कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

विश्वजनीन

viśvajanīnaवि · adj.

In 2 kośas: 2 synonym verses.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.11 · p. 210
दायादो भागधेयोऽथ भावे ज्ञातेयमन्तिमे ।बन्धुता तु व्रजे लोको जनो विट् चर्षणिः प्रजा ।जनकीयं जनस्येदं * * * * * * * * ।त्रिषु सार्वजनीनः स्यात्साधुः सर्वजनेषु यः ।* * * * * * * * जनता स्त्री जनव्रजे ।भवेद्विश्वजनीनं तद्धितं विश्वजनाय यत् ।स्यात्सार्वजनिकं सर्वजनीनं च विशेष्यवत् ॥सर्वेभ्योऽपि जनेभ्यो यद्धितं वस्तु भवेदिह ।एवं प्रातिजनीनः स्यान्माहाजनिक इत्यपि ॥तथा पञ्चजनीनश्च सर्वीयः सार्ववत्स्मृतः ।त्रिषु स्वो निज आत्मीय * * * सौव इत्यपि ॥ ११ ॥
अनुष्टुप्metre not read in every line
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1652 · p. 198
स तु विश्वजनीनः स्याद्धितो विश्वजनाय यः ।आत्मनीनस्त्वात्महितः सार्वः सर्वहितश्च यः ॥ १६५२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्त्वा (wrong syllable)
genderविadj.