कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Suśīlanāmamālā

सुशीलनाममाला Suśīlanāmamālā

3,712 verses · 16,502 words tagged · 1,236 marked doubtful (dashed)

सामान्यविभागः (1/4)

इति-श्रीतपोगच्छाधिपति-सूरिचक्रचक्रवर्त्ति-भारतीयभव्यविभूति-चिरंतनयुगप्रधानकल्प-सर्वतन्त्रस्वतन्त्र-श्रीकदम्बगिरि-प्रमुखानेक-प्राचीनतीर्थोद्धारक-पञ्चप्रस्थानमयसूरिमन्त्रसमागधक-शासन-सम्राट्-जगद्गुरु-भट्टारकाचार्य-महाराजाधिराज-श्रीमद्विजय-नेमिसूरीश्वर-सुप्रसिद्ध-पट्टालङ्कार-व्याकरणवाचस्पति-शास्त्र-विशारद-कविरत्न-साहित्यसम्राट्-साधितसप्तलक्षश्लोकप्रमाणनूतनसंस्कृतसाहित्यसर्जक-परमशासनप्रभावकाचार्य-देवेश-श्रीमद्विजयलावण्यसूरीश्वर-पट्टधर-व्याकरणरत्न-शास्त्रविशारद-कविदिवाकर-देशनादक्ष-शासनप्रभावकाचार्य-श्रीमद्विजयदक्षसूरीश्वर-पट्टधर-साहित्यरत्न-शास्त्रविशारद-कविभूषण-पञ्चप्रस्थानमयसूरिमन्त्रसमाराधक-शासनप्रभावकाचार्य-श्रीमद्विजयसुशील-सूरिणा विरचितायां सुशीलनाममालायां नारकः पञ्चमो विभागः समाप्तः ॥ ५ ॥

अथ सामान्यविभागः षष्ठः ।

* लोकनामानि *

लोकः स्याद्भुवनं विश्वं विष्टपं पिष्टपं जगत् ।जगती चेति नामानि लोकानां सप्त सन्ति वै ॥ २४८१ ॥
7.2481 · p. 402
अनुष्टुप्
जीवाजीवाधारक्षेत्रं स लोकः कथ्यते खलु ।अलोकोऽपि जिनेन्द्रेण कथ्यते हि ततोऽन्यथा ॥ २४८२ ॥
7.2482 · p. 402
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 धा (wrong syllable)

* आत्मनामानि *

क्षेत्रज्ञः पुरुष आत्मा चेतनः कथ्यते तथा ।
7.3 · p. 402
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ष (wrong syllable)

* जीवनामानि *

जीवो जन्तुस्तथा जन्युः देहभाक् देहभाग्भवी ॥ २४८३ ॥
7.2483 · p. 402
अनुष्टुप्metre not read in every line
असुमान् चापि संसारी शरीरी देहभृत् तथा ।प्राणी सत्त्वं च नामानि द्वादशैव भवन्ति वै ॥ २४८४ ॥
7.2484 · p. 402
अनुष्टुप्

* जन्मनामानि *

जन्म जन्मो जनिश्चैव जननं जनुरुद्भवः ।उत्पत्तिश्चेति नामानि प्रयोगे प्रचलन्ति वै ॥ २४८५ ॥
7.2485 · p. 402
अनुष्टुप्

* प्राणनामानि *

जीवातुर्जीवितं प्राणाः जीवोऽसवोऽपि पञ्चमम् ।जीवनरक्षणोपायो जीवातुर्जीवनौषधम् ॥ २४८६ ॥
7.2486 · p. 403
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable); pāda 3, syllable 3 न (wrong syllable)

* श्वासनामानि *

सामान्यं श्वसितं श्वासः सोऽन्तर्मुखो हि आहरः ।उच्छ्वासश्चापि भेद आनोऽपि मन्यते बुधैः ॥ २४८७ ॥
7.2487 · p. 403
metre not recognised

* निःश्वासनामानि *

बाह्यश्वासस्य नामास्ति पानो निःश्वास एतनः ।
7.9 · p. 403
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्ग (wrong syllable)

* आयुर्नामानि *

आयुर्जीवितकालस्तु पुंल्लिङ्ग आयुरिष्यते ॥ २४८८ ॥
7.2488 · p. 403
अनुष्टुप्metre not read in every line

* मनोनामानि *

मनोऽन्तःकरणं स्वान्तं हृच्चेतो हृदयं तथा ।उच्चलं मानसं चित्तं गूढपथमतिन्द्रियम् ॥ २४८९ ॥
7.2489 · p. 403
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ढ (wrong syllable)
एतन्नामानि चित्तस्य मन्यन्ते च मनीषिभिः ।मानसं कर्म सङ्कल्पो विकल्पोऽपि भिदा भवेत् ॥ २४९० ॥
7.2490 · p. 403
अनुष्टुप्

* सुखनामानि *

सुखं सातं तथा शातं शर्म शर्मं च निर्वृतिः ।सौख्यं चेति प्रसिद्धानि सप्त नामानि सन्ति वै ॥ २४९१ ॥
7.2491 · p. 403
अनुष्टुप्

* दुःखनामानि *

दुःख व्यथाऽसुखं पीडा बाधा बाघश्च वेदना ।आमनस्यममानस्यं प्रगाढञ्च प्रसूतिजम् ॥ २४९२ ॥
7.2492 · p. 404
अनुष्टुप्
अर्त्तिः कृच्छ्रं तथा कष्टं वैमनस्यं प्रयुज्यते ।आभीलं चापि नामास्ति स्थादाऽऽधिर्मानसी व्यथा ॥ २४९३ ॥
7.2493 · p. 404
अनुष्टुप्
सपत्राकृतिनिष्पत्राकृती स्यातां प्रपीडने ।क्षुज्जाठराग्निजा बाधा व्यापादो द्रोहचिन्तनम् ॥ २४९४ ॥
7.2494 · p. 404
अनुष्टुप्
आद्यं ज्ञानमुपज्ञा स्यात् सङ्ख्या चर्चा विचारणा ।चर्चोऽपि च विचारार्थे वाक्ये विज्ञैः प्रयुज्यते ॥ २४९५ ॥
7.2495 · p. 404
अनुष्टुप्
पूर्वाऽनुभूतस्मरणे वासना भावना भवेत् ।संस्कारोऽप्यनुभूतार्थस्मरणेऽत्र प्रयुज्यते ॥ २४९६ ॥
7.2496 · p. 404
अनुष्टुप्

* निर्णयनामानि *

अन्तश्च निर्णयश्चैव निश्चयः कथ्यतेऽपि वै ।
7.19 · p. 404
अनुष्टुप्

* समर्थननामानि *

प्रोक्तं समर्थनं नाम तत्रार्थे सम्प्रधारणा ॥ २४९७ ॥
7.2497 · p. 404
अनुष्टुप्

* अज्ञाननामानि *

अर्हंमतिरविद्या च कथ्यतेऽज्ञानमित्यपि ।
7.21 · p. 404
अनुष्टुप्

* भ्रमनामानि *

भ्रमो भ्रान्तिस्तथा मिथ्यामतिर्ज्ञानं भ्रमात्मकम् ॥ २४९८ ॥
7.2498 · p. 405
अनुष्टुप्

* सन्देहनामानि *

सन्देहः संशयश्चैत्र विचिकित्सा च द्वापरम् ।आरेकश्चेति नामानि मन्यन्ते संशयस्य वै ॥ २४९९ ॥
7.2499 · p. 405
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 च (wrong syllable)

* गुणोत्कर्षनाम *

कथ्यते हि गुणोत्कर्षः परभागोऽपि पण्डितैः ।
7.24 · p. 405
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)

* दोषनामानि *

आस्रव आश्रवो दोषस्तथाऽऽदीनव उच्यते ॥ २५०० ॥
7.2500 · p. 405
अनुष्टुप्metre not read in every line

* स्वरूपनामानि *

स्वरूपं रूपतत्त्वञ्च सतत्त्वं च स्वलक्षणम् ।आत्मारातिश्च संसिद्धिः प्रकृतिः सहजास्तथा ॥ २५०१ ॥
7.2501 · p. 405
अनुष्टुप्
धर्मः शीलं स्वभावश्च सर्गश्चापि निसर्गवत् ।एतन्नामानि मन्यन्ते स्वरूपस्य बुधैर्भुवि ॥ २५०२ ॥
7.2502 · p. 405
अनुष्टुप्

* अवस्थानामानि *

दशा स्थितिस्तथाऽवस्था त्रीणि नामानि सन्ति वै ।
7.28 · p. 405
अनुष्टुप्

* स्नेहनामानि *

प्रीतिः प्रेम तथा स्नेहो हार्दं नामापि मन्यते ॥ २५०३ ॥
7.2503 · p. 406
अनुष्टुप्

* दाक्षिण्यनाम *

सरलता हि दाक्षिण्यं कथ्यते चाऽनुकूलता ।
7.30 · p. 406
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ल (wrong syllable)

* पश्चात्तापनामानि *

पश्चात्तापोऽनुतापश्च प्रसिद्धोऽनुशयः पुनः ॥ २५०४ ॥
7.2504 · p. 406
अनुष्टुप्metre not read in every line
बुधैश्च विप्रतीसारो विप्रतिसार उच्यते ।
7.32 · p. 406
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ति (wrong syllable)

* समाधाननामानि *

समाधानं समाधिश्च प्राणिधानं तथैव च ॥ २५०५ ॥
7.2505 · p. 406
अनुष्टुप्metre not read in every line
अवधानं पुनर्नाम समाधेर्मन्यते बुधैः ।
7.34 · p. 406
अनुष्टुप्

* धर्मनामानि *

धर्मः श्रेयो वृषः पुण्यं सुकृतं नाम पञ्चमम् ॥ २५०६ ॥
7.2506 · p. 406
अनुष्टुप्

* भाग्यनामानि *

भागधेयं तथा भाग्यं दिष्टं दैवं पुनर्विधिः ।नियतिश्चेति नामानि मन्यन्ते नियतेर्बुधैः ॥ २५०७ ॥
7.2507 · p. 406
अनुष्टुप्
अतिशुभमयः प्रोक्तं निर्ऋतिः कालकर्णिका ।अलक्ष्मीश्चाथ दारिद्र्यं कथ्यते कोविदैरिह ॥ २५०८ ॥
7.2508 · p. 406
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 शु (wrong syllable)

* पापनामानि *

पापं च पातकं पाप्मा पङ्कः किण्वं च किल्विषम् ।कल्मषं कलुषं कल्कं दुष्कृतं दुरितं तमः ॥ २५०९ ॥
7.2509 · p. 407
अनुष्टुप्
अंहश्चाऽङ्घस्तथाऽघं वै वृजिनमशुभं पुनः ।एनोऽष्टादशं नाम मन्यतेऽघस्य साक्षरैः ॥ २५१० ॥
7.2510 · p. 407
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 2 जि (wrong syllable); pāda 3, syllable 1 ए (syllables merged)

* धर्मचिन्तननाम *

त्रिचतुर्वर्गनाम्ना स्यादुपाधिर्धर्मचिन्तनम् ।त्रिवर्गो धर्मकामार्थाश्चतुर्वर्गाः समीक्षकाः ॥ २५११ ॥
7.2511 · p. 407
अनुष्टुप्
बलतुर्याश्चतुर्भद्रं कथ्यते कोविदैः किल ।प्रमादोऽनवधानत्वमविकार्यकृतं भवेत् ॥ २५१२ ॥
7.2512 · p. 407
अनुष्टुप्

* अभिप्रायनामानि *

अभिप्रायस्तथा भाव आकूतमाऽऽशये मतम् ।छन्दश्चेति हि नामानि मन्यन्ते विदुषां गणे ॥ २५१३ ॥
7.2513 · p. 407
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)

* इन्द्रियनामानि *

हृषीकं करणं स्रोतोऽक्षं खं विषयीन्द्रियम् ।बुद्धीन्द्रियं स्पर्शनादि धीन्द्रियमपि कथ्यते ॥ २५१४ ॥
7.2514 · p. 407
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 2 न्द्रि (wrong syllable)
कर्मेन्द्रियं क्रियेन्द्रियं पाण्यादेर्नाम कथ्यते ।
7.44 · p. 407
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 न्द्रि (wrong syllable)

* विषयनामानि *

इन्द्रियार्थास्तथाऽर्थाश्च गोचरा विषया अपि ॥ २५१५ ॥
7.2515 · p. 408
अनुष्टुप्metre not read in every line
स्पर्शो रसश्च गन्धश्च रूपं शब्दश्च पञ्चमः ।
7.46 · p. 408
अनुष्टुप्

* शीतनामानि *

तुषारः शीतलः शीतः सुषीमः सुषिमो हिमः ॥ २५१६ ॥
7.2516 · p. 408
अनुष्टुप्
सूशीमः शिशिरश्चैव जडोऽपि कथ्यते पुनः ।
7.48 · p. 408
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)

* उष्णनामानि *

अथोष्णाश्च कटुस्तीक्ष्णस्तिग्मस्तीव्रत्रस्तथा खरः ॥ २५१७ ॥
7.2517 · p. 408
metre not recognised
चण्डश्चेति हि नामानि मन्यन्ते पण्डितैः पुनः ।ईषदुष्णः कदुष्णश्च कोष्णः कवोष्ण इत्यपि ॥ २५१८ ॥
7.2518 · p. 408
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
तथा मन्दोष्णनामापीषदुष्णस्य हि कथ्यते ।
7.51 · p. 408
अनुष्टुप्

* कर्कशनामानि *

कक्खटः खक्खटः क्रूरः कर्कशो निष्ठुरो दृढः ॥ २५१९ ॥
7.2519 · p. 408
अनुष्टुप्
कठोरः कठिनो मूर्तं मूर्तिमत् परुषस्तथा ।जठरो जरठश्चैव जरढश्च खरः पुनः ॥ २५२० ॥
7.2520 · p. 408
अनुष्टुप्
एतन्नामानि कथ्यन्ते कर्कशस्य हि कोविदैः ।
7.54 · p. 408
अनुष्टुप्

* कोमलनामानि *

कोमलः सुकुमारश्च सोमालोऽकर्कशो मृदुः ॥ २५२१ ॥
7.2521 · p. 409
अनुष्टुप्
मृदुलश्चेति नामानि कथ्यन्ते कोमलस्य वै ।
7.56 · p. 409
अनुष्टुप्metre not read in every linenearly अनुष्टुप्

* मधुरनामानि *

मधुरो मधुलः स्वादुः गुलयो मधूलकस्तथा ॥ २५२२ ॥
7.2522 · p. 409
अनुष्टुप्metre not read in every line
रसज्येष्ठश्च नामानि मन्यन्ते मधुरस्य वै ।
7.58 · p. 409
अनुष्टुप्

* अम्लनामानि *

अम्लो दन्तशठः प्रोक्तः पाचनोऽम्ब्लस्तथा स्मृतः ॥ २५२३ ॥
7.2523 · p. 409
अनुष्टुप्

* लवणनामानि *

प्रसिद्धो लवणश्चैव रसः सर्वरसस्तथा ।
7.60 · p. 409
अनुष्टुप्

* कटुनामानि *

कटुः स्यादोषणो लोके स एव मुखशोधनः ॥ २५२४ ॥
7.2524 · p. 409
अनुष्टुप्

* तिक्तनाम *

वक्त्रभेदी तथा तिक्तो नाम तिक्तरसस्य वै ।
7.62 · p. 409
अनुष्टुप्

* कषायनामानि *

कषायस्तुवरश्चैव तूवरोऽपि निगद्यते ॥ २५२५ ॥
7.2525 · p. 409
अनुष्टुप्

* सुगन्धनामानि *

सुरभिश्च समाकर्षी गन्धश्च घ्राणतर्पणः ।तथा जनमनोहारी निर्हारी नाम विद्यते ॥ २५२६ ॥
7.2526 · p. 410
अनुष्टुप्
विदूरगस्तथाऽऽमोदः स्याद्दूरगतगन्धवान् ।परिमलो विमर्दोत्थः कथ्यतेऽत्र सुगन्धवान् ॥ २५२७ ॥
7.2527 · p. 410
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
सुगन्धिरिष्टगन्धश्चैवाऽऽमोदी मुखवासनः ।
7.66 · p. 410
अनुष्टुप्

* दुर्गन्धनामानि *

दुर्गन्धः पूतिगन्धिश्च पूतिगन्धिकमुच्यते ॥ २५२८ ॥
7.2528 · p. 410
अनुष्टुप्
आमगन्धिस्तथा विस्रं कथ्यते कोविदैः पुनः ।
7.68 · p. 410
अनुष्टुप्

* श्वेतवर्णनामानि *

ख्याताः श्वेतादिकाः वर्णास्तेषां वर्णनमस्त्यधः ॥ २५२९ ॥
7.2529 · p. 410
अनुष्टुप्
शुक्लः श्वेतः सितः स्येतः शुभ्रश्च विशदः शुचिः ।अवलक्षो वलक्षश्चाऽवदातो धवलस्तथा ॥ २५३० ॥
7.2530 · p. 410
अनुष्टुप्
पाण्डरः पाण्डुरः पाण्डुर्गौरश्च हरिणोऽर्जुनः ।सप्तदशैव नामानि ईषत्पाण्डुस्तु धूसरः ॥ २५३१ ॥
7.2531 · p. 410
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 द (wrong syllable)

* विभिन्नवर्णनामानि *

कापोतश्च कपोताभः कपोतवर्णवान् भवेत् ।पोतश्च पीतलो गौरो हारिद्रः सितरञ्जनः ॥ २५३२ ॥
7.2532 · p. 410
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
पलाशः पीतनीलश्च पालाशो हरितो हरित् ।तालकाभः पुनर्नाम मन्यते हरितस्य वै ॥ २५३३ ॥
7.2533 · p. 411
अनुष्टुप्
रोहितो लोहितो रक्तो माञ्जिष्ठः शोण इत्यपि ।पाटलः श्वेतरक्तश्च श्वेतरक्तस्य नाम वै ॥ २५३४ ॥
7.2534 · p. 411
अनुष्टुप्
अरुणो बालसन्ध्याभः नामाऽरुणस्य वै खलु ।कपिलः कपिशः कद्रुः पीतरक्तश्च पिञ्जरः ॥ २५३५ ॥
7.2535 · p. 411
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 रु (wrong syllable)
पिशङ्गः पिङ्गलः पिङ्गः श्यावो बभ्रुस्तथा हरिः ।कडारश्चेति नामानि कथ्यन्ते कपिलस्य वै ॥ २५३६ ॥
7.2536 · p. 411
अनुष्टुप्
कृष्णः कालस्तथा नीलः श्यामश्च श्यामलोऽसितः ।शितिश्च मेचको रामो नव नामानि सन्ति वै ॥ २५३७ ॥
7.2537 · p. 411
अनुष्टुप्
रक्तश्यामस्तथा धूम्रो धूमलश्चापि मन्यते ।कल्माषः कर्बुरश्चैव चित्रश्च चित्रलः पुनः ॥ २५३८ ॥
7.2538 · p. 411
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
एतः कर्मीरकिर्मीरौ पनश्च शबलो भवेत् ।श्वेताच्छबलपर्यन्तं सर्वे शब्दाश्च पुंसि स्युः ॥ २५३९ ॥
7.2539 · p. 411
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 सि (wrong syllable)

* शब्दनामानि *

शब्दः स्वरो ध्वनिर्नादो निनादो निनदो रणः ।निःस्वानो निःस्वनः स्वानः निस्वानो निस्वनो स्वनः ॥ २५४० ॥
7.2540 · p. 411
अनुष्टुप्
निक्वाणो निक्वणः क्वणः क्वणश्च क्वणनं पुनः ।ध्वानो घोषश्च निर्घोष आराव आरवो रवः ॥ २५४१ ॥
7.2541 · p. 412
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 क्व (wrong syllable); pāda 4, syllable 3 व (wrong syllable)
विरावश्चापि संरावो ह्रादो रावस्तथा स्वनिः ।निर्ह्रादश्चेति त्रिंशन्नामानि शब्दबोधने ॥ २५४२ ॥
7.2542 · p. 412
अनुष्टुप्metre not read in every line

* सप्तस्वरनामानि *

षड्ज-ऋषभ-गान्धारा मध्यमः पञ्चमस्तथा ।धैवतो निषधः सप्त तन्त्रीकण्ठोद्भवाः स्वराः ॥ २५४३ ॥
7.2543 · p. 412
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ऋ (wrong syllable)

* स्पष्टीकरणम् *

षड्जं रौति मयूरस्तु गावो नर्दन्ति चर्षभम् ।अजाविकौ तु गान्धारं क्रौञ्चो नर्दति मध्यमम् ॥ २५४४ ॥
7.2544 · p. 412
अनुष्टुप्
पुष्पसाधारणे काले कोकिलो रौति पञ्चमम् ।अश्वस्तु धैवतं रौति निषादं रौति कुञ्जरम् ॥ २५४५ ॥
7.2545 · p. 412
अनुष्टुप्
उरोजातः स्वरो मन्द्रो मध्यः कण्ठज उच्यते ।तारो मस्तकजः प्रोक्तः स्वरज्ञैः पण्डितर्जनैः ॥ २५४६ ॥
7.2546 · p. 412
अनुष्टुप्

* शब्दभेदाः *

क्रन्दितं रुदितं चैव क्रुष्टं त्रिविधमुच्यते ।तदपुष्टन्तु विद्वद्भिर्गह्वरं मन्यते सदा ॥ २५४७ ॥
7.2547 · p. 412
अनुष्टुप्
शब्दो गुणानुरागोत्थः प्रणादः सीत्कृतं नृणाम् ।जयजयकारशब्दोऽयं क्रियते जगज्जनैः ॥ २५४८ ॥
7.2548 · p. 413
अनुष्टुप्metre not read in every line
पर्दनं गुदजः शब्दः कर्दनं कुक्षिजः पुनः ।क्ष्वेडा तु सिंहनादोऽस्ति भटानां गर्जना युधि ॥ २५४९ ॥
7.2549 · p. 413
अनुष्टुप्
युद्धाह्वाने निगद्येत क्रन्दनं सुभटध्वनिः ।कलकलः कोलाहलो युगपद्बहुभाषणम् ॥ २५५० ॥
7.2550 · p. 413
अनुष्टुप्metre not read in every line
व्याकुलो येन लोकः स्यात् तुमुलः स च उच्यते ।मर्मरो वस्त्रपर्णादेर्भूषणानां तु शिञ्जितम् ॥ २५५१ ॥
7.2551 · p. 413
अनुष्टुप्
हेषा ह्रेषा हि वाजीनां गजानां गर्जबृंहिते ।गर्जाऽपि गजशब्दोऽस्ति विस्फारो धनुषो रवः ॥ २५५२ ॥
7.2552 · p. 413
अनुष्टुप्
रम्भा हम्भा च गोशब्दे स्तनितं स्वनितं द्वयम् ।ध्वनितं गर्जितं गर्जिः रसितं मेघगर्जने ॥ २५५३ ॥
7.2553 · p. 413
अनुष्टुप्
पुनः प्रोक्तं विहङ्गानां कूजनं कूजितं द्वयम् ।तिरश्चां वाशितं चैव प्रसिद्धं वासितं रुतम् ॥ २५५४ ॥
7.2554 · p. 413
अनुष्टुप्
वृकशब्दो रेषणं स्याद् रेषा च पुनरुच्यते ।बुक्कनं स्याच्छुनः शब्दे भषणं च प्रयुज्यते ॥ २५५५ ॥
7.2555 · p. 413
अनुष्टुप्
पीडितानां रवो लोके कणितं कणितिस्तथा ।दम्पत्यो रतिकाले तु शब्दस्तु मणितं भवेत् ॥ २५५६ ॥
7.2556 · p. 413
अनुष्टुप्
वीणशब्दस्तु प्रक्वाणः प्रक्वणः कथ्यते बुधैः ।मृदंगजो हि गुन्दलो गुन्दुलोऽपि हि मन्यते ॥ २५५७ ॥
7.2557 · p. 413
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 स्तु (wrong syllable); pāda 3, syllable 7 न्द (wrong syllable)
क्षीजनं कीचकानां स्याद् भेर्या नादस्तु दद्रुरः ।तथाऽत्युच्चैर्ध्वनिस्तारः कथ्यते पण्डितैः किल ॥ २५५८ ॥
7.2558 · p. 414
अनुष्टुप्
मन्द्रो गम्भीरशब्दः स्यान् मद्रोऽपि मन्यते बुधैः ।कलः स्यान् मधुरशब्दः मन्दे मिष्टे च काकली ॥ २५५९ ॥
7.2559 · p. 414
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable); pāda 3, syllable 6 र (wrong syllable)
काकलिश्चेति नामापि कथ्यते कोविदैः पुनः ।लयानुग एकतालो गीतवादित्रसंयुते ॥ २५६० ॥
7.2560 · p. 414
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ग (wrong syllable)
काकुर्ध्वनिविकारश्च स्वरस्य विकृतौ भयात् ।प्रतिध्वनिः प्रतिश्रुच्च शब्दभेदो निगद्यते ॥ २५६१ ॥
7.2561 · p. 414
अनुष्टुप्

* समहनामानि *

समूहः समुदायश्च समुदयोऽपि सञ्चयः ।समवायश्च सङ्घातः सन्दोहः संहतिस्तथा ॥ २५६२ ॥
7.2562 · p. 414
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
आकर उत्करः कूटं कलापश्च कदम्बकम् ।निकरो निकुरम्बञ्च प्रकरः पेटकं गणः ॥ २५६३ ॥
7.2563 · p. 414
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
चक्रवालश्चयश्चक्रं जातं जालं च मण्डलम् ।निवहो विसरो चारो व्रातो वृन्दं तथा व्रजेः ॥ २५६४ ॥
7.2564 · p. 414
अनुष्टुप्
व्यूहो राशिस्तथा स्तोमः पुञ्जश्च पटलं पुनः ।ओघश्चेति हि नामानि समुदायस्य सन्ति वै ॥ २५६५ ॥
7.2565 · p. 414
अनुष्टुप्
खगव्राते तु यूथं स्यात् सङ्घः सार्थश्च देहिनाम् ।सजातीनां कुलं तेषां निकायस्तु सधर्मिणाम् ॥ २५६६ ॥
7.2566 · p. 415
अनुष्टुप्
वर्गस्तु सदृशां ज्ञेयो जडचेतनयोर्द्वयोः ।स्कन्धस्तु समुदायो वै नरकुञ्जरवाजिनाम् ॥ २५६७ ॥
7.2567 · p. 415
अनुष्टुप्
ग्रामो विषयशब्दोक्तभूतेन्द्रियगुणाद्गणे ।समजः स्यात् पशूनां वै समाजश्चान्यदेहिनाम् ॥ २५६८ ॥
7.2568 · p. 415
अनुष्टुप्
शौकं शुकसमूहे स्यात् मायूरं तु शिखिव्रजे ।तैत्तिरं तेत्तिरव्राते कथ्यते पुनरत्र वै ॥ २५६९ ॥
7.2569 · p. 415
अनुष्टुप्
कपोतसञ्चये प्रोक्तं कापोतं पण्डितैरिह ।भैक्षं भिक्षासमूहे स्यात् साहस्त्रं दशशतव्रजे ॥ २५७० ॥
7.2570 · p. 415
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 4 दश (syllable split)
गार्भिणं गर्भिणसमूहे यौवतं युवतिव्रजे ।गोत्रार्थप्रत्ययान्तानां स्युरौपगवकादयः ॥ २५७१ ॥
7.2571 · p. 415
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
उक्षादेरौक्षकं मानुष्यकं तु मनुष्यव्रजे ।वार्द्धकं वृद्धवृन्दे स्यादौष्ट्रकमुष्ट्रकव्रजे ॥ २५७२ ॥
7.2572 · p. 415
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 नु (wrong syllable); pāda 4, syllable 3 क (wrong syllable)
राजपुत्रसमूहे वै राजपुत्रकमुच्यते ।नृपाणां समुदाये स्याद् राजन्यकं च राजकम् ॥ २५७३ ॥
7.2573 · p. 415
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्य (wrong syllable)
आजकं कथ्यते लोकेऽजकानां प्रकरे बुधैः ।वात्सकं वत्सकव्यूहे मन्यते साक्षरैः पुनः ॥ २५७४ ॥
7.2574 · p. 415
अनुष्टुप्
उरभ्रकस्य सङ्घाते प्रोक्तमौरभ्रकं किल ।कवचिकचये चैव कावचिकं हि नाम वै ॥ २५७५ ॥
7.2575 · p. 415
अनुष्टुप्metre not read in every line
हास्तिकं हस्तिवृन्दे स्यादापूपिकाद्यचेतसाम् ।धेनूनां धेनुकं नाम मन्यते पण्डितैः पुनः ॥ २५७६ ॥
7.2576 · p. 416
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
धेन्वन्तानां हि शब्दानां कथ्यन्ते गोधेनुकादयः ।तेषां गोधेनुकानां वै प्रोक्ता गौधेनुकादयः ॥ २५७७ ॥
7.2577 · p. 416
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कैदारकं च कैदार्यं कैदारिकं हि तद्गणे ।ब्राह्मण्यं ब्राह्मणादेश्च माणव्यं माणवव्रजे ॥ २५७८ ॥
7.2578 · p. 416
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 रि (wrong syllable)
वाडव्यं वाडवव्यूहे कथ्यते कोविदैः पुनः ।गाणिक्यं गणिकानां तु केशानां कैश्यकैशिके ॥ २५७९ ॥
7.2579 · p. 416
अनुष्टुप्
अश्वमश्वीयमश्वानां पर्शूनां पार्श्वमुच्यते ।वातूलो वायुसंघातो वात्याऽपि कथ्यते पुनः ॥ २५८० ॥
7.2580 · p. 416
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)