All kośas › Śabdaratnāvalī
शब्दरत्नावली Śabdaratnāvalī
4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)
सङ्कीर्णवर्गप्रकाशः
(अतः परम् . . . . . . स्यात् स्फूर्तिमति चिद्रुप इत्यारभ्य निगडश्चारुबन्धने इत्यन्तपुनरुक्तः पाठो दृश्यते ।)
इति महाराज श्रीयुतमुछाखान मशलन्दएल्लि विरचितायां शब्दरत्नावल्यां विशेषणवर्गप्रकाशः ॥
प्रकृत्यर्थेन च क्वापि प्रत्ययार्थेन कुत्रचित् ।रूपभेदादिभिः क्वापि सङ्कीर्णे लिङ्गमुन्नयेत् ॥
6.1 · p. 171
अनुष्टुप्
कर्मक्रिया कृतिः कृत्या विधानञ्च विधिः स्त्रियाम् ।क्रियावताञ्च सातत्ये भवेयुरपरस्पराः ॥
6.2 · p. 171
अनुष्टुप्
क्रिया सातत्यमात्रे स्यादपरस्परमित्यपि ।भवेत् साकल्यवचने पारायणमिति स्फुटम् ॥
6.3 · p. 171
अनुष्टुप्
आसङ्गवचने स्यात्तु परायणमपि त्रिषु ।वृत्तिर्विनाभिसन्धानं यदृच्छास्वैरिता च सा ॥
6.4 · p. 171
अनुष्टुप्
स्थितिः कारणश्रुसय्या हि विलक्षणमिहोदितम् ।प्रशमोपशमौ शान्तिः प्रशान्तिः शमथः शमः ॥
6.5 · p. 171
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वृत्तं कर्मावदानं स्यात् कन्यादाने प्रवारणम् ।वशक्रिया संवदनं भवेत् संवननञ्च तत् ॥
6.7 · p. 171
अनुष्टुप्
विधूनने विधूवनं मूलकर्मणि कार्मणम् ।अवमानमपमाने तर्पणे प्रीणनावने ॥
6.8 · p. 171
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 व (wrong syllable); pāda 3, syllable 6 प (wrong syllable)
परित्राणे तु पर्याप्तिः तथा च हस्तवारणम् ।अनुमा स्यादनुमितिस्तथानुमानमित्यपि ॥
6.9 · p. 171
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable); pāda 4, syllable 3 नु (wrong syllable)
सीवनं सेवनं स्यूतिः स्यादूतिर्व्यूतिरित्यपि ।विदारणञ्च विदरो दारणं स्फुटनं भिदा ॥
6.10 · p. 171
अनुष्टुप्
अभिषङ्गस्तु शापः स्त्री गालिराक्रोशनं तथा ।भवेदनुभवे पुंसि संवेदो वेदना न ना ॥
6.11 · p. 171
अनुष्टुप्
सम्मूर्छनमभिव्याप्तौ छेदने वर्धनं भवेत् ।भिक्षार्थना प्रार्थनञ्च स्याद्याच्ञा याचनार्दना ॥
6.12 · p. 171
अनुष्टुप्
स्यातामाप्रच्छने च द्वे प्रानन्दनसभाजने ।आम्नायः सम्प्रदाये स्याद् क्षयमात्रे क्षयः क्षिया ॥
6.13 · p. 171
अनुष्टुप्
भवेदुच्छ्वास आश्वासे तेवनं देवनेऽपि च ।ग्रहग्राहौ च ग्रहणे निर्बन्धे च समीरितौ ॥
6.14 · p. 171
अनुष्टुप्
रक्ष्नस्त्राणे व्यधो वेधे वरणे तु वृतिर्वरः ।पचा पाको निपाकश्च पचने तु भवेत् त्रयम् ॥
6.16 · p. 171
अनुष्टुप्
ओषः प्लोषश्च दाहे स्यात् ज्यानिः जीर्णिश्च हानिषु ।आह्वानेषु हवो हूतिः स्फातिर्वृद्धौ स्नवः स्रवे ॥
6.17 · p. 171
अनुष्टुप्
स्पृष्टिः पृक्तिः स्पर्शने स्यात् नये नायो भवेदिह ।प्रमा प्रमाणं प्रमितौ प्रथा ख्यातौ निगद्यते ॥
6.18 · p. 172
अनुष्टुप्
विधा समृद्धौ प्रस्रावे स्रावस्रवस्रूवा अपि ।स्फरणं स्फुरणे क्लान्तौ क्लमथः क्लम इत्यपि ॥
6.19 · p. 172
अनुष्टुप्metre not read in every line
श्चोतः प्राधार इत्येवं घृतादिस्यन्दिते द्वयम् ।प्रसूतिः प्रसवः प्राणिगर्भमोचनके द्वयम् ॥
6.20 · p. 172
अनुष्टुप्
उत्कर्षः स्यादतिशये कथितो जयने जयः ।आशयो विषयोऽपि स्यात् द्वितयो नित्यसेविते ।क्षेपणे तु क्षिपाश्लेषे सन्धिः गूण्णमुद्यमे ॥
6.21 · p. 172
अनुष्टुप्metre not read in every line
गीर्णिर्गिरश्च गिरणे ज्ञाने तून्नाय उन्नयः ।उद्वेग उद्भ्रमेऽपि स्यात् श्रायस्तु श्रयणो मतः ॥
6.22 · p. 172
अनुष्टुप्
इश्चनादौ(?) घातकानां डिम्बे डमरविप्लवौ ।अस्त्रादिकलहे केचित्त्रयमेतत् प्रचक्षते ॥
6.27 · p. 172
अनुष्टुप्
प्रसितिर्बध्यते येन बन्धनञ्चार इत्यपि ।स्पर्शः स्प्रष्टोपतप्ता च रोगभेदे निगद्यते ॥
6.29 · p. 172
अनुष्टुप्
अथाभिप्रायानुरूपक्रियाविष्करणेऽपि च ।भृकुट्याद्यङ्गविकृतावाकार इङ्गइङ्गितम् ॥
6.31 · p. 172
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 र (wrong syllable)
चयभङ्गादपचयस्तथापहार इत्यपि ।राशौ द्वयोर्बहूनाञ्च समाहारः समुच्चयः ॥
6.33 · p. 172
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
अथ स्व स्व विषयेभ्य इन्द्रियाकर्षणे द्वयम् ।प्रत्याहार उपादानं प्रत्याहरणमित्यपि ॥
6.34 · p. 172
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ष (wrong syllable)
पद्भ्यां गमनभेदे तु विहारः स्यात् परिक्रमः ।अथ संग्रहसंग्राहौ संक्षेपे ग्रहणेऽपि च ॥
6.35 · p. 172
अनुष्टुप्
अभिहारोऽभिग्रहणे चाभियोगेऽपि कुत्रचित् ।निःसारापकर्षणे तु निर्हारोऽभ्यवकर्षणम् ।अनुहारोऽनुकारश्च सादृश्ये द्वितयं भवेत् ॥
6.36 · p. 172
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भि (wrong syllable); pāda 3, syllable 4 प (wrong syllable)
व्ययो वित्तसमुत्सर्गे प्रवहोऽपगमनं वहिः ।प्रवाहस्तु प्रवृत्तिः स्यादनवच्छिन्नसन्ततौ ॥
6.37 · p. 173
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 प्रव (syllable split)
निद्राक्षये तु जागर्या जागरा जागरोऽपि च ।विघ्नेऽन्तरायप्रत्यूहावुपघ्नो निकटाश्रये ॥
6.39 · p. 173
अनुष्टुप्
उपभोगे तु निर्वेशः पर्यवस्था विरोधनम् ।परिक्रिया परिमर्शः स्याज्जलादिकवेष्टने ॥
6.40 · p. 173
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
प्रविश्लषस्तु विधुरं दुःस्थितत्वे द्वयं भवेत् ।छन्दाशयावभिप्राये स्थितौ चास्यासनापि च ॥
6.41 · p. 173
अनुष्टुप्
संक्षेषनं समसनं विस्तीर्णार्थादिसंग्रहे ।परिसर्या परिसारः सर्वभूसरणे द्वयम् ॥
6.42 · p. 173
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
विस्तीर्णतायां विस्तारो विग्रहो व्यास इत्यपि ।विस्तरः शब्दसम्बन्धी लोकात्तुगुणविस्तरः ॥
6.43 · p. 173
अनुष्टुप्
संवाहनं मर्दनञ्च स्यात् संवहनमित्यपि ।गुप्तस्थितौ विनाशस्तु स्याददर्शनमित्यपि ॥
6.44 · p. 173
अनुष्टुप्
संस्तवः स्यात् परिचयस्तथा प्रणय इत्यपि ।वर्धने विटपादीनां प्रसरः परिसर्पणम् ॥
6.45 · p. 173
अनुष्टुप्
अथ प्रयामनिवाकौ धान्यादतिशयादरे ।समीपार्थे सन्निधिः स्यात् सन्निधं सन्निकर्षणम् ॥
6.46 · p. 173
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 नि (wrong syllable)
धान्यादीनां छेदनेऽभिलावश्च लवनं लवः ।धान्यादिनिर्वुषीकार्ये बहुलीकरणादिषु ।तथा च पूतीकरणे निष्पावः पवनं पवः ॥
6.47 · p. 173
अनुष्टुप्metre not read in every line
प्रस्तावः स्यादवसरः प्रस्तुते द्वितयं भवेत् ।त्र्यसरस्तसरोऽपि स्यात् सूत्रवेष्टनमित्यपि ॥
6.48 · p. 173
अनुष्टुप्
प्रश्रयः प्रणयेऽपि स्यात् संक्रामो दुर्गसञ्चरः ।द्वाविमौ प्रथमारम्भे प्रक्रमोपक्रमौ समौ ॥
6.51 · p. 173
अनुष्टुप्
प्रत्युत्क्रमप्रयोगार्थौ प्रयुद्धार्थावुभौ समौ ।अथाभ्यादानमारम्भ उद्घातश्च समा इमे ॥
6.52 · p. 174
अनुष्टुप्
प्रतिबन्धप्रतिष्टम्भौ समार्थौ सम्भ्रमे त्वरा ।निपातनश्चावनायः स्यादधोनयने द्वयम् ॥
6.53 · p. 174
अनुष्टुप्
उपलम्भश्चानुभवः पूर्वज्ञातार्थवेदने ।कुङ्कुमादिलेपनार्थे समालम्भो विलेपनम् ।विप्रयोगो विप्रलम्भो विलम्भस्त्वतिसर्जनम् ॥
6.54 · p. 174
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 दि (wrong syllable)
विश्रावस्तु प्रविख्यातिरत्यन्तख्यातिषु द्वयम् ।अथ प्रतिजागरः स्यादवेक्षा प्रत्यवेक्षणे ॥
6.55 · p. 174
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ति (wrong syllable)
पाठे निपठ-निपाठौ पठनञ्च पठः पठा ।अथाद्रीकरणेऽपि स्यात् तेमः स्तेनः समुन्दनम् ॥
6.56 · p. 174
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 नि (wrong syllable)
रोगरागादिना दुःखे क्लेश आदीनवास्रवौ ।मेलने सङ्गमः सङ्गो निषङ्गो मेल इत्यपि ॥
6.57 · p. 174
अनुष्टुप्
मार्गणं मृगणा मार्गो भवेद्विचयनं मृगः ।संवीक्षणञ्चापि हृतद्रव्यतात्पर्ययाचने ॥
6.58 · p. 174
अनुष्टुप्
परिरम्भः परीरम्भः संश्लेषः परिरम्भसाम् ।स्यादङ्कपालिराश्लेषः आलिङ्गनोपजूहने ॥
6.59 · p. 174
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्ग (wrong syllable)
दर्शनेक्षणनिध्यानालोकनञ्च निर्वर्णनम् ।प्रत्यादेशो निरसनं प्रत्याख्यानं निराकृतिः ॥
6.60 · p. 174
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 नि (wrong syllable)
विपर्यये विपर्यासो व्यत्यासो व्यत्ययोऽपि च ।अतिक्रमोऽतिपातश्च स्यात् पर्यय उपात्ययः ॥
6.62 · p. 174
अनुष्टुप्
भृत्यादिकं समाहूय प्रेषणं प्रतिशासनम् ।छन्दोगयागस्तुतिभूः संस्तावः सवेदिह (?) ॥उद्घनस्तक्ष्यते यत्रकाष्ठे काष्ठं निधाय सः ।स्यात् स्तम्बघ्नः स्तम्बघनः येन स्तम्बो निहन्यते ॥
6.63 · p. 174
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग (syllables merged)
आविधो विध्यते येन तत्रैव भ्रमरादिके ।निघो विष्वक्समः समानारोहपरिणाहके ॥
6.64 · p. 174
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 स (wrong syllable)
ध्यानादूर्ध्वप्रेरणादौ स्यादुत्कारो निकारवत् ।निगारोऽभ्यवहारे स्यादुद्गारो वमने स्वने ॥
6.65 · p. 174
अनुष्टुप्
विक्षावः शब्दभेदे स्याद् उद्ग्राह उर्ध्वधारणम् ।उपरामोऽप्यारतिः स्यात् विरत्यवरती अपि ॥
6.66 · p. 175
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ह (wrong syllable)
निष्ठेवनञ्च निष्ठ्यूतिः स्यात् निष्ठीवनमित्यपि ।निष्ठवोऽस्त्री श्लेष्मरक्तवमने तत् चतुष्टयम् ॥
6.67 · p. 175
अनुष्टुप्
अवसाने तु सातिः स्यात् जवने जूतिरित्यपि ।ज्वरे जूतिः स्यादुदजः पशूनां प्रेरणे मतः ॥
6.68 · p. 175
अनुष्टुप्
आक्रोशोऽकरणिश्च स्युरजीवनिमुखा अपि ।गोत्रान्तेभ्यस्तस्य वृन्दं स्यादौपगवकादिकम् ॥एवमचेतसां वृन्दे भवेत् शाष्कुलिकादिकम् ।मानवानान्तु यद्वृन्दं मानव्यं समुदाहृतम् ॥
6.69 · p. 175
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
ब्राह्मण्यं ब्राह्मणानाञ्च वाडव्यं वाडवात्मनाम् ।पर्शुकानान्तु पार्श्वं स्यात् पृष्ठानां पृष्ठ्यमित्यपि ॥
6.71 · p. 175
अनुष्टुप्
भवेत् खलानां खलिनी खल्या च समुदाहृता ।मानुष्यकं मनुष्यानां ग्रामानां ग्रामता भवेत् ॥
6.72 · p. 175
अनुष्टुप्
धूमानामपि धूम्या स्यात् जनानां जनतापि च ।पाश्या भवति पाशानां गल्या च गलवृन्दकम् ॥
6.73 · p. 175
अनुष्टुप्
सहस्राणान्तु साहस्रं वर्मिणां वार्मणं भवेत् ।कारीषाणाञ्च कारीषमथर्वाणामाथर्वणम् ॥
6.74 · p. 175
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 मा (wrong syllable)
परभागः परोत्कर्षे प्रणये सान्त्वना न ना ।प्रणिपातस्त्वनुनये त्वासारश्च सुहृद्बले ।प्रबन्धे गुम्फसन्दर्भेग्रन्थाश्च रचना न ना ॥
6.75 · p. 175
अनुष्टुप्
भगालं नरमुण्डे स्यात् चुलुकः प्रसृतौ पुमान् ।भावे पदार्थो धर्मश्च तत्त्वं सत्त्वञ्च वस्तु च ।स्यादाकूतमभिप्राये समुदाचार इत्यपि ॥
6.77 · p. 175
अनुष्टुप्
प्रतिरूप प्रतिछन्दो दर्शने तु निभालनम् ।छेकोक्तिर्वक्रभणितौ दुर्जातमसमञ्जसे ॥
6.78 · p. 175
अनुष्टुप्
शपने दुःषमं गालिः शास्त्रे तु स्मृतिरागमः ।झलज्झला स्यादास्फाले वसनग्रन्थिरुच्चयः ॥
6.79 · p. 175
अनुष्टुप्
स्तनाभोगः स्तनभर पर्यङ्कस्त्ववसक्थिका ।जलयन्त्रगृहं यत्तु समुद्रगृहमुच्यते ॥
6.80 · p. 176
अनुष्टुप्
स्त्रीपुंसयोर्यदन्योन्यं सम्भोगं प्रति कौतुकम् ।स शृङ्गार इति ख्यातः क्रीडारत्यादिकारकः ॥
6.81 · p. 176
अनुष्टुप्
प्राक्सङ्गीतं गुणनिका पूर्वरङ्गश्च स स्मृतः ।प्रस्तावना स्यादारम्भो मुखबन्धश्च स स्मृतः ॥
6.82 · p. 176
अनुष्टुप्
नाटके तु महारूपं गोमुखन्तूपलेपने ।अथ वाङ्मयभेदाः स्युश्चम्पूराख्यायिका कथा ॥
6.84 · p. 176
अनुष्टुप्
सर्गोद्यतपरिच्छेदपटलाध्यायसंग्रहाः ।उल्लासः परिवर्तश्च वर्गाङ्ककाण्डमस्त्रियाम् ॥
6.85 · p. 176
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्क (wrong syllable)
प्रकीर्णाह्णिकपर्वाणि प्रकाशो ग्रन्थसन्धयः ।प्रक्लीप्तिः परिभाषायाः शैली सङ्केतिकेति च ॥
6.86 · p. 176
अनुष्टुप्
हर्षादुत्सवकाले यदलङ्कारांशुकादिकम् ।आकृष्य गृह्यते पूर्णापात्रं पूर्णालकन्तु तत् ॥
6.87 · p. 176
अनुष्टुप्
हर्षस्वने किलकिला दुरभिः स्यादसद्ग्रहः ।अवसानं विरामः स्याद् हारिः पथिकसन्ततिः ॥
6.88 · p. 176
अनुष्टुप्
हक्को गजसमाह्वाने चडक्कोजनदासनौ(?) ।कष्टस्थाने चावकं स्यात् हल्लनं प्रचलायिते ॥
6.90 · p. 176
अनुष्टुप्
वक्कश्चाध्यवसायः स्याद् दर्पारम्भे तटस्फटः (?) ।कलञ्जौ तौ विषास्त्रेण हतौ यौ मृगपक्षिणौ ॥
6.92 · p. 176
अनुष्टुप्
पिण्डस्त्रीलिङ्गम् आहारे प्रतिवाणिस्तथोत्तरे ।मैत्रेयिका मित्रयुद्धे संवेशने रतिक्रिया ॥
6.93 · p. 176
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)