इति विशेष्यनिघ्नवर्गः
अथ सङ्कीर्णवर्गः
प्रकृतिप्रत्ययार्थाद्यैः सङ्कीर्णे लिङ्गमुन्नयेत् ।कर्म क्रिया तत्सातत्ये गम्ये स्युरपरस्पराः ॥ १ ॥
3.2.1
अनुष्टुप्
साकल्यासङ्गवचने पारायणतुरायणे ।यदृच्छा स्वैरिता हेतुशून्या त्वास्था विलक्षणम् ॥ २ ॥
3.2.2
अनुष्टुप्
शमथस्तु शमः शान्तिर्दान्तिस्तु दमथो दमः ।
3.2.3
अनुष्टुप्
अवदानं कर्म वृत्तं काम्यदानं प्रवारणम् ॥ ३ ॥
3.2.3
अनुष्टुप्
वशक्रिया संवननं मूलकर्म तु कार्मणम् ।
3.2.5
अनुष्टुप्
विधूननं विधुवनं तर्पणं प्रीणनावनम् ॥ ४ ॥
3.2.4
अनुष्टुप्
पर्याप्तिः स्यात्परित्राणं हस्तधारणमित्यपि ।
3.2.7
अनुष्टुप्
सेवनं सीवनं स्यूतिर्विदरः स्फुटनं भिदा ॥ ५ ॥
3.2.5
अनुष्टुप्
आक्रोशनमभीषङ्गः संवेदो वेदना न ना ।
3.2.9
अनुष्टुप्
सम्मूर्च्छनमभिव्याप्तिर्याञ्चा भिक्षार्थनार्दना ॥ ६ ॥
3.2.6
अनुष्टुप्
वर्धनं छेदनेऽथ द्वे आनन्दनसभाजने ।आप्रच्छन्नमथाम्नायः सम्प्रदायः क्षये क्षिया ॥ ७ ॥
3.2.7
अनुष्टुप्
ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रणः क्वणे ।
3.2.12
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 वृ (wrong syllable)
व्यधो वेधे पचा पाके हवो हूतौ वरो वृत्तौ ॥ ८ ॥
3.2.8
अनुष्टुप्metre not read in every line
ओषः प्लोषे नयो नाये ज्यानिर्जीर्णौ भ्रमो भ्रमौ ।
3.2.14
अनुष्टुप्
स्फातिर्वृद्धौ प्रथाख्यातौ स्पृष्टिः पृक्तौ स्नवः स्रवे ॥ ९ ॥
3.2.9
अनुष्टुप्
विधा समृद्धौ स्फुरणे स्फुरणा प्रमितौ प्रमा ।
3.2.16
अनुष्टुप्
प्रसूतिः प्रसवे श्च्योते प्राधारः क्लमथः क्लमे ॥ १० ॥
3.2.10
अनुष्टुप्
उत्कर्षोऽतिशये सन्धिः श्लेषे विषय आश्रये ।
3.2.18
अनुष्टुप्
क्षिपायां क्षेपणं गीर्णिर्गिरौ गुरणमुद्यमे ॥ ११ ॥
3.2.11
अनुष्टुप्
उन्नाय उन्नये श्रायः श्रयणे जयने जयः ।
3.2.20
अनुष्टुप्
निगादो निगदे मादो मद उद्वेग उद्भ्रमे ॥ १२ ॥
3.2.12
अनुष्टुप्
विमर्दनं परिमलोऽभ्युपपत्तिरनुग्रहः ।
3.2.22
अनुष्टुप्
निग्रहस्तद्विरुद्धः स्यादभियोगस्त्वभिग्रहः ॥ १३ ॥
3.2.13
अनुष्टुप्
मुष्टिबन्धस्तु संग्राहो डिम्बे डमरविप्लवौ ।
3.2.24
अनुष्टुप्
बन्धनं प्रसितिश्चारः स्पर्शः स्प्रष्टोपतप्तरि ॥ १४ ॥
3.2.14
अनुष्टुप्
निकारो विप्रकारः स्यादाकारस्त्विङ्ग इङ्गितम् ।
3.2.26
अनुष्टुप्
परिणामो विकारे द्वे समे विकृतिविक्रिये ॥ १५ ॥
3.2.15
अनुष्टुप्
अपहारस्त्वपचयः समाहारः समुच्चयः ।
3.2.28
अनुष्टुप्
प्रत्याहार उपादानं विहारस्तु परिक्रमः ॥ १६ ॥
3.2.16
अनुष्टुप्
अभिहारोऽभिग्रहणं निहारोऽभ्यवकर्षणम् ।
3.2.30
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भि (wrong syllable)
अनुहारोऽनुकारः स्यादर्थस्यापगमे व्ययः ॥ १७ ॥
3.2.17
अनुष्टुप्metre not read in every line
प्रवाहस्तु प्रवृत्तिः स्यात्प्रवहो गमनं बहिः ।
3.2.32
अनुष्टुप्
वियामो वियमो यामो यमः संयामसंयमौ ॥ १८ ॥
3.2.18
अनुष्टुप्
हिंसाकर्माभिचारः स्याज्जागर्या जागरा द्वयोः ।
3.2.34
अनुष्टुप्
विघ्नोऽन्तरायः प्रत्यूहः स्यादुपघ्नोऽन्तिकाश्रये ॥ १९ ॥
3.2.19
अनुष्टुप्
निर्वेश उपभोगः स्यात्परिसर्पः परिक्रिया ।
3.2.36
अनुष्टुप्
विधुरं तु प्रविश्लेषेऽभिप्रायश्छन्द आशयः ॥ २० ॥
3.2.20
अनुष्टुप्
संक्षेपणं समसनं पर्यवस्था विरोधनम् ।
3.2.38
अनुष्टुप्
परिसर्या परीसारः स्यादास्यात्वासना स्थितिः ॥ २१ ॥
3.2.21
अनुष्टुप्
विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः ।
3.2.40
अनुष्टुप्
संवाहनं मर्दनं स्याद्विनाशः स्याददर्शनम् ॥ २२ ॥
3.2.22
अनुष्टुप्
संस्तवः स्यात्परिचयः प्रसरस्तु विसर्पणम् ।
3.2.42
अनुष्टुप्
नीवाकस्तु प्रयामः स्यात्सन्निधिः सन्निकर्षणम् ॥ २३ ॥
3.2.23
अनुष्टुप्
लवोऽभिलावो लवने निष्पावः पवने पवः ।
3.2.44
अनुष्टुप्
प्रस्तावः स्यादवसरस्त्रसरः सूत्रवेष्टनम् ॥ २४ ॥
3.2.24
अनुष्टुप्
प्रजनः स्यादुपसरः प्रश्रयप्रणयौ समौ ।
3.2.46
अनुष्टुप्
धीशक्तिर्निष्क्रमोऽस्त्री तु संक्रमो दुर्गसञ्चरः ॥ २५ ॥
3.2.25
अनुष्टुप्
प्रत्युत्क्रमः प्रयोगार्थः प्रक्रमः स्यादुपक्रमः ।स्यादभ्यादानमुद्घात आरम्भः सम्भ्रमस्त्वरा ॥ २६ ॥
3.2.26
अनुष्टुप्
प्रतिबन्धः प्रविष्टम्भोऽवनायस्तु निपातनम् ।
3.2.49
अनुष्टुप्
उपलम्भस्त्वनुभवः समालम्भो विलेपनम् ॥ २७ ॥
3.2.27
अनुष्टुप्
विप्रलम्भो विप्रयोगो विलम्भस्त्वतिसर्जनम् ।
3.2.51
अनुष्टुप्
विश्रावस्तु प्रतिख्यातिरवेक्षा प्रतिजागरः ॥ २८ ॥
3.2.28
अनुष्टुप्
निपाठनिपठौ पाठे तेमस्तेमौ समुन्दने ।
3.2.53
अनुष्टुप्
आदीनवास्रवौ क्लेशे मेलके सङ्गसङ्गमौ ॥ २९ ॥
3.2.29
अनुष्टुप्
संवीक्षणं विचयनं मार्गणं मृगणा मृगः ।
3.2.55
अनुष्टुप्
परिरम्भः परिष्वङ्गः संश्लेष उपगूहनम् ॥ ३० ॥
3.2.30
अनुष्टुप्
निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम् ।
3.2.57
अनुष्टुप्
प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः ॥ ३१ ॥
3.2.31
अनुष्टुप्
उपशायो विशायश्च पर्यायशयनार्थकौ ।
3.2.59
अनुष्टुप्
अर्तनं च ऋतीया च हृणीया च घृणार्थकाः ॥ ३२ ॥
3.2.32
अनुष्टुप्
स्याद्व्यत्यासो विपर्यासो व्यत्ययश्च विपर्यये ।
3.2.61
अनुष्टुप्
पर्ययोऽतिक्रमस्तस्मिन्नतिपात उपात्ययः ॥ ३३ ॥
3.2.33
अनुष्टुप्
प्रेषणं यत्समाहूय तत्र स्यात्प्रतिशासनम् ।
3.2.63
अनुष्टुप्
स संस्तावः क्रतुषु या स्तुतिभूमिर्द्विजन्मनाम् ॥ ३४ ॥
3.2.34
अनुष्टुप्
निधाय तक्ष्यते यत्र काष्ठे काष्ठं स उद्धनः ।
3.2.65
अनुष्टुप्
स्तम्बघ्नस्तु स्तम्बघनः स्तम्बो येन निहन्यते ॥ ३५ ॥
3.2.35
अनुष्टुप्
आविधो विध्यते येन तत्र विष्वक्समे निघः ।
3.2.67
अनुष्टुप्
उत्कारश्च निकारश्च द्वौ धान्योत्क्षेपणार्थकौ ॥ ३६ ॥
3.2.36
अनुष्टुप्
निगारोद्गारविक्षावोद्ग्राहास्तु गरणादिषु ।
3.2.69
अनुष्टुप्metre not read in every line
आरत्यवरतिविरतय उपरामेऽथ स्त्रियां तु निष्ठेवः ॥ ३७ ॥
3.2.37
अनुष्टुप्metre not read in every line
निष्ठयूतिर्निष्ठेवननिष्ठीवनमित्यभिन्नानि ।
3.2.71
उद्गीतिःmetre not read in every line
जवने जूतिः सातिस्त्ववसाने स्यादथ ज्वरे जूर्तिः ॥ ३८ ॥
3.2.38
उद्गीतिःmetre not read in every line
उदजस्तु पशुप्रेरणमकरणिरित्यादयः शापे ।
3.2.73
metre not recognised
गोत्रान्तेभ्यस्तस्य वृन्दमित्यौपगवकादिकम् ॥ ३९ ॥
3.2.39
metre not recognised
आपूपिकं शाष्कुलिकमेवमाद्यमचेतसाम् ।
3.2.75
अनुष्टुप्
माणवानां तु माणव्यं सहायानां सहायता ॥ ४० ॥
3.2.40
अनुष्टुप्
हल्या हलानां ब्राह्मण्यवाडव्ये तु द्विजन्मनाम् ।
3.2.77
अनुष्टुप्
द्वे पर्शुकानां पृष्ठानां पार्श्वं पृष्ठ्यमनुक्रमात् ॥ ४१ ॥
3.2.41
अनुष्टुप्
खलानां खलिनी खल्याप्यथ मानुष्यकं नृणाम् ।
3.2.79
अनुष्टुप्
ग्रामता जनता धूम्या पाश्या गल्या पृथक्पृथक् ॥ ४२ ॥
3.2.42
अनुष्टुप्
अपि साहस्रकारीषचार्मणाथर्वणादिकम् ।
3.2.81