जन
janaपुं · masc.In 17 kośas: 15 synonym verses, 7 as a nānārtha head word, 38 as a meaning of another word.
ग्रामेयके तु ग्रामीणग्राम्यौ लोको जनः प्रजाः ॥ ५०१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नीवृज्जनपदो देश उपवर्तनमिष्यते ।जनो लोकः प्रजा प्रोक्ता विषयो ग्रामसंख्यया ॥ २८४ ॥
अनुष्टुप्
genderपुंmasc.
अथ ब्रह्मजटायां तु सल्लज्जं दानवं जनम् ।पुण्डरीकं दवनकं कान्तं दान्तं मुनिर्मरुः ॥ २३२ ॥
अनुष्टुप्
genderक्लीneut.
अण्डीरा जगतः पञ्चजनाश्चर्षणयः पुनः ।मन्तवो भूतलस्थाना द्विपदाश्चेतना जनाः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
अनातोद्येऽपि च घनः शब्दे ध्वानस्वनौ ततः ।जताह्रामिजनानां च देवनेन समं पुनः ॥ ५७ ॥
अनुष्टुप्
genderपुंmasc.
दायादो भागधेयोऽथ भावे ज्ञातेयमन्तिमे ।बन्धुता तु व्रजे लोको जनो विट् चर्षणिः प्रजा ।जनकीयं जनस्येदं * * * * * * * * ।त्रिषु सार्वजनीनः स्यात्साधुः सर्वजनेषु यः ।* * * * * * * * जनता स्त्री जनव्रजे ।भवेद्विश्वजनीनं तद्धितं विश्वजनाय यत् ।स्यात्सार्वजनिकं सर्वजनीनं च विशेष्यवत् ॥सर्वेभ्योऽपि जनेभ्यो यद्धितं वस्तु भवेदिह ।एवं प्रातिजनीनः स्यान्माहाजनिक इत्यपि ॥तथा पञ्चजनीनश्च सर्वीयः सार्ववत्स्मृतः ।त्रिषु स्वो निज आत्मीय * * * सौव इत्यपि ॥ ११ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
फेनो जनोऽप्यभिजनो ध्वनिरर्दनिश्चस्थेमोष्म-पाप्म-परिघातन-वह्नयोऽश्मा ।आत्माग्निरह्नचरमास्त्वपरादहीनाःप्लीहा च यक्ष्मसहितोऽपि च देवनोऽक्षैः ॥ १८ ॥
वसन्ततिलका
genderपुंmasc.
एते शब्दाः स्त्रियांभवन्ति । इयमीर्ष्याऽसूया । रुचिर्दीप्तिः अभिलाषो वा । स्फुलिङ्गा अग्निकणाः । शय्या शयनीयम् । निःश्रेणी अधिरोहणी । कोटिः सङ्ख्या । कुटी गृहम् । वाणी वाक् । पेशी मांसपिण्डी । वरूथिनी सेना । कुथा उर्णाकृता । नाडिका कालपरिमाणम् । कन्था जीर्णवासःप्रावरणम् ।नाड्युपपदं व्रणं पुंसि वृक्षजनपांसुकन्दुककलशाश्च ।पञ्जरपलितद्वन्द्वाक्षराणि विद्यादितरजातौ ॥ ६२ ॥
metre not recognised
genderपुंmasc.
मर्मस्पृगथ लोकस्तु प्रजा जन अपीक्षितः ।ग्रामेयकस्तथा ग्राम्यग्रामीणावथ सत्कुले ॥ १६७ ॥
अनुष्टुप्
genderपुंmasc.
जनाभिजनफेनाश्च वृत्रमन्त्रौ च देवलः ।खल्लतल्लौ तु कल्लोलपूपापूपकहिङ्गुलाः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
भटोऽनुजीव्यनुचरः पदातिः पदगोऽनुगः ।पत्तिर्भृत्यः शस्त्रजीवी किङ्करः सेवको जनः ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
जनो जनपदो जानपदश्चैते समार्थकाः ।स्त्री वधूरवला नारी प्रिया रामा जनिर्जनी ॥
अनुष्टुप्
genderपुंmasc.
ग्रामे भवे तु ग्रामीण-ग्रामीणौ ग्राम्य इत्यपि ।ग्रामेयकश्च लोके तु जनो जनपदस्तथा ॥ १११ ॥
अनुष्टुप्
genderपुंmasc.
स्वर्महश्च क्रमाल्लोका महरेव महानपि ।प्राजापत्यो जनस्तस्मात् गोलोकस्तु तपो नपुम् ॥ २०७ ॥
अनुष्टुप्
genderपुंmasc.
तरति प्रणिदाति स्यात्तरणे हवत्तांति च (Corrupt) ।तरतिर्विपरो दाने निरस्तु स्यान्निवर्तने ॥वृत्तौ निर्गमने शक्तौ बाधे प्रात्प्रस्तुतौ जने ।देवादीनामन्ययोनौ भूताद्यावेश उत्परः ॥ ३ ॥
अनुष्टुप्metre not read in every lineLatin letters: Corruptnearly अनुष्टुप्: pāda 2, syllable 5 व (wrong syllable)
meanings
परे महर्लोकत ईरितोऽपिलोकेऽत्र लोकेऽपि जनश्च नीचे ।जनी स्नुषायां स्याज्जनने घनस्तुमेघे दृढे विस्तृतिसान्द्रयोश्च ।दृढेऽप्ययोमुद्गरके * गात्रेवाद्ये पुनर्मध्यमनृत्यकेऽन्त्ये ॥ ८४ ॥
उपजातिःmetre not read in every linenearly उपजातिः
राजन्यबन्धावप्राज्ञे मनुष्ये त्विति सज्जनः ।क्लीबं दमनके प्राणिद्यूते चाथ जनी स्त्रियाम् ॥ ४६४ ॥
अनुष्टुप्
जन as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् लोकआकाशे त्रिदिवे नाको लोकस्तु भुवने जने । पद्ये यशसि च श्लोकः शरे खड्गे च सायकः ॥ २ ॥ Amarakośa 3.3.2
- नामलिङ्गानुशासनम् प्रजासमे क्ष्मांशे रणेऽप्याजिः प्रजा स्यात्सन्ततौ जने । Amarakośa 3.3.64
- धरणिकोश लोकअथ कान्ता निगद्यन्ते पादेन क्रमशस्त्वमी । श्लोको यशसि पद्ये स्याल्लोकस्तु भुवने जने ॥ Dharaṇikośa 1.1.1
- धरणिकोश जगतीजगती छन्दसो भेदे पृथिव्यां विष्टपे जने । रेवती हलिपत्न्यां स्यादृक्षभेदे च मातरि ॥ Dharaṇikośa 15.2.43
- धरणिकोश जनपदप्रियंवदः खेचरे च महामदो गजेऽपि च । विशारदो बुधेऽत्रस्ते शतह्रदा वज्रविद्युतोः । अपवादौ तु निन्दाज्ञे जनपदो जनदेशयोः ॥ Dharaṇikośa 17.1.7
- धरणिकोश भुवनभुवनं गगने प्रोक्तं सलिले विष्टपे जने । शमनं च वधे शान्तौ शमनो यमराट् स्मृतः ॥ Dharaṇikośa 19.2.28
- धरणिकोश मालमालं क्षेत्रे जने मालो माला पुष्पादिनिर्मिता । फालं स्यात्काशिका दीर्णं वस्त्रे बली तथा कुशी ? ॥ Dharaṇikośa 27.2.14
- धरणिकोश पञ्चालउत्फुल्लं करणे स्त्रीणामुत्ताले च विकस्वरे । पञ्चाली पुत्रिकागीत्योः पञ्चालो जनदेशयोः ॥ Dharaṇikośa 27.2.43
- कोषकल्पतरु लोकभुवने जने च लोकः श्लोकः कींर्तौ च पद्ये च । रङ्को मन्दे कृपणे तङ्कस्त्वस्त्री कुजीवने रोगे ॥ १९ ॥ Koṣakalpataru 6.1.19
- कोषकल्पतरु आनर्तदेशान्तरे संगरनृत्यगेहे- ऽप्यानर्त उक्तो जनवाचकोऽपि । आवर्त आवर्तनचिन्तनाम्भो- भ्रमेष्वथाब्दे प्रलयेऽक्षवृक्षे ॥ ७५ ॥ Koṣakalpataru 6.16.75
- कोषकल्पतरु जगत्तत्स्त्री नारदवल्लकीगतमथ क्लीबे पृषद्बिन्दुषु प्रायो भूम्नि मृगे तु पुंसि परवत्स्याच्छ्वेतबिन्द्वन्विते । वायौ पुंसि जगज्जगच्च चरमे लोकेऽन्यवज्जङ्गमे स्त्री भूमौ भुवने जनेष्वपि तथा छन्दोन्तरे कीर्तितम् ॥ २२ ॥ Koṣakalpataru 6.16.22
- कोषकल्पतरु उपपत्तिउपगमे च जने स्यादुपपत्तिर्योजने कथिता । उपसत्तिः सेवायां प्रतिपत्तौ सङ्गमात्रे च ॥ ७७ ॥ Koṣakalpataru 6.17.77
- कोषकल्पतरु जनपदक्लीबे विष्णुपदं सरोजवियतोः क्षीराम्बुधौ त्वादिमे स्त्रीसंक्रान्तिकुशस्थलीसुरधुनीसंज्ञासु संकीर्तितम् । स्याद्देशे च जने पुमाञ्जनपदोऽथो पुंस्त्वव( ? )खेचरे रम्योक्तौ परवत्प्रियंवद इति प्रोक्तोऽववादः पुनः ॥ ४२ ॥ Koṣakalpataru 6.19.42
- कोषकल्पतरु भुवनत्राणे प्रमोदेऽप्यवनं न तु स्त्री गेहे द्वयोनं भवनं च भावे । स्याद्विष्टपे खे भुवनं जने च स्त्रियां न वारिण्यथ चन्दनोऽस्त्री ॥ ७ ॥ Koṣakalpataru 6.21.7
- कोषकल्पतरु ग्राम्यबुधेऽन्यवत्स्याद्रतबन्धके तु ग्राम्यं तथाश्लीलगतं जने च । सौम्यो बुधे ना परवत्त्वनुग्रे मनोहरे स्याच्छशिदेवताके ॥ २१ ॥ Koṣakalpataru 6.26.21
- कोषकल्पतरु ओड्रक्लीबे तु काष्ठे च घृते च दुःखे- ऽथौड्रो जने स्यादपि देशभेदे । जपातरौ पुण्ड्रमुशन्ति दैत्य- [49a]भेदेऽतिमुक्तेक्षुविशेषयोश्च ॥ ५५ ॥ Koṣakalpataru 6.27.55
- कोषकल्पतरु मालक्लीबे तु कांस्यस्य भवेच्च वाद्य- भाण्डे तथा स्याद्धरितालकेऽपि । मालो जने चोन्नतभूतलेऽन्त्ये स्त्रियां तु पुष्पस्रजि कीर्तितोऽयम् ॥ ६० ॥ Koṣakalpataru 6.28.60
- नानार्थार्णवसंक्षेप प्रजासूर्यपत्नीविशेषेऽथ प्रजा सूनौ जनेऽप्यथ । पल्लिः कुटीरेऽल्पग्राम आश्रमे व्याधमन्दिरे ॥ ६४ ॥ Nānārthārṇavasaṃkṣepa 2.1.64
- नानार्थार्णवसंक्षेप लोकलिप्तिक्रियायां लोकस्तु स्थानविष्टपयोर्जने । वर्गः समानां निवहे वज्रे शक्त्याह्वये बले ॥ १०६ ॥ Nānārthārṇavasaṃkṣepa 2.2.106
- नानार्थार्णवसंक्षेप वशजने स्पृहायां त्रिस्त्वेष आयत्ते द्वे तु मानुषे । करणीवैश्यसम्भूते स्यादथो वर्षमस्त्रियाम् ॥ ११६५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1165
- नानार्थार्णवसंक्षेप शुक्लना द्वे द्विजे शिशौ चाथ क्ली जने धनपुण्ययोः । रेतस्यक्षिरुजाभेदे सामभेदे च काञ्चने ॥ १३८२ ॥ Nānārthārṇavasaṃkṣepa 2.5.1382
- नानार्थार्णवसंक्षेप आनर्तद्वितीयभागस्तत्र स्यात् पार्श्व आनर्तवाक् पुनः । नृत्तस्थाने जनपदप्रभेदे च जने युधि ॥ १५ ॥ Nānārthārṇavasaṃkṣepa 3.2.15
- नानार्थार्णवसंक्षेप जनपदचन्द्रहासोऽर्धचन्द्राग्र इति शब्दार्थकोविदः । चित्रभानू रवौ वह्नौ देशे जनपदो जने ॥ ५७ ॥ Nānārthārṇavasaṃkṣepa 6.57
- परमानन्दीयनाममाला आनर्तविरञ्चे वासुदेवेऽथाशयोऽभिप्राय आश्रये । आम्नाय आगमे वंशेऽप्यानर्तः समरे जने ॥ ३६ ॥ Paramānandīyanāmamālā 5.1.36
- शब्दरत्नावली लोकवल्कं स्याद्वल्कले शल्के लोकः स्याद्भुवने जने । अथ वङ्को नदीवक्रे पर्याणाङ्के च तङ्कुरे(?) ॥ Śabdaratnāvalī 7.1.20
- शब्दरत्नावली जगतीस्याज्जगद्भुवने क्लीबं समीरे जङ्गमे त्रिषु । जगती पिष्ठपे भूमौ जनच्छन्दोविशेषयोः ॥ Śabdaratnāvalī 7.16.101
- शब्दरत्नावली भुवनभावना स्यान्न ना ध्यानपर्यालोचाधिवासने । भुवनं गगणे नीरे पिष्टपे च जनेऽपि च ॥ Śabdaratnāvalī 7.20.66
- शब्दरत्नावली कुटुम्बकुटुम्बोऽस्त्री जनज्ञातिबान्धवेषु च सन्ततौ । कैरवं कुमुदे धूर्ते चन्द्रिकायान्तु कैरवी ॥ गाण्डीवगाण्डिवौ चापे पार्थचापेऽपि न स्त्रियौ । गालवो मुनिभेदे स्यात्तथा लोध्रमहीरुहे ॥ ताण्डवोऽस्त्री तृणभिदि ख्याते नृत्ये समुद्धते । त्रिदिवा तु नदीभेदे स्वर्लोके तु भवेत्पुमान् ॥ Śabdaratnāvalī 7.29.29
- शब्दरत्नाकर प्रजापर्व पञ्चदशीग्रन्थ्योः प्रस्तावे विषुवादिके । पार्श्वमस्त्री समीपे च प्रजा तु जनपुत्रयोः ॥ १९६१ ॥ Śabdaratnākara 4.1.1961
- शब्दरत्नाकर लोकरागोऽलक्तेऽनुरागे च त्विषि वर्णान्तरेऽरुणे । लेपने भोजने लेपो लोकः स्याद्भुवने जने ॥ १९८९ ॥ Śabdaratnākara 4.1.1989
- शब्दरत्नाकर जनपदअर्कानलौ चित्रभानू चक्रपादो रथेभयोः । जने देशे जनपदः चन्द्रेऽक्रेऽग्नौ तमोनुदः ॥ २२०९ ॥ Śabdaratnākara 4.1.2209
- त्रिकाण्डशेष जनपददेशे जने जनपदौ निषादौ श्वपचस्वरौ । वाक्ये शब्दे प्रदेशेऽपि पदं पापस्तु न द्वयोः ॥ २०७ ॥ Trikāṇḍaśeṣa 3.3.207
- वैजयन्ती लोकभोजने लेपने लेपो लोकः स्याद्विष्टपे जने । वंशः पृष्ठास्थ्नि गेहोर्ध्वकाष्ठे वेणौ गणे कुले ॥ ५२ ॥ Vaijayantī 6.1.52
- वैजयन्ती प्रजाक्षुद्रग्रामेऽपि पल्ली स्यात्प्रभार्चिषि च भासि च । प्रज्ञा प्राज्ञस्त्रियां बुद्धौ प्रजा तु जनपुत्रयोः ॥ २३ ॥ Vaijayantī 6.2.23
- वैजयन्ती वशवशी करिण्यां वन्ध्यायां रामायां दुहितर्यपि । वशो जनस्पृहायत्तेष्वायत्तत्वप्रभुत्वयोः ॥ ७१ ॥ Vaijayantī 6.5.71
- वैजयन्ती आनर्तगन्धमाल्योपहारे स्यादायोगो व्यापृतावपि । आनर्तो नृत्तशालायां देशभेदे जने युधि ॥ ४ ॥ Vaijayantī 7.1.4
- वैजयन्ती जनपददेशे जने जनपदश्चन्द्रेऽर्केऽग्नौ तमोनुदः । तमोपहोऽप्यथोलूके तस्करे कुमुदाकरे ॥ २३ ॥ Vaijayantī 8.1.23
- वैजयन्ती विश्आत्मनि ज्ञातरि ज्ञः स्यान्ना विड्वैश्ये जने न षण् । तेशब्दः क्रीडने स्त्री स्यात् क्रीडके त्वभिधेयवत् ॥ ३९ ॥ Vaijayantī 8.5.39