कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Kalpadrukośa

कल्पद्रुकोशः Kalpadrukośa

4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)

भूमिस्कन्धः · सङ्कीर्णकाण्डः (1/2)

इति विशेष्यनिघ्नकाण्डः ।

प्रकृतिप्रत्ययार्थाद्यैः संकीर्णे लिङ्गमुन्नयेत् ।विधिर्विधानं कर्मास्त्री क्रिया कृत्या विधा कृतिः ॥ १ ॥
1.10.1 · p. 234
अनुष्टुप्
अपि तत्कर्मसातत्ये स्युरेवमपरस्पराः ।साकल्यं साङ्गवचने पारायणपरायणे ॥ २ ॥
1.10.2 · p. 235
अनुष्टुप्
अतिवेगेन वेदादेः सम्यक् पारस्य दर्शने ।तुरायणं तत्र स्यात्त्वरयाऽत्वरयापि वा ॥ ३ ॥
1.10.3 · p. 235
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 णं (syllables merged)
तदेव पारणं क्लीबे स्युरेते पुरतः स्त्रियाम् ।यदृच्छा स्वैरिता हेतुशून्या त्वस्या विलक्षणम् ॥ ४ ॥
1.10.4 · p. 235
अनुष्टुप्
शमथस्तु शमः शान्तिः प्रशान्तिः प्रशमः पुनः ।उपशान्तिश्चोपशमो दान्तिस्तु दमथो दमः ॥ ५ ॥
1.10.5 · p. 235
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्चो (wrong syllable)
अवदानं कर्मवृत्तं काम्यदानं प्रवारणम् ।वशक्रिया संवननं स्यात्संवदनमित्यपि ॥ ६ ॥
1.10.6 · p. 235
अनुष्टुप्
विधूननं विधुवनं मूलैः कर्म तु कार्मणम् ।पर्याप्तिः स्त्री परित्राणं तर्पणं प्रीणनावने ॥ ७ ॥
1.10.7 · p. 235
अनुष्टुप्
स्याद्धस्तवारणं चाथ स्यूतिः सेवनसीवने ।स्त्रियां भिदानो विवरः स्फुटनं तु नपुंसकम् ॥ ८ ॥
1.10.8 · p. 235
अनुष्टुप्
परिवारः परीवारः स्वीये परिजने मतः ।परिवापः परीवापः स्थाप्ये बीजे परिच्छदे ॥ ९ ॥
1.10.9 · p. 235
अनुष्टुप्
परिहारः परीहारोऽधीकारोऽप्यधिकारवत् ।प्रस्रावस्तु स्रवः स्रावोऽनुहारोऽप्यनुकारवत् ॥ १० ॥
1.10.10 · p. 235
अनुष्टुप्
------------- प्रेषणे स्यान्मदे मादोऽथ धारणम् ।धरणेथ भरो भारः प्रणयः सान्त्वनाऽपि च ॥ ११ ॥
1.10.11 · p. 236
अनुष्टुप्metre not read in every line
तथा चानुनयोऽथ स्यान्मृगया मृगणा मृगः ।स्यान्मार्गणा मृगो घातेऽप्याघातश्च विघातकः ॥ १२ ॥
1.10.12 · p. 236
अनुष्टुप्
अभिषङ्गस्त्वभीषङ्गः स्यादाक्रोशनमित्यपि ।सम्मूर्छनमभिव्याप्तिः संवेदो वेदना न ना ॥ १३ ॥
1.10.13 · p. 236
अनुष्टुप्
व्याप्यं तु साधनं कर्म करणं साधकोत्तरम् ।स्तनाभोगस्तनभरश्चाजर्यं संगते युतम् ॥ १४ ॥
1.10.14 · p. 236
अनुष्टुप्
अपि स्याल्लहुडस्वल्पे सोमालं कुसुमाकरे ।पुंस्यखट्टिः स्त्रियां खाटी खाटिर्गरणगूरणे ॥ १५ ॥
1.10.15 · p. 236
अनुष्टुप्
स्नपनं स्नापनं तुल्ये परभागः स्वसम्पदि ।गुणोत्कर्षोऽपि भङ्गिस्तु वाक्कृतावप्लुते प्लवः ॥ १६ ॥
1.10.16 · p. 236
अनुष्टुप्
स्त्रियां श्लिषाङ्कपालिः स्यादङ्कपाल्युपगूहनम् ।क्लीबे परीरम्भणं च स्यादालिङ्गनमित्यपि ॥ १७ ॥
1.10.17 · p. 236
अनुष्टुप्
आश्लेषश्च परीरम्भः संश्लेषः परिरम्भणम् ।समुद्रपर्यायगृहं जलयन्त्रगृहे पुनः ॥ १८ ॥
1.10.18 · p. 236
अनुष्टुप्
क्रीडाक्रीडकयोर्देवसेवायां सेवकेन यः ।स दायो दानं दुर्जातं दुःसमं चासमञ्जसम् ॥ १९ ॥
1.10.19 · p. 236
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नं (wrong syllable)
विषाक्तबाणनिहतौ कलञ्जौ मृगपक्षिणौ ।याञ्चा तु याचना भिक्षाऽभ्येषणाऽप्यर्दनाऽपि च ॥ २० ॥
1.10.20 · p. 237
अनुष्टुप्
अर्दनी चार्दनिरपि स्त्रियः स्युः प्रार्थनार्थना ।अभ्यर्थना भिक्षणा च मार्गणामूः स्त्रियश्च षण् ॥ २१ ॥
1.10.21 · p. 237
अनुष्टुप्
अथाप्यानन्दनं चाप्रच्छनं चापि सभाजनम् ।ग्रन्थनं ग्रथनं गुम्फः प्रतिपत्तिः प्रगल्भता ॥ २२ ॥
1.10.22 · p. 237
अनुष्टुप्
प्रभुता प्रभवन्ती स्यात्संदर्भो रचना न ना ।दवथुः परितापः स्याद्दाक्षिण्यमनुकूलता ॥ २३ ॥
1.10.23 · p. 237
अनुष्टुप्
प्रणिपातस्त्वनुनयः प्रणतिः सान्त्वनं पुनः ।अपि ग्लानिस्तु क्लमथुरनुतापो विसूरणम् ॥ २४ ॥
1.10.24 · p. 237
अनुष्टुप्
कल्पानुताप्यकौ मान्द्यमालस्य चयने चयः ।वर्द्धना वञ्चनाऽपि स्याद्विचेष्टा विक्रमे समे ॥ २५ ॥
1.10.25 · p. 237
अनुष्टुप्
अथावृतं त्वाशयः स्यादपज्ञानमपात्ययः ।निभालनं निशमनं द्योतनं चावलोकनम् ॥ २६ ॥
1.10.26 · p. 237
अनुष्टुप्
निशामनं शिते शातं निशितं तेजितं समम् ।स्यादाशंसनमाघोषो विगानं वचनीयता ॥ २७ ॥
1.10.27 · p. 237
अनुष्टुप्
स्याद्वितर्को विकल्पोऽपि ह्यत्याधानमतिक्रमः ।वीप्सा क्रमोऽथ प्लवनं प्लवोऽथाप्यवसन्नता ॥ २८ ॥
1.10.28 · p. 237
अनुष्टुप्
सादः खेदश्च निर्वेदः उपादानं च संग्रहः ।क्रीडावियोगौ हानं च परित्यागोऽप्यथापि च ॥ २९ ॥
1.10.29 · p. 238
अनुष्टुप्
भणितं स्यादाच्छुरितं गोमुखं तूपलेपनम् ।वर्द्धापनार्थं यत्पूर्णपात्रं पूर्णानकं च तत् ॥ ३० ॥
1.10.30 · p. 238
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दा (wrong syllable)
लेशस्तूपपदं गन्धोऽनुबन्धेषत्करावपि ।गालिर्गाली स्त्रियौ क्लीबे विकल्पेऽप्यवमर्षणा ॥ ३१ ॥
1.10.31 · p. 238
अनुष्टुप्
स्यादाक्रोशनमाक्रोशः शपनं शमनं शमः ।वप्रस्तु धूलिकेदारः प्सा वीतिर्भक्षणं च सा ॥ ३२ ॥
1.10.32 · p. 238
अनुष्टुप्
मैत्रेयिका मित्रयुद्धं प्रत्ययाः सहकारिणः ।अथ हेतुरुपादानं व्याप्यं लिङ्गं च साधनम् ॥ ३३ ॥
1.10.33 · p. 238
अनुष्टुप्
अनुमा त्वनुमानं स्यात्पुंसि चानुमितिः स्त्रियाम् ।प्रत्यक्षोपाक्षमध्यक्षं प्रमाणं प्रमितिः प्रमा ॥ ३४ ॥
1.10.34 · p. 238
अनुष्टुप्
आप्तः प्राप्तः प्रणिहिते दोहनं तूपयाचितम् ।भ्रमो ना विस्मृतिश्च स्त्री धन्धो धान्ध्यमपाटवम् ॥ ३५ ॥
1.10.35 · p. 238
अनुष्टुप्
ऋषिः शास्त्रकृदाचार्यः शास्त्रं तु स्मृतिरागमः ।रामेण रावणवधो रामायणमथोच्चयः ॥ ३६ ॥
1.10.36 · p. 238
अनुष्टुप्
वस्त्रग्रन्थिश्च नीवी स्यात्कौमुदी कार्तिकोत्सवः ।आवेशारम्भसंरम्भाः प्रियवाक् चटुचाटुनी ॥ ३७ ॥
1.10.37 · p. 238
अनुष्टुप्
प्रतिरूपं प्रतिच्छेदः सवेशनरतिक्रिये ।शालीनीकरणन्यग्भावने गन्धनसूचने ॥ ३८ ॥
1.10.38 · p. 239
अनुष्टुप्
भावः पदार्थो धर्मः स्यात्सत्त्वं तत्त्वं च वस्तु च ।वर्धनं छेदनं व्युष्टिः फलमाम्नाय इत्यपि ॥ ३९ ॥
1.10.39 · p. 239
अनुष्टुप्
संप्रदायोऽथ विश्रम्भो विश्वासोऽथ क्षये क्षिया ।ग्रहे ग्राहो वशः कान्तौ रक्षा त्राणे रणः क्वणे ॥ ४० ॥
1.10.40 · p. 239
अनुष्टुप्
व्यधा वेधे पचा पाके विपाकः पचनं पुनः ।विश्रामविश्रमौ तुल्यौ हवो हूतौ वरो वृतौ ॥ ४१ ॥
1.10.41 · p. 239
अनुष्टुप्
ओषः प्लोषे नयो नाये ज्यानिर्जीर्णिर्भ्रमो द्वयोः ।स्त्रियौ भ्रमिर्भ्रमी च द्वे स्फातिर्वृद्धौ च भक्षणे ॥ ४२ ॥
1.10.42 · p. 239
अनुष्टुप्
वृत्तेऽनुवृत्तमावृत्तं प्रीणने तर्पणेऽवनम् ।बोधे बोधिः प्रथा ख्यातौ स्पृष्टिः पृक्तौ स्तुतिः स्तवे ॥ ४३ ॥
1.10.43 · p. 239
अनुष्टुप्
विधा समृद्धौ स्फुरणं स्फुलनं स्फुरितेऽपि च ।उत्कर्षोऽतिशये संधिः श्लेषे विषय आशये ॥ ४४ ॥
1.10.44 · p. 239
अनुष्टुप्
क्षिपायां क्षेपणं गीर्णिर्गिरौ गुरणमुद्यमे ।उन्नाय उन्नये श्रायः श्रयणे जयने जयः ॥ ४५ ॥
1.10.45 · p. 239
अनुष्टुप्
निगादो निगदे मादो मद उद्वेग उद्भ्रमे ।विमर्दनं परिमलेऽभ्युपपत्तिरनुग्रहे ॥ ४६ ॥
1.10.46 · p. 239
अनुष्टुप्
फालिः फाली स्त्रियां छेदे खण्डोऽस्त्री रदनं रदः ।विधूननं विधुवनं धुवनं च विधूवने ॥ ४७ ॥
1.10.47 · p. 240
अनुष्टुप्
संक्षेपे च समाहारः संग्राहः संग्रहः समौ ।आप्तिर्व्याप्तिश्च संप्राप्तिः पर्याप्तिः प्राप्तिरित्यपि ॥ ४८ ॥
1.10.48 · p. 240
अनुष्टुप्
कामः काम्ये ग्रहे ग्राहो ग्लपनं ग्लापनं समम् ।असद्ग्राहे संसरणं संसारः संसृतिः स्त्रियाम् ॥ ४९ ॥
1.10.49 · p. 240
अनुष्टुप्
तुल्यान्यशौचमाशुच्यमाशौचं चाथ पैशुनम् ।पैशुन्यमथ नैपुण्यं नैपुणं चाथ चापलम् ॥ ५० ॥
1.10.50 · p. 240
अनुष्टुप्
चापल्यमथ सौहार्दं सौहृदप्यं च सौहृदम् ।इत्यादयः क्रियाशब्दा ऊह्या धातुजलक्षणैः ॥ ५१ ॥
1.10.51 · p. 240
अनुष्टुप्
अभियोगस्त्वभिषहो निग्रहस्त्वननुग्रहः ।मुष्टिबन्धस्तु संग्राहो डिम्बो डिम्बिरविप्लवौ ॥ ५२ ॥
1.10.52 · p. 240
अनुष्टुप्
बन्धनं प्रसितिश्चारः स्पृष्टिः स्पशोपतप्तता ।विकारो विप्रकारः स्यादाकारस्त्विङ्ग इङ्गितम् ॥ ५३ ॥
1.10.53 · p. 240
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्प (wrong syllable)
परिणामो विकारः स्याद्विकृतिर्विक्रिया समे ।अपहारस्त्वपचर्या समाहारः समुच्चयः ॥ ५४ ॥
1.10.54 · p. 240
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable)
प्रत्याहार उपादानं विहारस्तु परिक्रमः ।अभिहारोऽभिग्रहणं निर्हारोऽभ्यवकर्षणम् ॥ ५५ ॥
1.10.55 · p. 240
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भि (wrong syllable)
अनुहारोऽनुकारः स्यात्सादृश्येऽथार्थवर्त्तनम् ।व्ययः संकटसंबाधौ परिपाट्यानुपूर्व्यपि ॥ ५६ ॥
1.10.56 · p. 241
अनुष्टुप्
निर्बन्धाऽभिनिवेशः स्यात्प्रवेशोन्तर्विगाहनम् ।स्यात्प्रवृत्तिस्तु प्रवाहः प्रवहो गमनं बहिः ॥ ५७ ॥
1.10.57 · p. 241
अनुष्टुप्
वियामो विगमे दिग्धं प्लुते चीर्णं तु शीलितम् ।श्वभ्रोऽवपातो ज्ञानं तु समज्ञा स्यान्मुदागमः ॥ ५८ ॥
1.10.58 · p. 241
अनुष्टुप्
हृल्लेखस्तर्क उत्सिक्त उद्धतो राजमल्लकः ।प्रमुखं तु तदात्वं स्यात्सहायाः सहभाविनः ॥ ५९ ॥
1.10.59 · p. 241
अनुष्टुप्
षोढा षड्ढा च षड्धा स्यात् प्रकारवचने पुनः ।द्वैविध्यं द्विविधं यामो यमसंयामसंयमाः ॥ ६० ॥
1.10.60 · p. 241
अनुष्टुप्
व्यायामोऽपि वियामश्च वियमो यमकः पुनः ।हिंसाकर्माभिचारः स्याज्जागर्या जागरा समे ॥ ६१ ॥
1.10.61 · p. 241
अनुष्टुप्
विघ्नोऽन्तरायः प्रत्यूह उपघ्नस्त्वन्तिकाश्रये ।स्यातां निवेशनिर्वेशावुपभोगः परिक्रिया ॥ ६२ ॥
1.10.62 · p. 241
अनुष्टुप्
परिसर्पोऽथ विधुरं परिश्लेषेऽप्यथाश्रयः ।छन्दाशयौ समसनं संक्षेपणमथापि च ॥ ६३ ॥
1.10.63 · p. 241
अनुष्टुप्
परिसर्या परीसारः स्यादास्या त्वासना स्थितिः ।विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः ॥ ६४ ॥
1.10.64 · p. 241
अनुष्टुप्
स्यान्मर्दनं संवहनं विनाशः स्याददर्शनम् ।संस्तवः स्यात्परिचयः प्रसरस्तु विसर्पणम् ॥ ६५ ॥
1.10.65 · p. 242
अनुष्टुप्
लवो निलावो लवने निः पावः पवनं पवः ।स्यात्प्रस्तावस्त्ववसरः प्रश्रयप्रणयौ समौ ॥ ६६ ॥
1.10.66 · p. 242
अनुष्टुप्
धीशक्तिर्विक्रमो दुर्गसंचरः संक्रमोऽस्त्रियाम् ।प्रत्युत्क्रमः प्रयोगार्थः स्यात्प्रक्रम उपक्रमः ॥ ६७ ॥
1.10.67 · p. 242
अनुष्टुप्
स्यात्प्रत्यादानमुद्घात आरम्भः संभ्रमस्त्वरा ।अनुक्रमः क्रमोऽथ स्यात् क्रान्तोऽधिक्रम आक्रमे ॥ ६८ ॥
1.10.68 · p. 242
अनुष्टुप्
आरोहणं प्रतिक्रमो व्युत्क्रमस्तु क्रमोत्क्रमः ।हीनातिरिक्तता वाक्यहीने नीवाक इत्यपि ॥ ६९ ॥
1.10.69 · p. 242
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 क्र (wrong syllable)
निवाकश्च प्रवाकश्च संनिधिः संनिकर्षणम् ।प्रतिबन्धः प्रतिष्टम्भोऽवनायस्तु निपातनम् ॥ ७० ॥
1.10.70 · p. 242
अनुष्टुप्
स्याच्चावनयनं चोपलम्भस्त्वनुभवोऽपि च ।विप्रलम्भो विप्रयोगः समालम्भो विलेपने ॥ ७१ ॥
1.10.71 · p. 242
अनुष्टुप्
विश्रावस्तु प्रतिख्यातिर्विलम्भस्त्वतिसर्जनम् ।निपाठो निपठः पाठेऽवेक्षा तु प्रतिजागरः ॥ ७२ ॥
1.10.72 · p. 242
अनुष्टुप्
तेम तेमः समुदने स्यादादीनव आस्रवः ।केशेऽथ मेलके मेलः संगमोऽथावलोकनम् ॥ ७३ ॥
1.10.73 · p. 242
अनुष्टुप्
निर्वर्णनं स्यान्निध्यानमीक्षणं दर्शनं समम् ।प्रत्याख्याने निरसनं प्रत्यादेशो निराकृतिः ॥ ७४ ॥
1.10.74 · p. 243
अनुष्टुप्
उपशायो विशायश्च शयनार्थाभिधायिनौ ।आर्त्तनं च ऋतीया च घृणीया च घृणार्थके ॥ ७५ ॥
1.10.75 · p. 243
अनुष्टुप्
व्यत्यासस्तु विपर्यासो व्यत्ययश्च विपर्ययः ।पर्यायातिक्रमस्तस्मिन्नतिपात उपात्ययः ॥ ७६ ॥
1.10.76 · p. 243
अनुष्टुप्
प्रेषणं यत्समाहृत्य तत्तु स्यात्प्रतिशासनम् ।ससंस्तावस्तु विज्ञेयः स्तुतिभूमिर्द्विजन्मनाम् ॥ ७७ ॥
1.10.77 · p. 243
अनुष्टुप्
काष्ठे निधाय यत्काष्ठं तक्ष्यतेऽधः स उद्घनः ।स्तम्बघ्नस्तु स्तम्बघनो येन स्तम्बो निहन्यते ॥ ७८ ॥
1.10.78 · p. 243
अनुष्टुप्
आविधो विध्यते येन तत्र विष्वक्समे निघः ।उत्कारश्च निकारश्च द्वौ धान्योत्क्षेपणार्थकौ ॥ ७९ ॥
1.10.79 · p. 243
अनुष्टुप्
निगारोद्गारनिक्षावा उद्ग्राहो गरणादिषु ।उपरामे त्ववाविभ्यो रतिर्नाशस्त्वभावके ॥ ८० ॥
1.10.80 · p. 243
अनुष्टुप्
सम्मूर्च्छनं त्वभिव्याप्तिरवेक्षा प्रतिजागरः ।जीवकस्तु प्रयासः स्यात्परिणामस्तु विक्रिया ॥ ८१ ॥
1.10.81 · p. 243
अनुष्टुप्
नियोगो विधिसंप्रेषो विनियोगः फलार्पणम् ।स्याद्विश्वासस्तु संरम्भः क्लीबे निष्ठेवनं पुनः ॥ ८२ ॥
1.10.82 · p. 243
अनुष्टुप्
निष्ठीवनं च निष्ठेवो निष्ठ्यूतिश्च स्त्रियामियम् ।जूतिः स्याज्जवनेऽथापि तद्वदेवावसानके ॥ ८३ ॥
1.10.83 · p. 244
अनुष्टुप्
सातिर्जूतिर्ज्वरेऽथैवमुदजः प्रेरणं पशोः ।अकरणिस्त्वजीवनिश्चाभवनिरजननिः ॥ ८४ ॥
1.10.84 · p. 244
अनुष्टुप्metre not read in every line
शब्दा इत्यादयः प्रायो विज्ञेयाः क्षेपणार्थकाः ।गोत्रान्तेभ्यस्तस्य वृन्दमेवमौपगवादिकम् ॥ ८५ ॥
1.10.85 · p. 244
अनुष्टुप्
आपूपिकं शाष्कुलिकमेवमाद्यमचेतसाम् ।मानवानां तु मानव्यं सहायानां सहायता ॥ ८६ ॥
1.10.86 · p. 244
अनुष्टुप्
हल्या हलानां ब्राह्मण्यं ब्राह्मणानामथापि च ।वाडवानां तु वाडव्यं पर्शूनां पार्श्वमित्यपि ॥ ८७ ॥
1.10.87 · p. 244
अनुष्टुप्
पृष्ठानामपि पृष्ठ्यं स्यात्खलानां खलिनी स्त्रियाम् ।खल्या मानुष्यकं नॄणां ग्रामता जनतापि च ॥ ८८ ॥
1.10.88 · p. 244
अनुष्टुप्
धूम्या पाश्या तथा गण्या गव्या साहस्रमित्यपि ।कारीषं वार्मणं चाथाथर्वर्णं चापि वार्द्धकम् ॥ ८९ ॥
1.10.89 · p. 244
अनुष्टुप्
चर्चुराकं धनुकृता ववहारो वहारणम् ।युद्धस्य वारणे स्यात्तु श्च्योतः प्राघार इत्ययम् ॥ ९० ॥
1.10.90 · p. 244
अनुष्टुप्
आज्यादिक्षरणे यत्तु कुङ्कुमादिविमर्दनम् ।तस्मिन्परिमलः स्यात्तु प्राद्वदीकरणग्रहिः ॥ ९१ ॥
1.10.91 · p. 244
अनुष्टुप्
आङो हठे परेस्तु स्यात्प्रत्युद्गमनकर्मणि ।प्रतेस्तु स्वीकृतौ सोभेरभियोगे समस्तु सः ॥ ९२ ॥
1.10.92 · p. 245
अनुष्टुप्
संचये चाहिताधाने तद्विरुद्धे तु नेः परः ।उदस्तु पिच्युपन्यासे ग्रहणे तु प्रतीच्छतिः ॥ ९३ ॥
1.10.93 · p. 245
अनुष्टुप्
स्पशश्चारक्रियायां तु शमति स्वेच्छया गते ।अवाद्वलानत उदस्तुङ्गत्वे विकृतौ परेः ॥ ९४ ॥
1.10.94 · p. 245
अनुष्टुप्
प्रात्करोतिर्भेदसाम्ये आहाङस्त्वाकृतिं पुनः ।अपाद्विरोधं भूषा तु समोऽनोस्तु समानताम् ॥ ९५ ॥
1.10.95 · p. 245
अनुष्टुप्
अधेः प्रधानतां नेस्तु जैह्म्यं हृस्तु समुच्चये ।समाङ्भ्यां संयमे प्रत्याङ्पूर्वोऽवः पदसंचरे ॥ ९६ ॥
1.10.96 · p. 245
अनुष्टुप्
क्रीडावाङः परो भक्षानीत्योः स्यात्प्रलये समः ।प्राप्तावङ्वेदनोः साम्येऽवान्निवृत्तौ परेस्तु सः ॥ ९७ ॥
1.10.97 · p. 245
अनुष्टुप्
त्यागेऽवढौकने तूषात्संमुखग्रहणे त्वभेः ।चौर्येऽपि निर उद्धारे शवस्योद्वहनेऽपि च ॥ ९८ ॥
1.10.98 · p. 245
अनुष्टुप्
विडुत्सर्गे च शपथेऽथोद ऊर्ध्वीकृतावपि ।प्रवहस्तु बहिर्यात्रा प्रवाहोम्ब्वादिसंततिः ॥ ९९ ॥
1.10.99 · p. 245
अनुष्टुप्
उपोढो निकटप्राप्तेऽथापोढः परिवर्जिते ।समूढः स्यादुपचिते निर्व्यूढस्तु समापिते ॥ १०० ॥
1.10.100 · p. 245
अनुष्टुप्
निरूढस्तु भवेत्ख्यातेऽध्यूढोऽधिष्ठित उच्यते ।द्विरागमस्तु वध्वा यः स आवाहोऽथ संनिधौ ॥ १०१ ॥
1.10.101 · p. 246
अनुष्टुप्
आवाहनं स्यादावाहेऽथोपात्परिणये यमिः ।आङो दैर्घ्ये नेः स्तनिः स्यात् कुन्थनेभिनिरुत्तरः ॥ १०२ ॥
1.10.102 · p. 246
अनुष्टुप्
सोऽत्यन्तशब्दे सत्तिः प्रात् प्रीतावाङस्तु संनिधौ ।वेर्दुःख आसने नेः स्यात्सेवने चोपपूर्वकः ॥ १०३ ॥
1.10.103 · p. 246
अनुष्टुप्
अभेः षञ्जिः पराभूतौ क्रोधे च चरतिस्त्वभेः ।परो निष्ठाध्यवसितौ पर्युपाभ्यां तु सेवने ॥ १०४ ॥
1.10.104 · p. 246
अनुष्टुप्
अपराधे त्वपादाङोऽनुत्थानेऽनुगमे त्वनोः ।प्रतिसंभ्यां तु संहारे प्रत्यूहे विघ्नगण्डकौ ॥ १०५ ॥
1.10.105 · p. 246
अनुष्टुप्
भोगे निरो विशिर्नेस्तु विवाहशयने समः ।आसने स उपात्स्यातां द्वौ परिच्छदवेष्टने ॥ १०६ ॥
1.10.106 · p. 246
अनुष्टुप्
परिक्रिया परीसर्पो विधुरम् विकले त्रिषु ।आकूतच्छन्दसी छन्दभावौ यत्तूपमन्त्रणम् ॥ १०७ ॥
1.10.107 · p. 246
अनुष्टुप्
रहस्तूपच्छन्दनं तत् संक्षेपे तु समस्यतिः ।वेर्विस्मृतेऽभिराधानेऽभेरभ्यासे भ्रमे त्वधेः ॥ १०८ ॥
1.10.108 · p. 246
अनुष्टुप्
तुर्याश्रमे संनिपरः स विरोधे तु तिष्ठतिः ।पर्यवात्प्रत्यवाच्चाङो यत्ने प्रात्तु गतौ नितः ॥ १०९ ॥
1.10.109 · p. 246
अनुष्टुप्
निश्चयेऽनोस्त्वाचरण उत्पूर्वस्तूर्ध्वकर्मणि ।विष्वग्गतौ परीसारः परिसर्या प्रसर्पणम् ॥ ११० ॥
1.10.110 · p. 247
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्त्वा (wrong syllable)
वरादौ वा कुलादौ वा गुप्तिरेष्टव्यकर्मभिः ।सैव गुप्तमणिर्गुप्तिकेलिश्च स्यान्निलायनम् ॥ १११ ॥
1.10.111 · p. 247
अनुष्टुप्
सर्पणे तु व्रणादीनां प्रसरोऽथ प्रयामकः ।नीवाकश्च महार्घस्य धान्यादेरादरे नहि ॥ ११२ ॥
1.10.112 · p. 247
अनुष्टुप्
ऊहापोहादिके बुद्धिशक्तौ निष्क्रम उच्यते ।अवनायः खलीकारोप्यधोनयनकर्मणि ॥ ११३ ॥
1.10.113 · p. 247
अनुष्टुप्
उपपूर्वो लभिर्धातुरनुभूतार्थवाचकः ।विलेपने कुङ्कुमाद्यैः समालम्भोथ विप्रतः ॥ ११४ ॥
1.10.114 · p. 247
अनुष्टुप्
लभिर्वियोगे वेर्दान आङस्तु स्पर्शने वधे ।कूणनं तु भवेत्किञ्चित्संकोचे प्रतिबिम्बने ॥ ११५ ॥
1.10.115 · p. 247
अनुष्टुप्
फलनं मार्गणान्वीक्षा संवीक्षावचयोऽपि च ।समः संग्रहणे चिञ् स्यादुपाद्वृद्धौ क्षये त्वपात् ॥ ११६ ॥
1.10.116 · p. 247
अनुष्टुप्
शीलने तु परेर्ज्ञाने तिरोऽप्याभण्डने क्षणे ।अपात्तु ध्यायतिः शापे आङस्तूत्कण्ठितस्मृतौ ॥ ११७ ॥
1.10.117 · p. 247
अनुष्टुप्
क्रमात्प्रहरिकादेर्यच्छयनं तत्र पुंस्ययम् ।उपशायो विशायश्च स्यातामुपशयस्तु यः ॥ ११८ ॥
1.10.118 · p. 247
अनुष्टुप्
वस्तुना येन रोगस्योपचयोऽथ कृतीचयः ।समावीज्या च हृणिया हृणीयाऽथ क्रतौ पुमान् ॥ ११९ ॥
1.10.119 · p. 248
अनुष्टुप्
संस्तावः स्तुतिभूस्तुल्यायामविस्तारके निघः ।विस्मितो भवतीत्यर्थे भवेत् कुहकुहायते ॥ १२० ॥
1.10.120 · p. 248
अनुष्टुप्