कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वाडव्य

vāḍavyaक्ली · neut.

In 7 kośas: 7 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1419 · p. 54
ब्राह्मणादेर्ब्राह्मण्यं माणव्यं वाडव्यमित्यपि ॥ १४१९ ॥
metre not recognised
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सङ्कीर्णवर्गः Amarakośa 3.2.77
हल्या हलानां ब्राह्मण्यवाडव्ये तु द्विजन्मनाम् ।
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.87 · p. 244
हल्या हलानां ब्राह्मण्यं ब्राह्मणानामथापि च ।वाडवानां तु वाडव्यं पर्शूनां पार्श्वमित्यपि ॥ ८७ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.9 · p. 232
शमीगर्भश्च यागादियुक्तः षट्कर्मा * * * * * ।* * * * * * * * सोमपीथी स सोमपाः ।ब्रह्मण्यं स्याद्ब्रह्महितं विशेष्यसमलिङ्गकम् ।ब्राह्मणौघे तु वाडव्यं ब्राह्मण्यमपि चान्तिमे ॥ ९ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.311 · p. 90
आश्वमश्वीयमश्वानां स्मृतं वाडव्यमित्यपि ।कैदारिकं तु कैदार्यं पार्श्वं पर्शुगणे स्मृतम् ॥ ३११ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2579 · p. 416
वाडव्यं वाडवव्यूहे कथ्यते कोविदैः पुनः ।गाणिक्यं गणिकानां तु केशानां कैश्यकैशिके ॥ २५७९ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सङ्कीर्णवर्गप्रकाशः Śabdaratnāvalī 6.71 · p. 175
ब्राह्मण्यं ब्राह्मणानाञ्च वाडव्यं वाडवात्मनाम् ।पर्शुकानान्तु पार्श्वं स्यात् पृष्ठानां पृष्ठ्यमित्यपि ॥
अनुष्टुप्
genderक्लीneut.