्ख्याभेदे परे त्वाहुर्लक्षाणां दशके तथा ॥ ४२ ॥
3.3.42 · p. 36
अनुष्टुप्
उशीरेऽथ निदानं स्यात् कारणेऽप्यादिकारणे ।सूत्रभेदे च भगवत्पतञ्जलिमुनीरिते ॥ ४३ ॥
3.3.43 · p. 36
अनुष्टुप्
खण्डनेऽप्यवदाने च निर्याणं त्वपि हस्तिनः ।नेत्रान्ते निर्गमे मोक्षे मरणे च प्रकीर्तितम् ॥ ४४ ॥
3.3.44 · p. 36
अनुष्टुप्
प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु ।सम्यग्वक्तरि नित्ये स्यादेकताबोधयोरपि ॥ ४५ ॥
3.3.45 · p. 36
अनुष्टुप्
छन्दोवृत्तविशेषेऽथ प्रयाणं मरणे गतौ ।नेत्रपूर्वप्रदेशे च हस्तिनामिति यादवः ॥ ४६ ॥
3.3.46 · p. 36
अनुष्टुप्
आदौ प्रधाने प्रमुखं प्रज्ञानं बुद्धिचिह्नयोः ।प्रसूनं पुष्पफलयोः प्रपदं तु पदाग्रके ॥ ४७ ॥
3.3.47 · p. 37
अनुष्टुप्
निगदाख्ययजुर्वेदविशेषे प्लवनं पुनः ।उन्मज्जने प्लुतीभावे क्रमणे च प्रकीर्तितम् ॥ ४८ ॥
3.3.48 · p. 37
अनुष्टुप्
पञ्चत्वं पञ्चतायां च मरणेऽथ पचत्रवाक् ।स्थाल्यां स्याद्रन्धनार्थायां तथैवापूपकारके ॥ ४९ ॥
3.3.49 · p. 37
अनुष्टुप्
पतत्त्रं गरुति व्योम्नि पत्राङ्गं रक्तचन्दने ।भूर्जे च पतनं तु स्यात् पा(त्रे?ते) तरुपलाशके ॥ ५० ॥
3.3.50 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
द्विजातिकर्मभ्यो हानौ पत्तनं तु पुरे विदुः ।पुटभेदनसंज्ञे तु क्षुद्रग्रामे परे विदुः ॥ ५१ ॥
3.3.51 · p. 37
अनुष्टुप्
क्रयविक्रयभूमौ तु केचिदन्ये तु सूरयः ।नौभिरेव तु यद्गम्यं पत्तनं तत् प्रचक्षते ॥ ५२ ॥
3.3.52 · p. 37
अनुष्टुप्
पट्टनं तु पुरेऽन्ये तु पुटभेदनसंज्ञके ।क्षुद्रग्रामे परे त्वाहुः सर्वशब्दार्थकोविदाः ॥ ५३ ॥
3.3.53 · p. 37
अनुष्टुप्
पट्टनं शकटैर्गम्यं घोटकैर्नौभिरेव च ।पद्मकं पद्मकाष्ठे स्याद्धस्तिनां बिन्दुजालके ॥ ५४ ॥
3.3.54 · p. 37
अनुष्टुप्
परीरं तु हले ज्ञेयं तथा हलमुखेऽपि च ।पवीरं तु हले केचिद् रङ्गस्थाने पर विदुः ॥ ५५ ॥
3.3.55 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 र (wrong syllable)
प्रान्तरं तु वने ज्ञेयं दूरशून्ये च वर्त्मनि ।रसातले तु पातालं बडवानल एव च ॥ ५६ ॥
3.3.56 · p. 37
अनुष्टुप्
पीयूषं त्वमृते दुग्धे नवसूतगवीभवे ।पुरीषं मृत्तिकाचूर्णे विष्ठायां सलिलेऽपि च ॥ ५७ ॥
3.3.57 · p. 37
अनुष्टुप्
मालाबन्धविशेषे तु भक्षभेदे च पूरिमम् ।बडिशं त्वध्वमानस्य विशेषे स्याद्विरज्जुके ॥ ५८ ॥
3.3.58 · p. 37
अनुष्टुप्
मत्स्यवेधनयन्त्रे च ब्राह्मण्यं तु द्विजन्मनाम् ।समूहे ब्राह्मणानां च जानीयाद्भावकर्मणोः ॥ ५९ ॥
3.3.59 · p. 38
अनुष्टुप्
अथ बाह्रवमित्येतद्धिङ्गुकुङ्कुमयोः स्मृतम् ।भस्मकं तु विडङ्गे स्याद् व्याधिभेदेऽथ भण्डनम् ॥ ६० ॥
3.3.60 · p. 38
अनुष्टुप्
परिहासे च दुग्धे च कवचे च प्रकीर्तितम् ।भावित्रं तु भवेद्भद्रे त्रैलोक्ये चाथ भूतिकम् ॥ ६१ ॥
3.3.61 · p. 38
अनुष्टुप्
भूनिम्बे भूस्तृणे चैव यवान्यामपि कत्तॄणे ।भोजनं तु भवेद्भुक्तौ मन्दनं स्तुतिमोदयोः ॥ ६२ ॥
3.3.62 · p. 38
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 त्तॄ (wrong syllable)
गतौ मदे च स्वप्ने च मणीचं त्वपि मौक्तिके ।अग्रहस्ते च पुष्पेऽथ महिनं राज्यशय्ययोः ॥ ६३ ॥
3.3.63 · p. 38
अनुष्टुप्
मैथुनं रतिसङ्गत्योर्यागोपकरणे पुनः ।यजत्रसंज्ञे यजनं यागे चाप्यथ यावसम् ॥ ६४ ॥
3.3.64 · p. 38
अनुष्टुप्
मित्रे भक्ततृणे चाथ तारुण्ये यौवनं तथा ।युवतीनां समूहे च वचनं तूक्तिवाक्ययोः ॥ ६५ ॥
3.3.65 · p. 38
अनुष्टुप्
आच्छादनक्रियायां तु वसनं वस्त्र एव च ।स्यान्निवासक्रियायां च वहनं त्वपि धारणे ॥ ६६ ॥
3.3.66 · p. 38
अनुष्टुप्
भारस्य स्यन्दतेश्चार्थे रथादीनां च यापने ।रथभेदे च विज्ञेयं चतुरश्रे सकूबरे ॥ ६७ ॥
3.3.67 · p. 38
अनुष्टुप्
वाहित्रं तु विजानीयाद् वहनाख्यरथान्तरे ।यानपात्रे च पोताख्ये वधत्रं त्वायुधे स्मृतम् ॥ ६८ ॥
3.3.68 · p. 38
अनुष्टुप्
शूरे धवयिमर्माख्ये(१) कन्दुके च प्रकीर्तितम् ।तन्तुवायस्य दण्डे च शाकटायन उक्तवान् ॥ ६९ ॥
3.3.69 · p. 38
अनुष्टुप्
व्यसनं सक्तिविपदोर्दैवानिष्टफलेंऽहसि ।पैशुन्यादौ च कोपार्थे मृगयादौ च कामजे ॥ ७० ॥
3.3.70 · p. 39
अनुष्टुप्
निक्षेपे निष्फलोद्योगेऽप्यशुभे च प्रकीर्तितम् ।वार्धकं वृद्धसङ्घाते वृद्धत्वे वृद्धकर्मणि ॥ ७१ ॥
3.3.71 · p. 39
अनुष्टुप्
उत्तरस्त्वद्भुतश्लोको रभसेन समीरितः ।काकचिण्डीभवे बीजे वारिक्रिमिजनीरयोः ॥ ७२ ॥
3.3.72 · p. 39
अनुष्टुप्
दक्षिणावर्तशङ्खे च वार्दूरं स्यादितीदृशम् ।विधानं हस्तिकबले प्रेरणेऽभ्यर्चने धने ॥ ७३ ॥
3.3.73 · p. 39
अनुष्टुप्
वेदनायामुपाये च प्रकारे वैरकर्मणि ।विष्टपं त्वपि देवानां विमाने भुवने तथा ॥ ७४ ॥
3.3.74 · p. 39
अनुष्टुप्
व्युत्थानं प्रतिकूलत्वे स्वातन्त्र्यकरणेऽपि च ।सिंहस्तु प्रतिरोधे च विरोधाचरणेऽपि च ॥ ७५ ॥
3.3.75 · p. 39
अनुष्टुप्
वेष्टनं मुकुटोष्णीषवाटेषु श्रोत्रशष्कुलौ ।तथा परिवृतौ चाथ वैकक्ष्यमुरसि स्थिते ॥ ७६ ॥
3.3.76 · p. 39
अनुष्टुप्
तिर्यक्क्षिप्ते पुष्पमाल्ये तथा प्रावरणेऽपि च ।शमलं तु भवेत् पापे विष्ठायां च प्रकीर्तितम् ॥ ७७ ॥
3.3.77 · p. 39
अनुष्टुप्
शासनं निग्रहे लेख्ये वेदवाक्येषु कर्मणि ।वाङ्नियोगे प्रहरणे शास्त्रे ग्रामे च निष्करे ॥ ७८ ॥
3.3.78 · p. 39
अनुष्टुप्
आज्ञायामुपदेशे च शालूकं तूत्पलादिनः ।कन्दे स्यात् पङ्कगन्धे च जले शालारवाक् पुनः ॥ ७९ ॥
3.3.79 · p. 39
अनुष्टुप्
सोपाने स्याद्धस्तिनखे पक्षिणामपि पञ्जरे ।अथो शिताम(१) दोष्णि स्याद् योनौ यकृति मेदसि ॥ ८० ॥
3.3.80 · p. 39
अनुष्टुप्
श्रीपुष्पं तु श्रियः पुष्पे सितपद्मेऽथ भोजने ।आस्वादने च स्वदनं शोभनेऽप्यदने विदुः ॥ ८१ ॥
3.3.81 · p. 40
अनुष्टुप्
सदनं तु गृहे तोये सीदत्यर्थे च कीर्तितम् ।स्तननं स्तनिते ध्वाने स्तरणं छादने वधे ॥ ८२ ॥
3.3.82 · p. 40
अनुष्टुप्
संस्थानं तु समाप्तौ च सन्निवेशे चतुष्पथे ।सम्यक्स्थितौ च मरणे संव्यानं तूत्तरीयके ॥ ८३ ॥
3.3.83 · p. 40
अनुष्टुप्
तथा संवरणे चापि सन्दानं त्वपि बन्धने ।पशुबन्धनरज्जोश्च विशेषे सलिलं पुनः ॥ ८४ ॥
3.3.84 · p. 40
अनुष्टुप्
जले छन्दोविशेषे च प्रकृत्याख्येऽक्षराणि वै ।यस्य चत्वार्यशीतिश्च तत्र स्याच्च बहून्यपि ॥ ८५ ॥
3.3.85 · p. 40
अनुष्टुप्
स्वरसं तु दिने गेहे स्थानकं त्वालवालके ।लङ्घनं कर्तुकामानां सिंहादीनां क्रमाह्वये ॥ ८६ ॥
3.3.86 · p. 40
अनुष्टुप्
अवस्थानविशेषे च स्थानीयं तु पुरे तथा ।स्थातव्येऽपि महाग्रामे सामर्थ्यं तु बले भवेत् ॥ ८७ ॥
3.3.87 · p. 40
अनुष्टुप्
शक्तिसंज्ञे तथैकार्थ्ये सम्बन्धार्थत्व एव च ।कश्चित्तु योग्यतायां च कथयामास नामवित् ॥ ८८ ॥
3.3.88 · p. 40
अनुष्टुप्
साधूतं *बर्हिसङ्घाते पण्यवीथ्यातपत्रके ।सुलोहं त्वारकूटे स्याच्छस्तलोहेऽथ सेचनम् ॥ ८९ ॥
3.3.89 · p. 40
अनुष्टुप्
नावः स्यात् सेकपात्रे च सिक्तौ चाप्यथ सौष्ठवम् ।अवष्टम्भे प्रशस्तत्वे हयनं तु गतावपि ॥ ९० ॥
3.3.90 · p. 40
अनुष्टुप्
कर्णीरथाख्ये च तथा रथभेदेऽथ काञ्चने ।हिरण्यं मानभेदे च धने चापि कपर्दके ॥ ९१ ॥
3.3.91 · p. 40
अनुष्टुप्
अक्षये चाप्यकुप्ये च रेतस्यप्यथ बोधत ।वराटहेमरेतःसु हिरणं रभसोऽपठीत् ॥ ९२ ॥
3.3.92 · p. 41
अनुष्टुप्