कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पृष्ठ्य

pṛṣṭhyaपुं · masc.

In 9 kośas: 14 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1263 · p. 48
स्थौरीपृष्ठ्यः पृष्ठवाह्यो द्विदन्षोडन्द्विषड्रदौ ॥ १२६३ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.76
पृष्ठ्यः स्थौरी सितः कर्को रथ्यो वोढा रथस्य यः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सङ्कीर्णवर्गः Amarakośa 3.2.41
द्वे पर्शुकानां पृष्ठानां पार्श्वं पृष्ठ्यमनुक्रमात् ॥ ४१ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.199 · p. 111
किशोरोऽल्पवयस्कोऽश्वो रथ्यो वोढा रथस्य यः ।पृष्ठ्यः स्थूरी प्रसूरेषां वाम्यश्वा वडवार्वती ॥ १९९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.88 · p. 244
पृष्ठानामपि पृष्ठ्यं स्यात्खलानां खलिनी स्त्रियाम् ।खल्या मानुष्यकं नॄणां ग्रामता जनतापि च ॥ ८८ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.72 · p. 62
बाह्वृच्यं तद्वदौक्थिक्यं तद्धर्माम्नाययोरपि ।पृष्ठ्यं पृष्ठसमूहे स्याद्भवे मान्त्रं तथा व्रजे ॥ ७२ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.297 · p. 62
अतिभारवहे स्थौरी पृष्ठ्यः पटुकलः पटुः ।कर्कः सिताश्वे नीलाश्वे कलमः कन्धरः शरः ॥ २९७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2279 · p. 370
पृष्ठवाह्यस्तथा पृष्ठ्यः स्थौरी नामापि मन्यते ।द्विदन् षोडन् द्विषड्दन्तौ वहः स्कन्धोऽस्य बन्धनम् ॥ २२७९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.254 · p. 128
जवाधिकस्तु जवनस्तुङ्गवेगतुरङ्गमं ।भारवाहनशीलेऽश्वे पृष्ठ्यः स्थौरी च कीर्तितः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सङ्कीर्णवर्गप्रकाशः Śabdaratnāvalī 6.71 · p. 175
ब्राह्मण्यं ब्राह्मणानाञ्च वाडव्यं वाडवात्मनाम् ।पर्शुकानान्तु पार्श्वं स्यात् पृष्ठानां पृष्ठ्यमित्यपि ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.766 · p. 97
पृष्ठ्यस्तु पृष्ठवाहः स्यात् प्रष्ठवाड्युगपार्श्वगः ।औक्षकं संघ उक्ष्णां स्याद्गोशकृद्गोमयोऽस्त्रियाम् ॥ ७६६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण संकीर्णाध्यायः Śabdaratnākara 3.7.1740 · p. 210
हल्या हलानां ब्राह्मण्यबाडव्ये तु द्विजन्मनाम् ।पृष्टानां पर्शुकानां च पृष्ठ्यं पार्श्वं कदम्बके ॥ १७४० ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.56 · p. 69
भग्नशृंगपशुः कूटः प्रष्ठवाड्युगपार्श्वगः ।स्थूरी पृष्ठ्यः पृष्ठवाह्यः स्कन्धिकः स्कंधवाहकः ॥ ५६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश गणाध्यायः Vaijayantī 5.1.14 · p. 187
धूम्या वात्या पाश्या हल्या गल्या नट्या वन्या तृण्या ।पृष्ठ्यं तत्तद्वृन्दे सर्वं पार्श्वं बृन्दे पर्शूनां स्यात् ॥ १४ ॥
metre not recognised
genderक्लीneut.